००४

तं त्रिरात्रं तं द्विरात्रं तमप्तोर्यामं तमतिरात्रं तं वाजपेयं तं षोडशिनं तमुक्थ्यं तमग्निष्टोमं तमिष्टिपशुबन्धांस्तं चातुर्मास्यानि तं दर्शपूर्णमासौ तमेते अग्निहोत्राहुती अभिसमभरन् ।

सोऽतो न पराजयते ।

तद्वा अपराजितं यदग्निहोत्रम् ।

न ह वै पराजयते य एवं वेद ।

स यत्पुरस्तादप उपस्पृशति सत्यं वा आपस्सत्यं दीक्षा दीक्षैवास्य सा ।

अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहा इत्यष्टाक्षरेण जुहोति ।

अष्टाक्षरा गायत्री ।

तदेव प्रातःसवनम् ।

मनसा निष्केवल्येनोत्तरामाहुतिं जुहोति ।

तदेव माध्यन्दिनं सवनम् ।

उपमृष्टे प्राश्नाति ।

तदेव तृतीयसवनम् ।

लेलिहितमिव हि तत्तृतीयसवनम् ।

उपरिष्टादप उपस्पृशति ।

अवभृथ एवास्य सः ।

स यदेते सायमाहुती जुहोत्येताभ्यामेवास्याहुतिभ्यां सर्वैरेतैर्यज्ञक्रतुभिरिष्टं भवति ।

अथ यदेते प्रातराहुती जुहोत्येताभ्यामेवास्याहुतिभ्यां सर्वैरेतैर्यज्ञक्रतुभिरिष्टं भवति ।

तदेतदपर्यन्तं यदग्निहोत्रम् ४