००८

तमेवं सम्भृत्य सायं जुहोति ।

स तां गर्भकृतो रात्रिं वसति ।

एवमेव पुनस्सम्भृत्य प्रातर्जुहोति ।

तं जनयति ।

सोऽस्य जायमान एव सर्वं पाप्मानमपहन्ति ।

देवा वै प्रजापतेरजायन्त ।

एष उ एवंविदो जायते ।

स यावन्तं प्रजाप्तिर्लोकमजयत्तावन्तं जयति ।

अथो हेक्षतेऽयं वाव माम अनुष्ठ्या सम्भरति हन्तायं साङ्गस्सतनुरविह्रुतो जरसं गच्छत्विति ।

स ह साङ्ग एव सतनुरविह्रुतो जरसं गच्छति ।

अथो हेक्षतेऽयं वाव मामनुष्ठ्या वेद हन्तेममेवाविशानीति ।

स हैवंविदमेवाविशति ।

स एष वा एको वीरो य एष तपत्येष इन्द्र एष प्रजापतिः ।

एतस्मिन्हास्य तद्धुतं भवति य एवं विद्वानग्निहोत्रं जुहोति ८