०५

[[खण्डः]]

गुहासि देवोऽस्युपवास्युप तं वायस्व योऽस्मान्द्वेष्टि यं च वयं द्विष्मः १ महिनासि बहुलासि बृहत्यसि रोहिण्यस्यपन्नासि २
सम्भूर्देवोऽसि समहम्भू-यासमाभूतिरस्याभूयासं भूतिरसि भूयासम् ३ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ४
नाम मे शरीरम्मे प्रतिष्ठा मे तन्मे त्वयि तन्मे मोपहृथा इतीमाम्पृथिवीमवोचत् ५
तमियमागतम्पृथिवी प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुन-र्देहीति ७
किं नु ते मयीति नाम मे शरीरम्मे प्रतिष्ठा मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मा इयम्पृथिवी पुनर्ददाति ८
तामाह प्र मा वाहेति किमभीति अग्निमिति तमग्निमभिप्रवहति ९
सोऽग्निमाहाभिजिदस्यभिजय्यासं लोक-जिदसि लोकं जय्यासमत्तिरस्यन्नमद्यासमन्नादो भवति यस्त्वैवं वेद १० सम्भू-र्देवोऽसि समहम्भूयासमाभूतिरस्याभूयासं भूतिरसि भूयासम् ११ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि १२
तपो मे तेजो मेऽन्नम्मे वाङ्मे तन्मे त्वयि तन्मे मोपहृथा इत्यग्निमवोचत् १३
तं तथैवागतमग्निः प्रतिन-न्दत्ययं ते भगवो लोकस्सह नावयं लोक इति १४
यद्वाव मे त्वयीत्याह त-द्वाव मे पुनर्देहीति १५
किं नु ते मयीति तपो मे तेजो मेऽन्नम्मे वाङ्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मा अग्निर्पुनर्ददाति १६
तमाह प्र मा वहेति १७
२०

पञ्चमेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

किमभीति वायुमिति तं वायुमभिप्रवहति १
स वायुमाह यत्पुरस्ताद्वासीन्द्रो राजा भूतो वासि यद्दक्षिणतो वासीशानो भूतो वासि यत्पश्चाद्वासि वरुणो राजा भूतो वासि यदुत्तरतो वासि सोमो राजा भूतो वासि यदुपरिष्टादववासि प्रजापतिर्भूतोऽववासि २
व्रात्योऽस्येकव्रात्योऽनवसृष्टो देवानाम्बिलमप्यधाः ३
तव प्रजास्तवौषधयस्तवापो विचलितमनुविचलन्ति ४
सम्भूर्देवोऽसि समहम्भूयासमाभूतिरस्याभूयासम्भूतिरसि भूयासम् ५
यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ६
प्राणापानौ मे श्रुतम्मे तन्मे त्वयि तन्मे मोपहृथा इति वायुमवोचत् ७
तं तथैवागतं वायुः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ८
यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ९
किं नु ते मयीति प्राणापानौ मे श्रुतम्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मै वायुः पुनर्ददाति १० तमाह प्र मा वहेति किमभीति अन्तरिक्षलोकमिति तमन्तरिक्षलोकमभिप्रवहति ११ तं तथैवागतमन्तरिक्षलोकः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति १२
यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति १३
किं नु ते मयीति अयम्म आकाशः स मे त्वयि तन्मे पुनर्देहीति

तमस्मा आकाशमन्तरिक्षलोकः पुनर्ददाति १४
तमाह प्र मा वहेति १५
२१

पञ्चमेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

किमभीति दिश इति तं दिशोऽभिप्रवहति १
तं तथैवागतं दिशः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २
यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३
किं नु तेऽस्मास्विति श्रोत्रमिति तदस्मै श्रोत्रं दिशः पुनर्ददति ४
ता आह प्र मा वहतेति किमभीति अहोरात्रयोर्लोकमिति तमहोरात्रयो-र्लोकमभिप्रवहन्ति ५
तं तथैवागतमहोरात्रे प्रतिनन्दतोऽयं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युवयोरित्याह तद्वाव मे पुनर्दत्तमिति ७
किं नु त आवयोरिति अक्षितिरिति तामस्मा अक्षितिमहोरात्रे पुनर्दत्तः ८ ते

आह प्र मा वहतमिति ९
२२

पञ्चमेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

किमभीति अर्धमासानिति तमर्धमासानभिप्रवहतः १
तं तथैवागतमर्धमासाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २ यद्वाव मे युष्मा-स्वित्याह तद्वाव मे पुनर्दत्तेति ३
किं नु तेऽस्मास्विति इमानु क्षुद्रा णि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसन्धत्तेति तान्यस्यार्धमासाः पुनः प्रतिसन्दधति ४ तानाह प्र मा वहतेति किमभीति मासानिति तम्मासानभिप्रवहन्ति ५
तं तथैवागतम्मासाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६
यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७
किं नु तेऽस्मास्विति इमानि स्थूलानि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसन्धत्तेति तान्यस्य मासाः पुनः

प्रतिसन्दधति ८
तानाह प्र मा वहतेति ९
२३

पञ्चमेऽनुवाके चतुर्थः खण्डः

[[खण्डः]]

किमभीति ऋतूनिति तमृतूनभिप्रवहन्ति १
तं तथैवागतमृतवः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २
यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३
किं नु तेऽस्मास्विति इमानि ज्यायांसि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसन्धत्तेति तान्यस्यर्तवः पुनः प्रतिसन्दधति ४
तानाह प्र मा वहतेति किमभीति संवत्सरमिति तं संवत्सरमभिप्रवहन्ति ५
तं तथैवागतं संवत्सरः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ७
किं नु ते मयीति अयम्म आत्मा स मे त्वयि तन्मे पुनर्देहीति तमस्मा आत्मानं संवत्सरः पुनर्ददाति ८
तमाह प्र मा वहेति ९

२४

पञ्चमेऽनुवाके पञ्चमः खण्डः

[[खण्डः]]

किमभीति दिव्यान्गन्धर्वानिति तं दिव्यान्गन्धर्वानभिप्रवहति १
तं तथैवागतं दिव्या गन्धर्वाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २
यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३
किं नु तेऽस्मास्विति गन्धो मे मोदो मे प्रमोदो मे तन्मे युष्मासु तन्मे पुनर्दत्तेति तदस्मै दिव्या गन्धर्वाः पुनर्ददति ४
तानाह प्र मा वहतेति किमभीति अप्सरस इति तमप्सरसोऽभिप्रवहन्ति ५
तं तथैवागतमप्सरसः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६
यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७
किं नु तेऽस्मास्विति हसो मे क्रीळा मे मिथुनम्मे तन्मे युष्मासु तन्मे पुनर्दत्तेति तदस्मा अप्सरसः पुनर्ददति


ता आह प्र मा वहतेति ९
२५

पञ्चमेऽनुवाके षष्ठः खण्डः

[[खण्डः]]

किमभीति दिवमिति तं दिवमभिप्रवहन्ति १
तं तथैवागतं द्यौः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति २
यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ३
किं नु ते मयीति तृप्तिरिति सकृत्तृप्तेव ह्येषा तामस्मै तृप्तिं द्यौः पुनर्ददाति ४
तमाह प्र मा वहेति किमभीति देवानिति तं देवानभिप्रवहति ५
तं तथैवागतं देवाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७
किं नु तेऽस्मास्विति

अमृतमिति तदस्मा अमृतं देवाः पुनर्ददति ८
तानाह प्र मा वहतेति ९
२६

पञ्चमेऽनुवाके सप्तमः खण्डः

[[खण्डः]]

किमभीति आदित्यमिति तमादित्यमभिप्रवहन्ति १
स आदित्यमाह विभूः पुरस्तात्सम्पत्पश्चात् सम्यङ्त्वमसि समीचो मनुष्यानरोषी रुषतस्त ऋषिः पाप्मानं हन्ति अपहतपाप्मा भवति यस्त्वैवं वेद २
सम्भूर्देवोऽसि समह-म्भूयासमाभूतिरस्याभूयासम्भूतिरसि भूयासम् ३
यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ४ ओजो मे बलम्मे चक्षुर्मे तन्मे त्वयि तन्मे मोपहृथा इत्यादित्यमवोचत् ५
तं तथैवागतमादित्यः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ७
किं नु ते मयीति ओजो मे बलम्मे चक्षुर्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मा आदित्यः पुनर्ददाति ८
तमाह प्र मा वहेति किमभीति चन्द्र मसमिति तं चन्द्र मसमभिप्रवहति ९
स चन्द्र मसमाह सत्यस्य पन्था न त्वा जहाति अमृतस्य पन्था न त्वा जहाति १०
नवोनवो भवसि जायमानो भरो नाम ब्राह्मण उपास्से तस्मात्ते सत्या उभये देवमनुष्या अन्नाद्यम्भरन्ति अन्नादो भवति यस्त्वैवं वेद ११
सम्भूर्देवोऽसि समहम्भूयासमाभूतिरस्याभू-यासम्भूतिरसि भूयासम् १२ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि १३ मनो मे रेतो मे प्रजा मे पुनस्सम्भूतिर्मे तन्मे त्वयि तन्मे मोपहृथा इति चन्द्र मसमवोचत् १४
तं तथैवागतं चन्द्र माः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति १५
यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति १६ किं नु ते मयीति मनो मे रेतो मे प्रजा मे पुनस्सम्भूतिर्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मै चन्द्र माः पुनर्ददाति १७
तमाह प्र मा वहेति

१८
२७

पञ्चमेऽनुवाकेऽष्टमः खण्डः

[[खण्डः]]

किमभीति ब्रह्मणो लोकमिति तमादित्यमभिप्रवहति १
स आदित्यमाह प्र मा वहेति किमभीति ब्रह्मणो लोकमिति तं चन्द्र मसमभिप्रवहति स एवमेते देवते अनुसञ्चरति २
एसोऽन्तोऽतः परः प्रवाहो नास्ति यानु कांश्चातः प्राचो लोकानभ्यवादिष्म ते सर्व आप्ता भवन्ति ते जितास्तेष्वस्य सर्वेषु कामचारो भवति य एवं वेद ३
स यदि कामयेत पुनरिहाजायेयेति यस्मिन्कुले-ऽभिध्यायेद्यदि ब्राह्मणकुले यदि राजकुले तस्मिन्नाजायते स एतमेव लोकम्पुनः प्रजानन्नभ्यारोहन्नेति ४
तदु होवाच शाट्यायनिर्बहुव्याहितो वा अयम्बहुशो लोकः एतस्य वै कामाय नु ब्रुवते वा श्राम्यन्ति वा क एतत्प्रास्य पुनरिहेयादत्रैव

स्यादिति ५
२८

पञ्चमेऽनुवाके नवमः खण्डः पञ्चमोऽनुवाकस्समाप्तः