[[खण्डः]]
भगेरथो हैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाण आस १
तदु ह
कुरुपञ्चा-लानाम्ब्राह्मणा ऊचुर्भगेरथो ह वा
अयमैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाणः एतेन कथां
वदिष्याम इति २
तं हाभ्येयुः तेभ्यो
हाभ्यागते-भ्योऽपचितीश्चकार
३
अथ हैषां स भाग आवव्राजोप्त्वा केशश्मश्रूणि नखा-न्निकृत्याज्येनाभ्यज्य
दण्डोपानहम्बिभ्रत् ४
तान्होवाच ब्राह्मणा भगवन्तः कतमो वस्तद्वेद
यथाश्रावितप्रत्याश्राविते देवान्गच्छत इति ५
अथ होवाच कतमो
वस्तद्वेद यद्विदुषस्सूद्गाता सुहोता स्वध्वर्युस्सुमानुषविदाजायत इति ६
अथ होवाच कतमो वस्तद्वेद यच्छन्दांसि प्रयुज्यन्ते यत्तानि सर्वाणि
संस्तुतान्यभिसम्पद्यन्त इति ७
अथ होवाच कतमो वस्तद्वेद यथा
गायत्र्! या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ८
अथ होवाच कतमो
वस्तद्वेद यथा
दक्षिणाः प्रतिगृहीता न हिंसन्तीति ९
६
षष्ठेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
एतान्हैनान्पञ्च प्रश्नान्पप्रच्छ १
तेषां ह कुरुपञ्चालानाम्बको
दाल्भ्योऽनूचान आस २
स होवाच
यथाश्रावितप्रत्याश्राविते
देवान्गच्छत इति प्राच्यां वै राजन्दिश्याश्रावितप्रत्याश्राविते
देवान्गच्छतः तस्मात्प्राङ्तिष्ठन्नाश्रावयति
प्राङ्तिष्ठन्प्रत्याश्रावयतीति ३
अथ होवाच
यद्विदुषस्सूद्गाता सुहोता स्वध्व-र्युस्सुमानुषविदाजायत इति यो
वै मनुष्यस्य सम्भूतिं वेदेति होवाच तस्य सूद्गाता सुहोता
स्वध्वर्युस्सुमानुषविदाजायत इति प्राणा उ ह
वाव राज-न्मनुष्यस्य सम्भूतिरेवेति ४
अथ होवाच यच्छन्दांसि प्रयुज्यन्ते
यत्तानि सर्वाणि संस्तुतान्यभिसम्पद्यन्त इति गायत्रीमु ह वाव
राजन्सर्वाणि छन्दांसि संस्तुतान्यभिसम्पद्यन्त ५
अथ होवाच
यथा गायत्र्! या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति वषट्कारेणो ह
वाव राजन्गायत्र्! या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ६
अथ
होवाच यथा दक्षिणाः प्रतिगृहीता न हिंसन्तीति ७
७
षष्ठेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
यो वै गायत्र्! यै मुखं वेदेति होवाच तं दक्षिणा प्रतिगृहीता न हिंसन्तीति
१
अग्निर्ह वाव राजन्गायत्रीमुखं तस्माद्यदग्नावभ्यादधाति भूयानेव स तेन
भवति वर्धते एवमेवैवं विद्वान्ब्राह्मणः प्रतिगृह्णन्भूयानेव भवति
वर्धत उ एवेति २
स होवाचानूचानो वै किलायम्ब्राह्मण आस त्वामहमनेन
यज्ञेनैमीति ३
तस्य वै ते तथोद्गास्यामीति होवाच यथैकराडेव भूत्वा
स्वर्गं लोकमेष्यसीति ४
तस्मा एतेन गायत्रेणोद्गीथेनोज्जगौ स
हैकराडेव भूत्वा स्वर्गं लोकमियाय तेन हैतेनैकराडेव भूत्वा
स्वर्गं लोकमेति य एवं वेद ५
ॐ वा इति द्वे अक्षरे ॐ वा इति चतुर्थे ॐ वा
इति षष्ठे हुम्भा ॐ वागित्यष्टमे ६
तेन हैतेन प्रतीदर्शोऽस्य
भयदस्यासमात्यस्योज्जगौ ७
तं होवाच किं त आगास्यामीति
स होवाच हरी मे देवाश्वावागायेति तथेति तौ हास्मा आजगौ तौ हैनमाजग्मतुः ८
स वा एष उद्गीथः कामानां सम्पदॐ वा३चॐ वा३चॐ वा३छुम्भा ॐ वागिति साङ्गो
हैव सतनुरमृतस्सम्भवति य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ९
८
षष्ठेऽनुवाके तृतीयः खण्डः
षष्ठोऽनुवाकस्समाप्तः