०७

[[खण्डः]]

पुरुषो वै यज्ञः पुरुषो होद्गीथः अथैत एव मृत्यवो यदग्निर्वायुरादित्यश्चन्द्र माः १
ते ह पुरुषं जायमानमेव मृत्युपाशैरभिदधति तस्य वाचमेवाग्निरभिदधाति प्राणं वायुश्चक्षुरादित्यश्श्रोत्रं चन्द्र माः २
तदाहुस्स वा उद्गाता यो यजमानस्य प्राणे-भ्योऽधि मृत्युपाशानुन्मुञ्चतीति ३
तद्यस्यैवं विद्वान्प्रस्तौति य एवास्य वाचि मृत्युपाशस्तमेवास्योन्मुञ्चति ४
अथ यस्यैवं विद्वानुद्गायति य एवास्य प्राणे मृत्युपाशस्तमेवास्योन्मुञ्चति ५
अथ यस्यैवं विद्वान्प्रतिहरति य एवास्य चक्षुषि मृत्युपाशस्तमेवास्योन्मुञ्चति ६
अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य श्रोत्रे मृत्युपाशस्तमेवास्योन्मुञ्चति ७
एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुञ्चति ८ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि

मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणातीति ९

सप्तमेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

तद्यस्यैवं विद्वान्हिङ्करोति य एवास्य लोमसु मृत्युपाशस्तस्मादेवैनं स्पृणाति १
अथ यस्यैवं विद्वान्प्रस्तौति य एवास्य त्वचि मृत्युपाशस्तस्मादेवैनं स्पृणाति २
अथ यस्यैवं विद्वानादिमादत्ते य एवास्य मांसेषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ३
अथ यस्यैवं विद्वानुद्गायति य एवास्य स्नावसु मृत्युपाशस्तस्मा-देवैनं स्पृणाति ४
अथ यस्यैवं विद्वान्प्रतिहरति य एवास्याङ्गेषु मृत्युपा-शस्तस्मादेवैनं स्पृणाति ५ अथ यस्यैवं विद्वानुपद्र वति य एवास्यास्थिषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ६
अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य मज्जसु मृत्युपाशस्स तस्मादेवैनं स्पृणाति ७
एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणाति ८
तदा-हुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधातीति ९
स वा एष इन्द्रो वैमृध उद्यन्भवति सवितोदितो मित्रस्सङ्गवकाल इन्द्रो वैकुण्ठो मध्यन्दिने समावर्तमानश्शर्व उग्रो देवो लोहितायन्प्रजापतिरेव संवेशेऽस्तमितः १० तद्यस्यैवं विद्वान्हिङ्करोति य एवास्योद्यतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति ११
अथ यस्यैवं विद्वान्प्रस्तौति य एवास्योदिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १२
अथ यस्यैवं विद्वानादिमादत्ते य एवास्य सङ्गवकाले स्वर्गो लोक-स्तस्मिन्नेवैनं दधाति १३
अथ यस्यैवं विद्वानुद्गायति य एवास्य मध्यन्दिने स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १४
अथ यस्यैवं विद्वान्प्रतिहरति य एवा-स्यापराह्णे स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १५
अथ यस्यैवं विद्वानुपद्र वति य एवास्यास्तंयतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १६
अथ यस्यैवं विद्वान्नि-धनमुपैति य एवास्यास्तमिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १७
एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं

सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधाति १८
१०

सप्तमेऽनुवाके द्वितीयः खण्डः

सप्तमोऽनुवाकस्समाप्तः