पुरुषो वै यज्ञः १
तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातस्सवनं
चतुर्विंशत्यक्षरा गायत्री गायत्रम्प्रातस्सवनम् २
तद्वसूनां प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते ३
स
यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा वसव इदम्मे
प्रातस्सवनम्माध्यन्दिनेन सवनेनानुसन्तनुतेति अगदो हैव भवति ४
अथ यानि
चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा
त्रिष्टुप् त्रैष्टुभम्माध्यन्दिनं सवनम् ५
तद्रुद्रा णां
प्राणा वै रुद्राः! प्राणा हीदं सर्वं रोदयन्ति ६
स
यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स
ब्रूयात्प्राणा रुद्रा इदम्मे माध्यन्दिनं सवनं
तृतीयसवनेनानुसन्तनुतेति अगदो हैव भवति ७
अथ
यान्यष्टाचत्वा-रिंशतं वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा
जगती जागतं तृतीयसवनम् ८
तदादित्यानां प्राणा वा आदित्याः प्राणा हीदं
सर्वमाददते ९
स यद्ये-नमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा
आदित्या इदम्मे तृतीयसवनमा-युषानुसन्तनुतेति अगदो हैव भवति १०
एतद्ध
तद्विद्वान्ब्राह्मण उवाच महिदास ऐतरेय उपतपति
किमिदमुपतपसि योऽहमनेनोपतपता न प्रेष्यामीति स ह
षोडशशतं वर्षाणि जिजीव प्र ह षोडशशतं वर्षाणि जीवति नैनम्प्राणस्साम्यायुषो जहाति य एवं वेद ११
द्वितीयोऽनुवाकस्समाप्तः २