अथ पशुकामस्सायं पशुषु समेतेष्वग्निहोत्रं जुहुयात् ।
ब्रह्म वा अग्निहोत्रम् ।
ब्रह्मणैवैतत्पशून्परिगृह्णाति ।
अविसृष्टेषु प्रातः ।
ब्रह्म वा अग्निहोत्रम् ।
ब्रह्मणैवैतत्पशून्परिगृह्णाति ।
स एतान्ब्रह्मणोभयतः पशून्परिगृह्णीते ।
अव पशून्रुन्द्धे ।
बहुपशुर्भवति ।
अथ स्वर्गकामः द्वौ समुद्रा वचर्यौ विततौ महान्तावावरीवर्तेते पथेव पदौ इति ।
द्वौ हैव समुद्रा वचर्यावहश्चैव रात्रिश्च ।
ते ये नक्तं जुह्वति रात्रिमेव ते समुद्रं प्रविशन्ति ।
अथ य उदिते जुह्वत्यहरेव ते समुद्रं प्रविशन्ति ।
तयोर्वा एतयोरत्ययनमस्ति यथा वै षवं षचं वा स्यात्सेतोर्वा सङ्क्रमणम् ।
अस्तमिते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात् ५