[[खण्डः]]
वागिति हेन्द्रो विश्वामित्रायोक्थमुवाच तदेतद्विश्वामित्रा उपासते वाचमेव
१
मनुर्ह वसिष्ठाय ब्रह्मत्वमुवाच तस्मादाहुर्वासिष्ठमेव ब्रह्मेति २
तदु
वा आहु-रेवंविदेव ब्रह्मा क उ एवंविदं वासिष्ठमर्हतीति ३
प्रजापतिः
प्राजिजनिषत स तपोऽतप्यत स ऐक्षत हन्त नु प्रतिष्ठां जनयै
ततो याः प्रजास्स्रक्ष्ये ता एतदेव प्रतिष्ठास्यन्ति
नाप्रतिष्ठाश्चरन्तीः
प्रदघिष्यन्त इति ४
स इमं
लोकमजनय-दन्तरिक्षलोकममुं
लोकमिति तानिमांस्त्रींल्लोकाञ्जनयित्वाभ्यश्राम्यत् ५
तान्समतपत्तेभ्यस्सन्तप्तेभ्यस्त्रीणि
शुक्राण्युदायन्नग्निः पृथिव्या वायुरन्तरिक्षा-दादित्यो दिवः ६
स एतानि शुक्राणि पुनरभ्येवातपत्तेभ्यस्सन्तप्तेभ्यस्त्रीण्येव
शुक्राण्युदायन्नृग्वेद एवाग्नेर्यजुर्वेदो
वायोस्सामवेद आदित्यात् ७
स एतानि शुक्राणि
पुनरभ्येवातपत्तेभ्यस्सन्तप्तेभ्यस्त्रीण्येव
शुक्राण्युदायन्भूरित्येवर्ग्वेदा-द्भुव इति यजुर्वेदात्स्वरिति
सामवेदात्तदेव ८
तद्ध वै त्रय्यै विद्यायै शुक्र-मेतावदिदं सर्वं स
यो वै त्रयीं विद्यां विदुषो लोकस्सोऽस्य लोको भवति य
एवं वेद ९
१५
चतुर्थेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
अयं वाव यज्ञो योऽयम्पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च ह्येष एतन्मनसा
च वर्तते १
तस्य होताध्वर्युरुद्गातेत्यन्यतरां वाचा वर्तनिं संस्कुर्वन्ति
तस्मात्ते वाचा कुर्वन्ति ब्रह्मैव मनसान्यतरां तस्मात्स तूष्णीमास्ते २
स
यद्ध सोऽपि स्तूयमाने वा शस्यमाने वा वावद्यमान आसीतान्यतरामेवास्यापि
तर्हि स वाचा वर्तनिं संस्कुर्यात् ३
स यथा पुरुष
एकपाद्यन्भ्रेषन्नेति रथो वैकचक्रो
वर्तमान एवमेव तर्हि यज्ञो भ्रेषन्नेति ४
एतद्ध तद्विद्वान्ब्राह्मण उवाच
ब्रह्माण-म्प्रातरनुवाक उपाकृते वावद्यमानमासीनमर्धं वा इमे तर्हि
यज्ञस्यान्तरगुरिति अर्धं हि ते तर्हि यज्ञस्यान्तरीयुः
५
तस्माद्ब्रह्मा प्रातरनुवाक उपाकृते वाचंयम आसीतापरिधानीयाया आ
वषट्कारादितरेषां स्तुतशस्त्राणामेवासंस्थायै पवमानानाम् ६
स यथा पुरुष उभयापाद्यन्भ्रेषं न न्येति रथो वोभयाचक्रो
वर्तमान एवमेतर्हि यज्ञो भ्रेषं न न्येति ७
१६
चतुर्थेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
स यदि यज्ञ ऋक्तो भ्रेषन्नियाद्ब्रह्मणे प्रब्रूतेत्याहुः अथ यदि यजुष्टो
ब्रह्मणे प्रब्रूतेत्याहुः अथ यदि सामतो ब्रह्मणे प्रब्रूतेत्याहुः अथ
यदि अनुपस्मृतात्कुत इदमजनीति ब्रह्मणे प्रब्रूतेत्येवाहुः १
स ब्रह्मा
प्राङुदेत्य स्रुवेणाग्नीध्र आज्यं
जुहुयाद्भूर्भुवस्स्वरित्येताभिर्व्याहृतिभिः
२
एता वै व्याहृतयस्सर्वप्रायश्चित्तयः तद्यथा लवणेन सुवर्णं
सन्दध्यात्सुवर्णेन रजतं रजतेन त्रपु त्रपुणा
लोहायसं लोहायसेन कार्ष्णायसं कार्ष्णायसेन दारु दारु च चर्म च
श्लेष्मणैवमेवैवं विद्वांस्तत्सर्वम्भिषज्यति ३
तदाहुर्यदहौषीन्मे ग्रहान्मेऽग्रहीदित्यध्वर्यवे
दक्षि-णा नयन्त्यशंसीन्मे वषडकर्म इति होत्र उदगासीन्म
इत्युद्गात्रेऽथ किं चक्रुषे ब्रह्मणे
तूष्णीमासीनाय समावतीरेवेतरैरृत्विग्भिर्दक्षिणा
नयन्तीति ४
स ब्रूयादर्धभाग्घ वै स यज्ञस्यार्धं ह्येष यज्ञस्य वहतीति
अर्धा ह स्म वै पुरा ब्रह्मणे दक्षिणा नयन्तीति अर्धा इतरेभ्य
ऋत्विग्भ्यः ५
तस्यैष श्लोको मयीदम्मन्ये भुवनादि
सर्वम्मयि लोका मयि दिशश्चतस्रः मयीदम्मन्ये निमिषद्यदेजति मय्याप
ओषधयश्च सर्वा इति ६
मयीदम्मन्ये भुवनादि सर्वमित्येवंविदं ह वावेदं
सर्वम्भुवनमन्वायत्तम् ७
मयि लोका मयि दिशश्चतस्र इत्येवंविदि ह वाव लोका
एवंविदि दिशश्चतस्रः ८
मयीदम्मन्ये निमिषद्यदेजति मय्याप ओषधयश्च सर्वा
इत्येवंविदि ह वावेदं सर्वम्भुवनम्प्रतिष्ठितम् ९
तस्मादु
हैवंविदमेव ब्रह्माणं कुर्वीत स ह वाव ब्रह्मा य एवं वेद १०
१७
चतुर्थेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
अथ वा अतस्स्तोमभागानामेवानुमन्त्राः १
तद्धैतदेके
स्तोमभागैरेवानुमन्त्रयन्ते
तत्तथा न कुर्यात् २
देवेन सवित्रा प्रसूतः प्रस्तोतर्देवेभ्यो
वाचमिष्येत्यु हैके-ऽनुमन्त्रयन्ते सविता वै
देवानाम्प्रसविता सवित्रा प्रसूता इदमनुमन्त्रयामह इति वदन्तः
तदु तथा न कुर्यात् ३
भूर्भुवस्स्वरित्यु हैकेऽनुमन्त्रयन्त एषा वै त्रयी
विद्या त्रय्यैवेदं विद्ययानुमन्त्रयामह इति वदन्तः तदु तथा नो एव कुर्यात्
४
ओमित्येवानुमन्त्रयेत ५
अथैष वसिष्ठस्यैकस्तोमभागानुमन्त्रः तेन हैतेन
वसिष्ठः प्रजातिकामोऽनुमन्त्रयां चक्रे देवेन सवित्रा प्रसूतः
प्रस्तोतर्देवेभ्यो वाचमिष्य भूर्भुवस्स्वरोमिति ततो वै स
बहुः प्रजया पशुभिः प्राजायत ६
स एव तेन
वसिष्ठस्यैकस्तोमभागानुमन्त्रेणानुमन्त्रयेत
बहुरेव प्रजया पशुभिः
प्रजायते इयं त्वेव स्थितिरोमित्येवानुमन्त्रयेत ७
१८
चतुर्थेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
अथैष वाचा वज्रमुद्गृह्णाति यदाह सोमः पवत इति वोपावर्तध्वमिति वा वाचैव
तद्वाचो वज्रं विगृह्यते वाचस्सत्येनातिमुच्यते
तस्मादोमित्येवानुमन्त्रयेत १
देवा वा अनया त्रय्या विद्यया सरसयोर्ध्वास्स्वर्गं लोकमुदक्रामन्ते
ममुष्याणामन्वागमाद्बिभ्यतस्त्रयं वेदमपीळयन् २
तस्य पीळयन्त
एकमेवाक्षरं नाशक्नुवन्पीळयितुमोमिति यदेतत् ३
एष उ ह वाव
सरसः सरसा ह वा एवंविदस्त्रयी विद्या भवति ४
स यां ह वै त्रय्या विद्यया
सरसया जितिं जगति यामृद्धिमृध्नोति जयति तां जितिमृध्नोति तामृद्धिं य
एवं वेद ५
एतद्ध वा अक्षरं त्रय्यै विद्यायै प्रतिष्ठा ओमिति वै होता
प्रतिष्ठित ओमित्य-ध्वर्युरोमित्युद्गाता ६
एतद्ध वा अक्षरं वेदानां
त्रिविष्टपमेतस्मिन्वा अक्षर ऋत्विजो यजमानमाधाय स्वर्गे
लोके समुदूहन्ति तस्मादोमित्येवानुमन्त्रयेत
७
१९
चतुर्थेऽनुवाके पञ्चमः खण्डः
चतुर्थोऽनुवाकस्समाप्तः