००७

असौ वा आदित्योऽस्तं यन्षोढा विम्रोचति ।

व्यम्रुचदिति ह स्म वा एतं पूर्वं पुराणिन आचक्षते ।

अथैतर्हि न्यम्रुचदिति ।

स वा एषोऽस्तं यन्ब्राह्मणमेव श्रद्धया प्रविशति पयसा पशूंस्तेजसाग्निमूर्जौषधी रसेनापस्स्वधया वनस्पतीन् ।

स यद्ब्राह्मणोऽग्निहोत्रपात्राणि निर्णेनेक्ति यत्परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति तामेवास्मिंस्तत्सम्भरति ।

अथ यत्पयो दुहन्ति येन पयसा पशून्प्रविष्टो भवति तदेवास्मिंस्तत्सम्भरति ।

अथ यदङ्गारान्निरूहति येन तेजसाग्निं प्रविष्टो भवति तदेवास्मिंस्तत्सम्भरति ।

अथ यत्तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति तामेवास्मिंस्तत्सम्भरति ।

अथ यदपः प्रत्यानयति येन रसेनापः प्रविष्टो भवति तमेवास्मिंस्तत्सम्भरति ।

अथ यत्समिधमभ्यादधाति यया स्वधया वनस्पतीन्प्रविष्टो भवति तामेवास्मिंस्तत्सम्भरति ७