[[खण्डः]]
केनेषितम्पतति प्रेषितम्मनः केन प्राणः प्रथमः प्रैति युक्तः केनेषितां
वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति १
श्रोत्रस्य
श्रोत्रम्मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः
चक्षुषश्चक्षुरतिमुच्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति २
न
तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः न विद्म न विजानीमो
यथैतदनुशिष्यात् ३
अन्यदेव तद्विदितादथो अविदितादधि इति
शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ४
यद्वाचानभ्युदितं येन
वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ५
यन्मनसा न मनुते
येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ६
यच्चक्षुषा
न पश्यति येन चक्षूंषि पश्यति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते
७
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म त्वं विद्धि
नेदं यदिदमुपासते ८
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ९
१८
दशमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
यदि मन्यसे सु वेदेति दह्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं
यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्येऽविदितम् १
नाहम्मन्ये सु वेदेति
नो न वेदेति वेद च यो नस्तद्वेद तद्वेद नो न वेदेति वेद च २
यस्यामतं
तस्य मतम्मतं यस्य न वेद सः अविज्ञातं विजानतां अविजानताम् ३
प्रति-बोधविदितम्मतममृतत्वं हि विन्दते आत्मना विन्दते
वीर्यं विद्यया विन्दते-ऽमृतम् ४
इह चेदवेदीदथ सत्यमस्ति न
चेदिहावेदीन्महती विनष्टिः भूतेषुभूतेषु विविच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ५
१९
दशमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त
ऐक्षन्तास्माकमेवायं विजयः अस्माकमेवायम्महिमेति १
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त
किमिदं यक्षमिति २
तेऽग्निमब्रुवञ्जातवेद एतद्वि-जानीहि
किमेतद्यक्षमिति तथेति ३
तदभ्यद्र
वत्तमभ्यवदत्कोऽसीति अग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ४
तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं दहेयम्यदिदम्पृथिव्यामिति ५
तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
निववृते नैनदशकं विज्ञातुं यदेतद्यक्षमिति ६
अथ
वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति तथेति ७
तदभ्यद्र वत्तमभ्यवदत्कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ८
तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वमाददीय
यदिदम्पृ-थिव्यामिति ९
तस्मै तृणं निदधावेतदादत्स्वेति
तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैनदशकं
विज्ञातुं यदेतद्यक्षमिति १०
अथेन्द्र
मब्रुवन्मघवन्नेतद्विजानीहि
किमेतद्यक्षमिति तथेति तदभ्यद्र वत्तस्मा-त्तिरोऽदधे ११
स
तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं
तां होवाच किमेतद्यक्षमिति १२
२०
दशमेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्व इति ततो हैव विदां चकार
ब्रह्मेति १
तस्माद्वा एते देवा
अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्र
ः! ते ह्येनन्ने-दिष्ठम्पस्पृशुस्स ह्येनत्प्रथमो विदां चकार ब्रह्मेति २
तस्माद्वा इन्द्रो ऽतितरामि-वान्यान्देवान्स ह्येनन्नेदिष्ठम्पस्पर्श स
ह्येनत्प्रथमो विदां चकार ब्रह्मेति ३
तस्यैष आदेशो यदेतद्विद्युतो
व्यद्युतदा३
इति न्यमिषदा३
इत्यधिदेवतम् ४
अथाध्यात्मं
यदेनद्गच्छतीव च मनोऽनेन चैनदुपस्मरत्यभीक्ष्णं
सङ्कल्पः ५
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
हैनं सर्वाणि भूतानि संवाङ्छन्ति ६
उपनिषदम्भो ब्रूहीति उक्ता त
उपनिषत् ब्राह्मीं वाव त उपनिषदमब्रूमेति ७
तस्यै तपो दमः
कर्मेति प्रतिष्ठा वेदास्सर्वाङ्गाणि सत्य-मायतनम् ८
यो वा एतामेवं
वेदापहत्य पाप्मानमनन्ते स्वर्गे लोकेऽज्येये
प्रतितिष्ठति ९
२१
दशमेऽनुवाके चतुर्थः खण्डः
दशमोऽनुवाकस्समाप्तः