[[खण्डः]]
आशा वा इदमग्र आसीद्भविष्यदेव तदभवत्ता आपोऽभवन् १
तास्तपोऽतप्यन्त
तास्तपस्तेपाना हुस्सित्येव प्राचीः प्राश्वसन्स वाव
प्राणोऽभवत् २
ताः प्राण्यापानन्स वा अपानोऽभवत् ३
ता अपान्य
व्यानन्स वाव व्यानोऽभवत् ४
ता व्यान्य समानन्स वाव समानोऽभवत् ५
तास्समान्योदानन्स वा उदानोऽभवत् ६
तदिदमेकमेव
सधमाद्यमासीदविविक्तम् ७
स नाम-रूपमकुरुत
तेनैनद्व्यविनक् वि ह पाप्मनो विच्यते य एवं वेद ८
तदसौ वा आदित्यः
प्राणोऽग्निरपान आपो व्यानो दिशस्समानशन्द्र मा उदानः ९
तद्वा
एतदेकमभवत्प्राण एव स य एवमेतदेकम्भवद्वेदैवं हैतदेकधा भवतीत्येकधैव
श्रेष्ठस्स्वानाम्भवति १०
तदग्निर्वै प्राणो वागिति पृथिवी
वायुर्वै प्राणो वागि-त्यन्तरिक्षमादित्यो वै प्राणो वागिति
द्यौर्दिशो वै प्राणो वागिति श्रोत्रं चन्द्र मा वै प्राणो वागिति
मनः पुमान्वै प्राणो वागिति स्त्री ११
तस्येदं सृष्टं
शिथिल-म्भुवनमासीदपर्याप्तम् १२
स
मनोरूपमकुरुत तेन तत्पर्याप्नोत् दृढं ह वा
अस्येदं सृष्टमशिथिलम्भुवनम्पर्याप्तम्भवति य एवं वेद १३
२२
एकादशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
सैषा चतुर्धा विहिता श्रीरुद्गीथस्सामार्क्यं ज्येष्ठब्राह्मणम् १
प्राणो
वावोद्वाग्गी स उद्गीथः २
प्राणो वावामो वाक्सा तत्साम ३
प्राणो वाव को
वागृक्तदर्क्यम् ४
प्राणो वाव ज्येष्ठो वाग्ब्राह्मणं तज्ज्येष्ठब्राह्मणम्
५
उपनिषदम्भो ब्रूहीति उक्ता त उपनिषद्यस्य ते धातव उक्ताः त्रिधातु विषु
वाव त उपनिषदमब्रूमेति ६
एतच्छुक्लं कृष्णं ताम्रं सामवर्ण इति ह स्माह
यदैव शुक्लकृष्णे ताम्रो वर्णोऽभ्यवैति स वै ते वृङ्ते दशम मानुषमिति
त्रिधातु स ऐक्षत क्व नु म
उत्तानाय शयानायेमा देवता बलिं हरेयुरिति ७
२३
एकादशेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
स पुरुषमेव प्रपदनायावृणीत १
तम्पुरस्तात्प्रत्यञ्चम्प्राविशत्तस्मा
उरुरभव-त्तदुरस उरस्त्वम् २
तस्मा अत्रसद एता देवता बलिं
हरन्ति ३
वाचमनु-हरन्तीमग्निरस्मै बलिं हरति ४
मनोऽनुहरच्चन्द्र मा अस्मै बलिं हरति ५
चक्षुरनुहरदादित्योऽस्मै बलिं हरति ६
श्रोत्रमनुहरद्दिशोऽस्मै बलिं
हरन्ति ७
प्राणमनुहरन्तं वायुरस्मै बलिं हरति ८
तस्यैते निष्खाताः
पन्था बलिवाहना इमे प्राणाः एवं हैतं निष्खाताः पन्था
बलिवाहनास्सर्वतोऽपियन्ति प्राणा य एवं वेद ९
सा
हैषा ब्रह्मासन्दीमारूढा आ हास्मै ब्रह्मासन्दीं हरन्त्यधि ह
ब्रह्मासन्दीं रोहति य एवं वेद १०
तदेतद्ब्रह्मयशश्श्रिया
परिवृढं ब्रह्म ह तु सन्यशसा श्रिया परिवृढो भवति य एवं वेद ११
तस्यैष आदेशो योऽयं दक्षिणेऽक्षन्नन्तः तस्य यच्छुक्लं तदृचां रूपं
यत्कृष्णं तत्साम्नां यदेव ताम्रमिव बभ्रुरिव तद्यजुषाम् १२
य
एवायं चक्षुषि पुरुष एष इन्द्र एष प्रजापतिस्समः पृथिव्या सम
आकाशेन समो दिवा समस्सर्वेण भूतेन एष परो दिवो दीप्यते एष एवेदं
सर्वमित्युपासितव्यम् १३
२४
एकादशेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
सच्चासच्चासच्च सच्च वाक्च मनश्च मनश्च वाक्च चक्षुश्च श्रोत्रं च श्रोत्रं
च चक्षुश्च श्रद्धा च तपश्च तपश्च श्रद्धा च तानि षोडश १
षोडशकलम्ब्रह्म स
य एवमेत-त्षोडशकलम्ब्रह्म वेद तमेवैतत्षोडशकलम्ब्रह्माप्येति २
वेदो
ब्रह्म तस्य सत्यमायतनं शमः प्रतिष्ठा दमश्च ३
तद्यथा श्वः
प्रैष्यन्पापात्कर्मणो जुगुप्से-तैवमेवाहरहः पापात्कर्मणो
जुगुप्सेताकालात् ४
अथैसां दशपदी विराट् ५
दश पुरुषे
स्वर्गनरकाणि तान्येनं स्वर्गं गतानि स्वर्गं
गमयन्ति नरकं गतानि
नरकं गमयन्ति ६
२५
एकादशेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
मनो नरको वाङ्नरकः प्राणो नरकश् चक्षुर्नरकश्श्रोत्रं नरकस्त्वङ्नरको हस्तौ
नरको गुदं नरकश्शिश्नं नरकः पादौ नरकः १
मनसा परीक्ष्याणि वेदेति वेद २
वाचा रसान्वेदेति वेद ३
प्राणेन गन्धान्वेदेति वेद ४
चक्षुषा रूपाणि
वेदेति वेद ५
श्रोत्रेण शब्दान्वेदेति वेद ६
त्वचा संस्पर्शान्वेदेति
वेद ७
हस्ताभ्यां कर्माणि वेदेति वेद ८
उदरेणाशनयां वेदेति वेद ९
शिश्नेन
रामान्वेदेति वेद १०
पादाभ्यामध्वनो वेदेति वेद ११
प्लक्षस्य
प्रास्रवणस्य प्रादेशमात्रादुदक्तत्पृथिव्यै मध्यमथ
यत्रैते सप्तर्षयस्तद्दिवो मध्यम् १२
अथ यत्रैत ऊषास्तत्पृथिव्यै
हृदयमथ यदेतत्कृष्णं चन्द्र मसि तद्दिवो हृदयम् १३
स य एवमेते
द्यावापृथिव्योर्मध्ये च हृदये च वेद नाकामोऽस्माल्लोकात्प्रैति
१४
नमोऽतिसामायैतुरेताय धृतराष्ट्राय पार्थुश्रवसाय ये च प्राणं रक्षन्ति
ते मा रक्षन्तु
स्वस्ति कर्मेति गार्हपत्यश्शम इत्याहवनीयो दम इत्यन्वाहार्यपचनः १५
२७
एकादशेऽनुवाके पञ्चमः खःडः
एकादशोऽनुवाकस्समाप्तः