यद्ध वा अह्ना पापं क्रियत आदित्यस्तत्कारयति ।
यद्रा त्र्याग्निस्तत् ।
तावब्रूतामित्थं चेद्वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम् ।
हन्तान्नमेवासावान्योन्यस्मिन्नेवात्मानं जुहवावेति ।
स यदादित्योऽस्तमेत्यग्नावेव तदात्मानं जुहोति ।
स यत्किं चादित्योऽह्ना पापं करोति तदस्याग्नी रात्र्यापहन्ति ।
आदित्यमुद्यन्तमग्निरनूदेति ।
आदित्य एव तदात्मानं जुहोति ।
स यत्किं चाग्नी रात्र्या पापं करोति तदस्यादित्योऽह्नापहन्ति ।
स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते स य एवं विद्वानग्निहोत्रं जुहोति ९