सायमाहुत्यैव यत्किं चाह्ना पापं करोति तदस्याग्नी रात्र्यापहन्ति ।
प्रातराहुत्यैव यत्किं च रात्र्या पापं करोति तदस्यादित्योऽह्नापहन्ति ।
सयथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते ।
तद्यथा हिरण्ये ध्माते न कश्चन न्यङ्गः पाप्मा परिशिष्यत एवं हैवास्मिन्न कश्चन न्यङ्गः पाप्मा परिशिष्यते य एवं विद्वानग्निहोत्रं जुहोति १०