०४ अन्तर्धिः

विश्वास-प्रस्तुतिः

अरण्यस्य वत्सोऽसि, विश्वनामा। विश्वाभिरक्षणो, ऽपाम् पक्वोऽसि वरुणस्य दूतो, ऽन्तर्धि-नाम +++(ते)+++ । १

मूलम्

अरण्यस्य वत्सोऽसि, विश्वनामा। विश्वाभिरक्षणो, ऽपाम् पक्वोऽसि वरुणस्य दूतो, ऽन्तर्धि-नाम। १

विश्वास-प्रस्तुतिः

यथा त्वम् अमृतो मर्त्येभ्यो ऽन्तर्हितो ऽस्य्, एवं त्वम् अस्मान् अघायुभ्यो ऽन्तर्धेहि। अन्तर्धिरसि स्तेनेभ्यः २ ४

मूलम्

यथा त्वम् अमृतो मर्त्येभ्यो ऽन्तर्हितो ऽस्य्, एवं त्वम् अस्मान् अघायुभ्यो ऽन्तर्धेहि। अन्तर्धिरसि स्तेनेभ्यः २ ४

(चतुर्थोऽनुवाकस्समाप्तः)