०६

[[खण्डः]] उच्चैश्श्रवा ह कौपयेयः कौरव्यो राजास।
तस्य ह केशी दार्भ्यः पाञ्चालो राजा स्वस्रीय आस।
तौ हान्योन्यस्य प्रियावासतुः १

स होच्चैश्श्रवाः कौपये-योऽस्माल्लोकात्प्रेयाय तस्मिन्ह प्रेते केशी दार्भ्योऽरण्ये मृगयां चचाराप्रियं विनिनीषमाणः २
स ह तथैव पल्ययमानो मृगान्प्रसरन्नन्तरेणैवोच्चैश्श्रवसं कौपयेयमधिजगाम ३
तं होवाच दृप्यामि स्वी३ज्जानामीति न दृप्यसीति होवाच जानासि स एवास्मि यम्मा मन्यस इति ४
अथ यद्भगव आहुरिति होवाच य आविर्भवत्यन्येऽस्य लोकमुपयन्तीत्यथ कथमशको म आवि-र्भवितुमिति ५
ओमिति होवाच यदा वै तस्य लोकस्य गोप्तारमविदेऽतस्त आविरभूवमप्रियं चास्य विनेष्याम्यनु चैनं शासिष्यामीति ६
तथा भगव इति होवाच तं वै नु त्वा परिष्वजा इति तं ह स्म परिष्वजमानो यथा धूमं वापीयाद्वायुं वाकाशं वाग्न्यर्चिं वापो वैवं ह स्मैनं व्येति न ह

स्मैनम्परिष्वङ्गायोपलभते ७
२९

षष्ठेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

स होवाच यद्वै ते पुरा रूपमासीत्तत्ते रूपं न तु त्वा परिष्वङ्गायोपलभ इति १
ओमिति होवाच ब्राह्मणो वै मे साम विद्वान्साम्नोदगायत् स मेऽशरीरेण साम्ना शरीराण्यधूनोत्तद्यस्य वै किल साम विद्वान्साम्नोद्गायति देवतानामेव सलो-कतां गमयतीति २
पतङ्गः प्राजापत्य इति होवाच प्रजापतेः प्रियः पुत्र आस स तस्मा एतत्सामाब्रवीत्तेन स ऋषीणामुदगायत्त एत ऋषयो धूतशरीरा इति ३
एतेनो एव साम्नेति होवाच प्रजापतिर्देवानामुदगायत्त एत उपरि देवा धूतशरीरा इति ४
तस्मिन्हैनमनुशशास तं हानुशिष्योवाच यस्स्मैवैतत्साम विद्यात्स स्मैव त उद्गायत्विति ५
स हानुशिष्ट आजगाम स ह स्म कुरुपञ्चालानाम्ब्राह्मणानुपपृच्छमानश्चरति ६
३०

षष्ठेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

व्यूढच्छन्दसा वै द्वादशाहेन यक्ष्यमाणोऽस्मि स यो वस्तत्साम वेद यदहं वेद स एव म उद्गास्यति मीमांसध्वमिति १
तस्मै ह मीमांसमानानामेकश् चन न सम्प्रत्यभिदधाति २
स ह तथैव पल्ययमानश्श्मशाने वा वने वावृतीशया-नमुपाधावयां चकार तं ह चायमानः प्रजहौ ३
तं होवाच कोऽसीति ब्राह्म-णोऽस्मि प्रातृदो भाल्ल इति ४
स किं वेत्थेति सामेति ५
ओमिति होवाच व्यूढच्छन्दसा वै द्वादशाहेन यक्ष्यमाणोऽस्मि स यदि त्वं तत्साम वेत्थ यदहं वेद त्वमेव म उद्गास्यसि मीमांसस्वेति ६
तस्मै ह मीमांसमानस्तदेव सम्प्र-त्यभिदधौ ७
तं होवाचायम्म उद्गास्यतीति ८
तस्मै ह कुरुपञ्चालानाम्ब्राह्मणा असूयन्त आहुरेषु ह वा अयं कुल्येषु सत्सूद्गास्यति कस्मा अयमलमिति ९
अलम्न्वै मह्यमिति ह स्माह सैवालम्मस्यालम्मतायैतस्य हालमेवोज्जगौ

तस्मादालम्यैलाजोद्गातेत्याख्यापयन्ति १०
३१

षष्ठेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

तद्ध सात्यकीर्ता आहुर्यां वयं देवतामुपास्मह एकमेव वयं तस्यै देवतायै रूपं गव्यादिशाम एकं वाहन एकं हस्तिन्येकम्पुरुष एकं सर्वेषु भूतेषु तस्या एवेदं देवतायै सर्वं रूपमिति १
तदेतदेकमेव रूपम्प्राण एव यावद्ध्येव प्राणेन प्राणिति तावद्रू पम्भवति तद्रू पम्भवति २
तदथ यदा प्राण उत्क्रामति दार्वेवेव भूतोऽनर्थ्यः परिशिष्यते न किं चन रूपम् ३
तस्यान्तरात्मा तपः तस्मा-त्तप्यमानस्योष्णतरः प्राणो भवति ४ तपसोऽन्तरात्माग्निः स निरुक्तः तस्मात्स दहति ५
अथाधिदेवतमियमेवैषा देवता योऽयम्पवते तस्मिन्नेतस्मिन्नापोऽन्तः तदन्नं सोऽरूक्ष उपासितव्यः यदस्मिन्नापोऽन्तस्तेनारूक्षः ६
तस्यान्तरात्मा तपस्तस्मादेष आतपत्युष्णतरः पवते ७
तपसोऽन्तरात्मा विद्युत् स निरुक्तः तस्मात्सोऽपि दहति ८
तानि वा एतानि चत्वारि साम प्राणो वाङ्मनस्स्वरः स एष प्रणो वाचा करोति मनोनेत्रः तस्य स्वर एव प्रजाः प्रजावान्भवति य

एवं वेद ९
३२

षष्ठेऽनुवाके चतुर्थः खण्डः

[[खण्डः]]

स यो वायुः प्राण एव सः योऽग्निर्वागेव सा यश्चन्द्र मा मन एव तद् य आदित्यस्स्वर एव सः तस्मादेतमादित्यमाहुस्स्वर एतीति १
स यो ह वा अमूर्देवता उपास्ते या अमूरधिदेवतं दूरूपा वा एता दुरनुसम्प्राप्या इव कस्तद्वेद यद्येता अनु वा सम्प्राप्नुयान्न वा २
अथ य एना अध्यात्ममुपास्ते स हान्तिदेवो भवति निर्जीर्यन्तीव वा इत एता तस्य वा एताश्शरीरस्य सह प्राणेन निर्जीर्यन्ति क उ एव तद्वेद यद्येता अनु वा सम्प्राप्नुयान्न वा ३
अथ य एना उभयीरेकधा भवन्तीर्वेद स एवानुष्ठ्या साम वेद स आत्मानं वेद स ब्रह्म वेद ४ तदाहुः प्रादेशमात्राद्वा इत एता एकम्भवन्ति अतो ह्ययम्प्राणस्स्वर्य उपर्युपरि वर्तत इति ५
अथ हैक आहुश्चतुरङ्गुलाद्वा इत एता एकम्भवन्तीति अतो ह्येवायम्प्राणस्स्वर्य उपर्युपरि वर्तत इति ६
स एष ब्रह्मण आवर्तः स य एवमेतम्ब्रह्मण आवर्तं वेदाभ्येनम्प्रजाः पशव आवर्तन्ते सर्वमायुरेति ७
स यो हैवं विद्वान्प्राणेन प्राण्यापानेनापान्य मनसैता उभयीर्देवता आत्मन्येत्य मुख आधत्ते तस्य सर्वमाप्तम्भवति सर्वं जितं न हास्य कश् चन कामोऽनाप्तो भवति य एवं वेद ८

३३

षष्ठेऽनुवाके पञ्चमः खण्डः

[[खण्डः]]

तदेतन्मिथुनं यद्वाक्च प्राणश्च मिथुनमृक्सामे आचतुरं वाव मिथुनम्प्रजननम् १
तद्यत्राद आह सोमः पवत इति वोपावर्तध्वमिति वा तत्सहैव वाचा मनसा प्राणेन स्वरेण हिङ्कुर्वन्ति तधिङ्कारेण मिथुनं क्रियते २ सहैव वाचा मनसा प्राणेन स्वरेण निधनमुपयन्ति तन्निधनेन मिथुनङ्क्रियते ३
तत्सप्तविधं साम्नः सप्तकृत्व उद्गातात्मानं च यजमानं च शरीरात्प्रजनयति ४
यादृशस्यो ह वै रेतो भवति तादृशं सम्भवति यदि वै पुरुषस्य पुरुष एव यदि गोर्गौरेव यद्यश्वस्याश्व एव यदि मृगस्य मृग एव यस्यैव रेतो भवति तदेव सम्भवति ५
तद्यथा ह वै सुवर्णं हिरण्यमग्नौ प्रास्यमानं कल्याणतरं कल्याणतरम्भवत्येवमेव कल्याणतरेण कल्याणतरेणात्मना सम्भवति य एवं वेद ६
तदेतदृचाभ्यनूच्यते


३४

षष्ठेऽनुवाके षष्ठः खण्डः

[[खण्डः]]

पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिच्छन्ति वेधस इति १
पतङ्गमक्तमिति प्राणो वै पतङ्गः पतन्निव ह्येष्वङ्गेष्वति रथमुदीक्षते पतङ्ग इत्याचक्षते २ असुरस्य माययेति मनो वा असुरं तद्ध्यसुषु रमते तस्यैष माययाक्तः ३ हृदा पश्यन्ति मनसा विपश्चित इति हृदैव ह्येते पश्यन्ति यन्मनसा विपश्चितः ४
समुद्रे अन्तः कवयो वि चक्षत इति पुरुषो वै समुद्र एवंविद उ कवयः त इमाम्पुरुषेऽन्तर्वाचं विचक्षते ५ मरीचीनाम्पदमिच्छन्ति वेधस इति मरीच्य इव वा एता देवता यदग्निर्वायुरादित्यश्चन्द्र माः ६
न ह वा एतासां देवतानाम्पदमस्ति पदेनो ह वै पुनर्मृत्युरन्वेति ७ तदेतदनन्वितं साम पुनर्मृत्युना अति पुनर्मृत्युं तरति य

एवं वेद ८
३५

षष्ठेऽनुवाके सप्तमः खण्डः

[[खण्डः]]

पतङ्गो वाचम्मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः तां द्योतमानां स्वर्यम्मनीषामृतस्य पदे कवयो नि पान्तीति १
पतङ्गो वाचम्मनसा बिभर्तीति प्राणो वै पतङ्गः स इमां वाचम्मनसा बिभर्ति २
तां गन्धर्वोऽवदद्गर्भे अन्तरिति प्राणो वै गन्धर्वः पुरुष उ गर्भः स इमाम्पुरुषेऽन्तर्वाचं वदति ३
तां द्योतमानां स्वर्यम्मनीषामिति स्वर्या ह्येषा मनीषा यद्वाक् ४
ऋतस्य पदे कवयो नि पान्तीति मनो वा ऋतमेवंविद उ कवयः ओमित्येतदेवाक्षरमृतं तेन यदृचम्मीमांसन्ते यद्यजुर्तत्साम तदेनां निपान्ति ५
३६

षष्ठेऽनुवाकेऽष्टमः खण्डः

[[खण्डः]]

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तं स सध्रीचीस्स विषू-चीर्वसान आ वरीवर्त्ति भुवनेष्वन्तरिति १
अपश्यं गोपामनिपद्यमानमिति प्राणो वै गोपाः स हीदं सर्वमनिपद्यमानो गोपायति २
आ च परा च पथि-भिश्चरन्तमिति तद्ये च ह वा इमे प्राणा अमी च रश्मय एतैर्ह वा एष एतदा च परा च पथिभिश्चरति ३
स सध्रीचीस्स विषूचीर्वसान इति सध्रीचीश्च ह्येष एतद्विषूचीश्च प्रजा वस्ते ४
आ वरीवर्त्ति भुवनेष्वन्तरिति एष ह्येवैषु भुव-नेष्वन्तरावरीवर्त्ति ५
स एष इन्द्र उद्गीथः स यदैष इन्द्र उद्गीथ आगच्छति नैवोद्गातुश्चोपगातॄणां च विज्ञायते इत एवोर्ध्वस्स्वरुदेति स उपरि मूर्ध्नो लेलायति ६
स विद्यादागमदिन्द्रो नेह कश् चन पाप्मा न्यङ्गः परिशेक्ष्यत इति तस्मिन्ह न कश् चन पप्मा न्यङ्गः परिशिष्यते ७
तदेतदभ्रातृव्यं साम न ह वा इन्द्रः! कं चन भ्रातृव्यम्पश्यते स यथेन्द्रो न कं चन भ्रातृव्यम्पश्यत एवमेव न

कं चन भ्रातृव्यम्पश्यते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ८
३७

षष्ठेऽनुवाके नवमः खण्डः

षष्ठोऽनुवाकस्समाप्तः