१०

साम-विभाग-ज्ञान-फलम्

अयम् एवेदम् अग्र आकाश आसीत्। स उ एवाप्य् एतर्हि+++(=अधुना)+++। १
स यस् स आकाश - इन्द्र एव सः।
यस् स इन्द्रस् - सामैव तत्। १

तास्यैतस्य साम्न
इयम् एव प्राची दिग् +हिङ्कार, इयम् प्रस्ताव, इयम् आदिर्, इयम् उद्गीथो।
ऽसौ प्रतिहारो, ऽन्तरिक्षम् उपद्रव, इयम् एव निधनम्। २

तद् एतत् सप्त-विधं साम।
स य एवम् एतत् सप्तविधं साम वेद, यत् किं च प्राच्यां दिशि या देवता, ये मनुष्या, ये पशवो, यद् अन्नाद्यं - तत् सर्वं हिङ्-कारेणाप्नोति। ३

अथ यद्दक्षिणायं दिशि - तत्सर्वम् - प्रस्तावेनाप्नोति। ४
अथ यत् प्रतीच्यां दिशि - तत् सर्वम् आदिनाप्नोति। ५
अथ यद् उदीच्यां दिशि - तत् सर्वम् उद्गीथेनाप्नोति। ६
अथ यद् अमुष्यां दिशि - तत् सर्वम् प्रतिहारेणाप्नोति। ७
अथ यद् अन्तरिक्षे - तत् सर्वम् उपद्रवेणाप्नोति। ८
अथ यदस्यां दिशि या देवता, ये मनुष्या, ये पशवो, यद् अन्नाद्यं - तत् सर्वं निधनेनाप्नोति। ९

सर्वं हैवास्याप्तम् भवति, सर्वं जितं।
न हास्य कश् चन कामोऽनाप्तो भवति य एवं वेद। १०
स यद् +ह किं च किं चैवं विद्वान् एषु लोकेषु कुरुते - स्वस्य हैव तत् स्वतः कुरुते।
तद् एतद् ऋचा+++(←कया??)+++ ऽभ्यनूच्यते ११ ३१

दशमेऽनुवाके प्रथमः खण्डः

“यद्द्याव इन्द्र” इत्यस्य विवरणम्

यद् द्याव +++(=द्यौर्लोकाः)+++ इन्द्र ते +++(प्रतिमानाय)+++ श॒तं श॒तम् भूमीः उ॒त स्युः ।
न त्वा वज्रिन् स॒हस्र॑म् सूर्याः अनु न जा॒तम् अ॑ष्ट॒ रोद॑सी ॥ इति १

“यद्द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युर्” इति - यच् छतं द्यावस् स्युश् शतम् भूम्यस् ताभ्य एष एवाकाशो ज्यायान्। २
“न त्वा वज्रिन्त् सहस्रं सूर्या अन्व्” इति - न ह्येतं सहस्रं चन सूर्या अनु +++(+आप्नुवन्ति)+++। ३
“न जातम् अष्ट रोदसी” इति - न ह्येतं जातं रोदन्ति। इमे ह वाव रोदसी। ताभ्याम् एष एवाकाशो ज्यायान्। एतस्मिन् ह्येवैते अन्तः। ४

स यस् स आकाश - इन्द्र एव सः।
स यस् स इन्द्र - एष एव स य एष तपति। ५
स एषो ऽभ्राण्य् अतिमुच्यमान एति।

फलस्तुतिः

तद् यथैषो ऽभ्राण्य् अतिमुच्यमान एत्य् एवम् एव स। सर्वस्मात् पाप्मनो ऽतिमुच्यमान एति, य एवं वेदाथो यस्यैवं विद्वानुद्गायति ६ ३२

दशमेऽनुवाके द्वितीयः खण्डः। दशमोऽनुवाकस्समाप्तः ।