सोमाहुतिघट्टः ।
प्राणाय त्वा इति समिधमभ्यादधाति ।
अपानेऽमृतमधां स्वाहा इति जुहोति ।
अथ स्रुचमभिमृशति हृदयं प्रेतिर्सन्ततिश्चक्षुरानतिश्श्रोत्रमुपनतिर्वागागतिः ।
प्रतीतं देवेभ्यो जुष्ठं हव्यमस्थात् ।
अमृते मामधात् ।
आ मां प्राणा विशन्तु भूयसे सुकृताय इति ।
स ह भूय एव सुकृतं करोति ।
अथो हैनममुष्मिल्ँ लोके न पापिवागागच्छति य एवं विद्वानग्निहोत्रं जुहोति १४