००१

तदाहुः केन जुहोति कस्मिन्हूयत इति ।

प्राणेनैव जुहोति प्राणे हूयते ।

तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणाञ्जनयन्ति ।

तद्यावद्वै मन्थन्ति न तर्हि प्राणिति ।

अरण्योरेवास्य तर्हि प्राणा भवन्ति ।

तस्य वै मथ्यमानस्य भस्मावशीयते ।

अन्नमेवास्य तज्जायते ।

अन्नं म एतदजनीत्येव तद्विद्यात् ।

धूमोऽनु निनर्दति ।

मन एवास्य तज्जायते ।

मनो म एतदजनीत्येव तद्विद्यात् ।

अङ्गारोऽनु निर्वर्तते ।

चक्षुरेवास्य तज्जायते ।

चक्षुर्म एतदजनीत्येव तद्विद्यात् ।

स एषोऽङ्गार एतानि भस्मानि ग्रसते ।

यथा कुमारो जातस्स्तनमभिपद्येत तथा तिर्यङ्विसर्पति ।

श्रोत्रमेवास्य तज्जायते ।

श्रोत्रं म एतदजनीत्येव तद्विद्यात् ।

उपरि तृणानि धुनोति ।

प्राण एवास्य स जायते ।

प्राणो म एषोऽजनीत्येव तद्विद्यात् ।

भा इत्युद्दीप्यते ।

वागेवास्य सा जायते ।

वाङ्म एषाजनीत्येव तद्विद्यात् ।

स एतान्पञ्च प्राणाञ्जनयते ।

तांस्त्रेधा व्यूह्य देवान्कृत्वा तेषु जुह्वदास्ते ।

देवा हैवास्य देवा भवन्ति ।

इमे त्वेवास्य देवा भवन्ति येषु जुह्वदास्ते १