००६

अथो हैतौ श्यामशबलावेव यदहोरात्रे ।

अहर्वै शबलो रात्रिश्श्यामः ।

ते ये नक्तं जुह्वति रात्रिमेव ते श्यामं प्रविशन्ति ।

अथ य उदिते जुह्वत्यहरेव ते शबलं प्रविशन्ति ।

तयोरेतदेवात्ययनमस्तमिते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात् ।

अथो हैषु सवितैव द्युम्नः ।

सविता वै प्रजापतिः प्रजापतिर्विश्वे देवाः ।

प्रजापतावेवास्य तद्विश्वेषु देवेषु हुतं भवति ।

तदेतत्प्राजापत्यं यदग्निहोत्रम् ।

अथ यदेतत्प्रातः प्रभात्येतस्मिन्वै द्युम्ने प्रजापतिः प्रजाः प्रजनयां चकार ।

सविता वै प्रजापतिः प्रजापतिर्विश्वे देवाः प्रजापतावेवास्य तद्विश्वेषु देवेषु हुतं भवति ।

तदेतद्वैश्वदेवं यदग्निहोत्रम् ।

अथो हैतदहोरात्रे एवम्मुखं सन्धत्तः ।

अन्नं वा अग्निहोत्रम् ।

अन्नाद्यमेवैतदहोरात्रयोर्मुखतोऽपिदधाति ।

एवमेव पुनः प्रातस्सन्धत्तः ।

अन्नं वा अग्निहोत्रम् ।

अन्नाद्यमेवैतदहोरात्रयोर्मुखतोऽपिधायैतौ पुनर्मृत्यू अतिमुच्यते यदहोरात्रे ६