[[खण्डः]]
षड्ढ वै देवतास्स्वयम्भुवोऽग्निर्वायुरसावादित्यः प्राणोऽन्नं वाक् १
ताश्श्रैष्ठ्ये व्यवदन्ताहं श्रेष्ठास्म्यहं श्रेष्ठास्म्य्मां
श्रियमुपाध्वमिति २
ता अन्योन्यस्यै श्रेष्ठ-तायै नातिष्ठन्त ता अब्रुवन्न
वा अन्योन्यस्यै श्रेष्ठतायै तिष्ठामह एता सम्प्रब्रवामहै यथा
श्रेष्ठास्स्म इति ३
ता अग्निमब्रुवन्कथं त्वं
श्रेष्ठोऽसीति ४
सोऽब्रवीदहं
देवानाम्मुखमस्म्यहमन्यासाम्प्रजानाम्मयाहुतयो
हूयन्ते अहं देवानामन्नं विक-रोम्यहम्मनुष्याणाम् ५
स यन्न स्याममुखा एव
देवास्स्युरमुखा अन्याः प्रजाः नाहुतयो हूयेरन्न देवानामन्नं
विक्रियेत न मनुष्याणाम् ६
तत इदं सर्वम्परा-भवेत्ततो न
किं चन परिशिष्येतेति ७
एवमेवेति होचुर्नैवेह किं चन परिशिष्येत
यत्त्वं न स्या इति ८
अथ वायुमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति ९
सोऽब्रवीदहं देवानाम्प्राणोऽस्म्यहमन्यासाम्प्रजानां यस्मादहमुत्क्रामामि
ततस्स प्रप्लवते १०
स यदहं न स्यां तत इदं सर्वम्पराभवेत्ततो न किं चन
परिशिष्येतेति ११
एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति १२
११
अष्टमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
अथादित्यमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति १
सोऽब्रवीदहमेवोद्यन्नहर्भवाम्यह-मस्तंयन्रात्रिः
मया चक्षुषा कर्माणि क्रियन्ते स यदहं न स्यां नैवाहस्स्यान्न रात्रिः न
कर्माणि क्रियेरन् २
तत इदं सर्वम्पराभवेत्ततो न किं चन
परिशिष्येतेति ३
एवमेवेति होचुर्नैवेह किं चन
परिशिष्येत यत्त्वं न स्या इति ४
अथ प्राणमब्रुवन्कथमु त्वं
श्रेष्ठोऽसीति ५
सोऽब्रवीत्प्राणो भूत्वाग्निर्दीप्यते
प्राणो भूत्वा वायुराकाशमनुभवति प्राणो भूत्वादित्य उदेति
प्राणादन्नम्प्राणाद्वाक् ६
स यदहं न स्यां तत
इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येतेति ७
एवमेवेति होचुर्नैवेह
किं चन परिशिष्येत यत्त्वं न स्या इति ८
अथान्नमब्रु-वन्कथमु त्वं
श्रेष्ठमसीति ९
तदब्रवीन्मयि प्रतिष्ठायाग्निर्दीप्यते मयि
प्रतिष्ठाय वायुराकाशमनुविभवति मयि प्रतिष्ठायादित्य उदेति मदेव प्राणो
मद्वाक् १०
स यदहं न स्यां तत इदं सर्वम्पराभवेत्ततो न किं चन
परिशिष्येतेति ११
एवमेवेति होचुर्नैवेव किं चन
परिशिष्येत यत्त्वं न स्या इति १२
अथ वाच-मब्रुवन्कथमु त्वं
श्रेष्ठासीति १३
साब्रवीन्मयैवेदं विज्ञायते मयादः स
यदहं न स्यां नैवेदं विज्ञायेत नादः १४
तत इदं सर्वम्पराभवेन्नैवेह किं चन
परिशिष्येतेति १५
एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या
इति १६
१२
अष्टमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
ता अब्रुवन्नेता वै किल सर्वा देवताः एकैकामेवानु स्मः स यन्नु नस्सर्वासां
देवतानामेका चन न स्यात्तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येत हन्त
सार्धं समेत्य यच्छ्रेष्ठं तदसामेति १
ता एतस्मिन्प्राण ओकारे वाच्यकारे
समायन्तद्यत्समायन्तत्साम्नस्सामत्वम् २
ता अब्रुवन्यानि नो
मर्त्यान्यनपह-तपाप्मान्यक्षराणि
तान्युद्धृत्यामृतेष्वपहतपाप्मसु
शुद्धेष्वक्षरेषु गायत्रं गाया-माग्नौ वायावादित्ये प्राणेऽन्ने वाचि
तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति ३
एत्यग्नेरमृतमपहतपाप्म शुद्धमक्षरं ग्निरित्यस्य
मर्त्यमन-पहतपाप्माक्षरम् ४
वेति वायोरमृतमपहतपाप्म
शुद्धमक्षरं युरित्यस्य मर्त्य-मनपहतपाप्माक्षरम् ५
एत्यादित्यस्यामृतमपहतपाप्म
शुद्धमक्षरं त्येत्यस्य मर्त्यमनपहतपाप्माक्षरम् ६
प्रेति
प्राणस्यामृतमपहतपाप्म शुद्धमक्षरं णेत्यस्य
मर्त्यमनपहतपाप्माक्षरम् ७
एत्यन्नस्यामृतमपहतपाप्म
शुद्धमक्षरं नमित्यस्य मर्त्यमनपहतपाप्माक्षरम् ८
वेति
वाचोऽमृतमपहतपाप्म शुद्धमक्षरं गित्यस्यै
मर्त्यमनपहतपाप्माक्षरम् ९
ता एतानि
मर्त्यान्यनपहतपाप्मान्यक्षराण्युद्धृत्या-मृतेष्वपहतपाप्मसु
शुद्धेष्वक्षरेषु गायत्रमागायन्नग्नौ वायावादित्ये प्राणेऽन्ने वाचि
तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायन् १०
अपहत्य
मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद ११
१३
अष्टमेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
ता ब्रह्माब्रुवन्त्वयि प्रतिष्ठायैतमुद्यच्छामेति ता ब्रह्माब्रवीदास्येन
प्राणेन युष्मानास्येन प्राणेन मामुपाप्नवाथेति १
ता एतेन प्राणेनौकारेण
वाच्यकारम-भिनिमेष्यन्त्यो हिङ्काराद्भकारमोकारेण वाचमनुस्वरन्त्य
उभाभ्याम्प्राणाभ्यां गायत्रमगायन्नोवा३चोवा३चोवा३छुम्भा वो
वा इति २
स यथोभयापदी प्रतितिष्ठत्येवमेव स्वर्गे लोके
प्रत्यतिष्ठन्प्रति स्वर्गे लोके
तिष्ठति य एवं वेद ३
य उ ह वा एवंविदस्माल्लोकात्प्रैति स प्राण
एव भूत्वा वायुमप्येति वायोरध्यभ्राण्यभ्रेभ्योऽधि वृष्टिं वृष्ट्यैवेमं
लोकमनुविभवति ४
ऋषयो ह सत्त्रमासां चक्रिरे ते
पुनःपुनर्बह्वीभिर्बह्वीभिः
प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं नानु चन बुबुधिरे ५
त उ श्रमेण तपसा
व्रतचर्येणेन्द्र मवरुरुधिरे ६
तं होचुस्स्वर्गं वै लोकमैप्सिष्म ते
पुनःपुनर्बह्वीभिर्बह्वीभिः प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं
नानु चनाभुत्स्महि तथा नोऽनुशाधि यथा स्वर्गस्य लोकस्य
द्वारमनुप्रज्ञायानार्तास्स्वस्ति संवत्सरस्योदृचं
गत्वा स्वर्गं लोकमियामेति ७
तान्होवाच को वस्स्थविरतम इति ८
१४
अष्टमेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
अहमित्यगस्त्यः १
स वा एहीति होवाच तस्मै वै तेऽहं तद्वक्ष्यामि
यद्विद्वांस-स्स्वर्गस्य लोकस्य
द्वारमनुप्रज्ञायानार्तास्स्वस्ति
संवत्सरस्योदृचं गत्वा स्वर्गं लोकमेष्यथेति २
तस्मा एतं
गायत्रस्योद्गीथमुपनिषदममृतमुवाचाग्नौ
वाया-वादित्ये प्राणेऽन्ने वाचि ३
ततो वै ते स्वर्गस्य लोकस्य
द्वारमनुप्रज्ञायाना-र्तास्स्वस्ति
संवत्सरस्योदृचं गत्वा स्वर्गं लोकमायन् ४
एवमेवैवं विद्वा-न्स्वर्गस्य लोकस्य
द्वारमनुप्रज्ञायानार्तस्स्वस्ति
संवत्सरस्योदृचं गत्वा स्वर्गं
लोकमेति ५
१५
अष्टमेऽनुवाके पञ्चमः खण्डः
अष्टमोऽनुवाकस्समाप्तः