०७

[[खण्डः]]

प्रजापतिम्ब्रह्मासृजत तमपश्यममुखमसृजत १
तमप्रपश्यममुखं शयान-म्ब्रह्माविशत् पुरुष्यं तत् प्राणो वै ब्रह्म प्राणो वावैनं तदाविशत् २
स उदति-ष्ठत्प्रजानां जनयिता तं रक्षांस्यन्वसचन्त ३
तमेतदेव साम गायन्नत्रायत यद्गायन्नत्रायत तद्गायत्रस्य गायत्रत्वम् ४
त्रायत एनं सर्वस्मात्पाप्मनो मुच्यते य एवं वेद ५
तमुपास्मै गायता नर इत्यृचाश्रवणीयेनोपागायन् ६
यदुपास्मै गायता नर इति तेन गायत्रमभवत्तस्मादेषैव प्रतिपत्कार्या ७
पवमानायेन्दावा अभि देवमिया हुं भा क्षाता इति षोडशाक्षराण्यभ्यगायन्त षोडशकलं वै ब्रह्म कलाश एवैनं तद्ब्रह्माविशत् ८
तदेतच्चतुर्विंशत्यक्षरं गायत्रमष्टाक्षरः प्रस्तावः षोडशाक्षरं गीतं तच्चतुर्विंशतिस्सम्पद्यन्ते चतुर्विंशत्यर्धमासस्संवत्सरः संव-त्सरस्साम ९
ता ऋचश्शरीरेण मृत्युरन्वैतत्तद्यच्छरीरवत्तन्मृत्योराप्तमथ यदशरीरं तदमृतं तस्याशरीरेण साम्ना शरीराण्यधूनोत् १०
३८

सप्तमेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

ओवा३चोवा३चोवा३छुम्भा ओवा इति षोडशाक्षराण्यभ्यगायत षोडशकलो वै पुरुषः कलाश एवास्य तच्छरीराण्यधूनोत् १
स एषोऽपहतपाप्मा धूतशरीरः तदेक्क्रियावृतियुदासङ्गायत्यो इत्युदास आ इति आवृद्यात् वागिति तद्ब्रह्म तदिदन्तरिक्षं सोऽयं वायुः पवते हुमिति चन्द्र माः भा इत्यादित्यः २
एतस्य ह वा इदमक्षरस्य क्रतोर्भातीत्याचक्षते ३
एतस्य ह वा इदमक्षरस्य क्रतोर-भ्रमित्याचक्षते ४
एतस्य ह वा इदमक्षरस्य क्रतोः कुभ्रमित्याचक्षते ५
एतस्य ह वा इदमक्षरस्य क्रतोश्शुभ्रमित्याचक्षते ६
एतस्य ह वा इदमक्षरस्य क्रतो-र्वृषभ इत्याचक्षते ७
एतस्य ह वा इदमक्षरस्य क्रतोर्दर्भ इत्याचक्षते ८
एतस्य ह वा इदमक्षरस्य क्रतोर्यो भातीत्याचक्षते ९
एतस्य ह वा इदमक्षरस्य क्रतो-स्सम्भवतीत्याचक्षते १०
तद्यत्किं च भा३
इति च भा३
इति च तदेतन्मिथुनं

गायत्रं प्र मिथुनेन जायते य एवं वेद ११
३९

सप्तमेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

तदेतदमृतं गायत्रम् एतेन वै प्रजापतिरमृतत्वमगच्छदेतेन देवा एतेनर्षयः १ तदेतद्ब्रह्म प्रजापतयेऽब्रवीत्प्रजापतिः परमेष्ठिने प्राजापत्याय परमेष्ठी प्राजापत्यो देवाय सवित्रे देवस्सवित्ताग्नयेऽग्निरिन्द्रा येन्द्रः! काश्यपाय काश्यप ऋश्यशृङ्गाय काश्यपायर्श्यशृङ्गः काश्यपो देवतरसे श्यावसायनाय काश्यपाय देवतराश्श्यावसायनः काश्यपश्श्रुषाय वाह्नेयाय काश्यपाय श्रुषो वाह्नेयः काश्यप इन्द्रो ताय दैवापाय शौनकायेन्द्रो तो दैवापश्शौनको दृतय ऐन्द्रो तये शौनकाय दृतिरैन्द्रो तिश्शौनकः पुलुषाय प्राचिनायोग्याय पुलुषः प्राचीन-योग्यस्सत्ययज्ञाय पौलुषये प्राचीनयोग्याय सत्ययज्ञः पौलुषिः प्राचीनयो-ग्यस्सोमशुष्माय सात्ययज्ञये प्राचीनयोग्याय सोमशुष्मस्सात्ययज्ञिः प्राचीन-योग्यो हृस्त्वाशयायाल्लकेयाय माहावृषाय राज्ञे हृत्स्वाशय आल्लकेयो माहावृषो राजा जनश्रुताय काण्ड्वियाय जनश्रुतः काण्ड्वियस्सायकाय जानश्रुतेयाय काण्ड्वियाय सायको जानश्रुतेयः काण्ड्वियो नगरिणे जान-श्रुतेयाय काण्ड्वियाय नगरी जानश्रुतेयः काण्ड्वियश्शङ्गाय शाट्य्क्त अयनय आत्रेयाय शङ्गश्शाट्यायनिरात्रेयो रामाय क्रातुजातेयाय वैयाघ्रपद्याय रामः

क्रातुजातेयो वैयाघ्रपद्यः २
४०

सप्तमेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

शङ्खाय बाभ्रव्याय शङ्खो बाभ्रव्यो दक्षाय कात्यायनय आत्रेयाय दक्षः कात्यायनिरात्रेयः कंसाय वारकये कंसो वारिकिः प्रोष्ठपादाय वारक्याय प्रोष्ठपादो वारक्यः कंसाय वारक्याय कंसो वारक्यो जयन्ताय वारक्याय जयन्तो वारक्यः कुबेराय वारक्याय कुबेरो वारक्यो जयन्ताय वारक्याय जयन्तो वारक्यो जनश्रुताय वारक्याय जनश्रुतो वारक्यस्सुदत्ताय पाराशर्याय सुदत्तः पाराशर्योऽषाढायोत्तराय पाराशर्यायाषाढ उत्तरः पाराशर्यो विपश्चिते शकुनिमित्राय पाराशर्याय विपश्चिच्छकुनिमित्रः पाराशर्यो जयन्ताय पाराशर्याय जयन्तः पाराशर्यः १
४१

सप्तमेऽनुवाके चतुर्थः खण्डः

[[खण्डः]]

श्यामजयन्ताय लौहित्याय श्यामजयन्तो लौहित्यः पल्लिगुप्ताय लौहित्याय पल्लिगुप्तो लौहित्यस्सत्यश्रवसे लौहित्याय सत्यश्रवा लौहित्यः कृष्णधृतये सात्यकये कृष्णधृतिस्सात्यकिश्श्यामसुजयन्ताय लौहित्याय श्यामसुजयन्तो लौहित्यः कृष्णदत्ताय लौहित्याय कृष्णदत्तो लौहित्यो मित्रभूतये लौहित्याय मित्रभूतिर्लौहित्यश्श्यामजयन्ताय लौहित्याय श्यामजयन्तो लौहित्यस्त्रि-वेदाय कृष्णराताय लौहित्याय त्रिवेदः कृष्णरातो लौहित्यो यशस्विने जयन्ताय लौहित्याय यशस्वी जयन्तो लौहित्यो जयकाय लौहित्याय जयको लौहित्यः कृष्णराताय लौहित्याय कृष्णरातो लौहित्यो दक्षजयन्ताय लौहित्याय दक्षजयन्तो लौहित्यो विपश्चिते दृढजयन्ताय लौहित्याय विपश्चिद्दृढजयन्तो लौहित्यो वैपश्चिताय दार्ढजयन्तये दृढजयन्ताय लौहित्याय वैपश्चितो दार्ढजयन्तिर्दृधजयन्तो लौहित्यो वैपश्चिताय दार्ढजयन्तये गुप्ताय लौहित्याय १
तदेतदमृतं गायत्रमथ यान्यन्यानि गीतानि काम्यान्येव तानि काम्यान्येव

तानि २
४२

सप्तमेऽनुवाके पञ्चमः खण्डः

सप्तमोऽनुवाकस्समाप्तः

इति तृतीयोऽध्यायः