००२

तद्यदाहुः केन जुहोति कस्मिन्हूयत इति प्राणेनैव जुहोति प्राणे हूयते ।

तदेतदन्नं प्राणे जुहोति ।

स एषोऽनकाममार इमान्हि प्राणानभि वर्धयमानस्य तेषु जुह्वदास्ते ।

अथैतद्ध वाव ब्राह्मणस्य स्वं यद्धविः ।

तदात्मन्निधत्त एष्वमृतेषु प्राणेषु ।

तदस्यात्मन्निहितं न प्रमीयते ।

तद्यदा वै मन उत्क्रामति यदा प्राणो यदा चक्षुर्यदा श्रोत्रं यदा वागेतानेवाग्नीनभिगच्छति ।

अथास्येदं शरीरमेतेष्वेवाग्निष्वनुप्रविध्यन्ति अस्माद्वै त्वमजायथा एष त्वज्जायतां स्वाहा इति ।

सोऽत आहुतिमयो मनोमयः प्राणमयश्चक्षुर्मयश्श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस्साममयो ब्रह्ममयो हिरण्यमयोऽमृतस्सम्भवति ।

अमृता हैवास्य प्राणा भवन्ति ।

अमृतशरीरमिदं कुरुते ।

सोऽमृतत्वं गच्छति य एवं विद्वानग्निहोत्रं जुहोति २