[[खण्डः]]
एवं वा एतं गायत्रस्योद्गीथमुपनिषदममृतमिन्द्रो ऽगस्त्यायोवाचागस्त्य इषाय श्यावाश्वय इषश्श्यावाश्विर्गौषूक्तये गौषूक्तिर्ज्वालायनाय ज्वालायनश्शा-ट्यायनये शाट्यायनी रामाय क्रातुजातेयाय वैयाघ्रपद्याय रामः क्रातुजातेयो
वैयाघ्रपद्यः १
१६
नवमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
शङ्खाय बाभ्रव्याय शङ्खो बाभ्रव्यो दक्षाय कात्यायनय आत्रेयाय दक्षः
कात्यायनिरात्रेयः कंसाय वारक्याय कंसो वारक्यस्सुयज्ञाय
शाण्डिल्याय सुयज्ञश्शाण्डिल्योऽग्निदत्ताय
शाण्डिल्यायाग्निदत्तश्शाण्डिल्यस्सुयज्ञाय
शाण्डिल्याय सुयज्ञश्शाण्डिल्यो जयन्ताय वारक्याय जयन्तो वारक्यो जनश्रुताय
वारक्याय जनश्रुतो वारक्यस्सुदत्ताय पाराशर्याय १
सैषा शाट्यायनी गायत्रस्योपनिषदेवमुपासितव्या २
१७
नवमेऽनुवाके द्वितीयः खण्डः
नवमोऽनुवाकस्समाप्तः