[[खण्डः]]
का सावित्री अग्निरेव सविता पृथिवी सावित्री १
स यत्राग्निस्तत्पृथिवी यत्र
वा पृथिवी तदग्निः ते द्वे योनी तदेकम्मिथुनम् २
कस्सविता का सावित्री वरुण
एव सविता आपस्सावित्री ३
स यत्र वरुणस्तदापो यत्र वापस्तद्वरुणः ते द्वे
योनी तदेकम्मिथुनम् ४
कस्सविता का सावित्री वायुरेव सविता
आकाशस्सावित्री ५
स यत्र वायुस्तदाकाशो यत्र
वाकाशस्तद्वायुः ते द्वे योनी तदेकम्मिथुनम् ६
कस्सविता का
सावित्री यज्ञ एव सविता छन्दांसि सावित्री ७
स यत्र यज्ञस्तच्छन्दांसि यत्र
वा छन्दांसि तद्यज्ञः ते द्वे योनी तदेकम्मिथुनम् ८
कस्सविता का सावित्री
स्तनयित्नुरेव सविता विद्युत्सावित्री ९
स यत्र
स्तनयित्नुस्तद्विद्युद्यत्र
वा विद्युत्तत्स्तनयित्नुः ते द्वे योनी तदेकम्मिथुनम् १०
कस्सविता का
सावित्री आदित्य एव सविता द्यौस्सावित्री ११
स
यत्रादित्य-स्तद्द्यौर्यत्र वा
द्यौस्तदादित्यः ते द्वे योनी तदेकम्मिथुनम् १२
कस्सविता
का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री १३
स यत्र चन्द्र
स्तन्नक्षत्राणि यत्र वा नक्षत्राणि तच्चन्द्रः! ते द्वे
योनी तदेकम्मिथुनम् १४
कस्सविता का सा-वित्री मन एव सविता वाक्सावित्री १५
स यत्र मनस्तद्वाग्यत्र वा वाक्तन्मनः ते द्वे योनी तदेकम्मिथुनम् १६
कस्सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र
पुरुषस्तत्स्त्री यत्र वा स्त्री तत्पुरुषः ते द्वे योनी
तदेकम्मिथुनम् १७
२७
द्वादशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
तस्या एष प्रथमः पादो भूस्तत्सवितुर्वरेण्यमिति अग्निर्वै वरेण्यमापो वै
वरेण्यं चन्द्र मा वै वरेण्यम् १
तस्या एष द्वितीयः पादो भर्गमयो
भुवो भर्गो देवस्य धीमहीति अग्निर्वै भर्गः आदित्यो वै भर्गः
चन्द्र मा वै भर्गः २
तस्या एष तृतीयः पादस्स्वर्धियो यो नः
प्रचोदयादिति यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ३
भूर्भुवस्तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहीति अग्निर्वै भर्गः
आदित्यो वै भर्गः चन्द्र मा वै भर्गः ४
स्वर्धियो यो नः प्रचोदयादिति
यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ५
भूर्भुवस्स्वस्तत्सवितुर्वरेण्यम्भर्गो
देवस्य धीमहि धियो यो नः प्रचोदयादिति यो वा एतां सावित्रीमेवं वेदाप
पुनर्मृत्युं तरति सावित्र्! या एव सलोकतां जयति सावित्र्!
या एव सलोकतां जयति
६
२८
द्वादशेऽनुवाके द्वितीयः खण्डः द्वादशोऽनुवाकस्समाप्तः
इत्युपनिषद्ब्राह्मणं समाप्तम्