[[खण्डः]]
ददा३ तथा३ हन्ता३ हिम्भा ओवा
विश्वास-प्रस्तुतिः
योऽसौ साम्नः प्रत्तिं वेद प्र हास्मै दीयते १
English
III. 6. 1. That one yonder who knows the delivery of the sāman, verily unto him it is delivered.
मूलम्
योऽसौ साम्नः प्रत्तिं वेद प्र हास्मै दीयते १
विश्वास-प्रस्तुतिः
ददा इति ह वा
अयम् अग्निर् दीप्यते
तथेति वायुः पवते
हन्तेति चन्द्रमा
ओम् इत्य् आदित्यः २
English
- [Uttering] dada, this fire here shines; [uttering] tatha, the wind cleanses (blows); hanta the moon [utters], om the sun.
मूलम्
ददा इति ह वा अयमग्निर्दीप्यते तथेति वायुः पवते हन्तेति चन्द्र मा ओमित्यादित्यः २
विश्वास-प्रस्तुतिः
एषा ह वै साम्नः प्रत्तिः।
एतां ह वै साम्नः प्रत्तिं सुदक्षिणः क्षैमिर् विदां चकार ३
English
- Verily this is the delivery of the saman. Verily this delivery of the saman Sudaksina Ksaimi knew.
मूलम्
एषा ह वै साम्नः प्रत्तिः।
एतां ह वै साम्नः प्रत्तिं सुदक्षिणः क्षैमिर्विदां चकार ३
विश्वास-प्रस्तुतिः
तां हैतां होतुर् वाज्ये गायेन् मैत्रावरुणस्य वा तां
ददा३ तथा३ हन्ता३ हिम्भा ओवा
इति प्र ह वा अस्मै दीयते ४
English
- One should sing that same in the ajya-chant of either the hotar or the maitrāvaruna-priest: dada, tatha, hantā, him bhā ova. Verily it is delivered unto him.
मूलम्
तां हैतां होतुर्वाज्ये गायेन्मैत्रावरुणस्य वा तां ददा३ तथा३ हन्ता३ हिम्भा ओवा इति प्र ह वा अस्मै दीयते ४
विश्वास-प्रस्तुतिः
सोऽप्य् अन्यान् बहून् उपर्य् उपरि
य एवमेतां साम्नः प्रत्तिं वेद ५
English
- He is much superior to even many others who thus knows this delivery of the sāman.
मूलम्
सोऽप्यन्यान्बहूनुपर्युपरि य एवमेतां साम्नः प्रत्तिं वेद ५
विश्वास-प्रस्तुतिः
य उ ह वा अबन्धुर् बन्धुमत् साम वेद
यत्र हाप्य् एनं न विदुर्
यत्र रोषन्ति
यत्र परीव चक्षते
तद् धापि श्रैष्ठ्यम् आधिपत्यम् अन्नाद्यम् पुरोधाम् पर्येति
६
English
- And whoso being without relatives knows the saman, rich in relatives, even where they do not know him, where they are angry at him, where they overlook him, as it were, he thus compasses excellence, supremacy, food-eating, [and] the office of a purohita.
मूलम्
य उ ह वा अबन्धुर्बन्धुमत्साम वेद यत्र हाप्येनं न विदुर्यत्र रोषन्ति यत्र परीव चक्षते तद्धापि श्रैष्ठ्यमाधिपत्यमन्नाद्यम्पुरोधाम्पर्येति ६
विश्वास-प्रस्तुतिः
अग्निर् ह वा अबन्धुर्
बन्धुमत् साम -
कस्माद् वा ह्य् एनं दार्वोः
कस्माद्वा पर्यावृत्य मन्थन्ति
स श्रैष्ठ्यायाधिपत्यायान्नाद्याय पुरोधायै जायते ७
English
- Verily Agni, being without relatives, is the saman rich in relatives. For in whatever way they churn him, from the wood, or by turning, he is born for excellence, for supremacy, for food-eating, [and] for the office of a purohita.
मूलम्
अग्निर्ह वा अबन्धुर्बन्धुमत्साम कस्माद्वा ह्येनं दार्वोः कस्माद्वा पर्यावृत्य मन्थन्ति स श्रैष्ठ्यायाधिपत्याया-न्नाद्याय पुरोधायै जायते ७
विश्वास-प्रस्तुतिः
स यत्र ह वा अप्य् एवं-विदं न विदुर्
यत्र रोषन्ति
यत्र परीव चक्षते
तद् धापि श्रैष्ठ्यम् आधिपत्यम् अन्नाद्यम् पुरोधाम् पर्येति ८
६
English
- Verily even where they do not know one knowing thus, where they are angry at him, where they so to speak overlook him, he thus compasses excellence, supremacy, food-eating, [and] the office of a purohita.
मूलम्
स यत्र ह वा अप्येवंविदं न विदुर्यत्र रोषन्ति यत्र
परीव चक्षते तद्धापि श्रैष्ठ्यमाधिपत्यमन्नाद्यम्पुरोधाम्पर्येति ८
६
द्वितीयेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
विश्वास-प्रस्तुतिः
स्वयमु तत्र यत्रैनं विदुः १
English
III. 7. 1. And [that happens] of itself where they know him.
मूलम्
स्वयमु तत्र यत्रैनं विदुः १
सुदक्षिणाख्यानम्
विश्वास-प्रस्तुतिः
सुदक्षिणो ह वै क्षैमिः,
प्राचीनशालिर्, जाबालौ
ते ह सब्रह्मचारिण आसुः २
English
- Sudakṣina Kṣaimi, Pracinaśali, the two Jabalas–they were fellow-students.
मूलम्
सुदक्षिणो ह वै क्षैमिः,
प्राचीनशालिर्, जाबालौ
ते ह सब्रह्मचारिण आसुः २
विश्वास-प्रस्तुतिः
ते हेमे बहु जप्यस्य चान्यस्य चानूचिरे - प्राचीनशालिश्च जाबालौ च ३
English
- These, viz. Pracinaśāli and the two Jābālas, recited much of what is to be muttered and of other [prayers].
मूलम्
ते हेमे बहु जप्यस्य चान्यस्य चानूचिरे प्राचीनशालिश्च जाबालौ च ३
विश्वास-प्रस्तुतिः
अथ ह स्म सुदक्षिणः क्षैमिर्
यद् एव यज्ञस्याञ्जो यत् सुविदितं
तद् ध स्मैव पृच्छति ४
English
- Then Sudakṣina Kṣaimi used to ask [them] concerning that which is easy of the sacrifice,
concerning that which is well known.
मूलम्
अथ ह स्म सुदक्षिणः क्षैमिर्
यद् एव यज्ञस्याञ्जो यत् सुविदितं
तद्ध स्मैव पृच्छति ४
विश्वास-प्रस्तुतिः
त उ ह वा +++(अध्ययन-मध्ये)+++ अपोदिता
व्याक्रोशमानाश् चेरुश् “शूद्रो दुर्-अनूचान”।
ह स्म सुदक्षिणं क्षैमिम् आक्रोशन्ति प्राचीनशालिश्च जाबालौ च ५
English
- And they, being distracted, kept crying out: “śudra, ignoramus!”
Thus they, viz. Prācinaśāli and the two Jábālas, used to cry out against Sudaksina Ksaimi.
मूलम्
त उ ह वा अपोदिता
व्याक्रोशमानाश् चेरुश् “शूद्रो दुर्-अनूचान”
ह स्म सुदक्षिणं क्षैमिम् आक्रोशन्ति प्राचीनशालिश्च जाबालौ च ५
विश्वास-प्रस्तुतिः
स ह स्माह सुदक्षिणः क्षैमिर् -
यत्र भूयिष्ठाः कुरु-पञ्चालास् समागता भवितारस्
तन् न एष संवादो नानुपदृष्टे शूद्रा इव संवदिष्यामह
इति ६
English
- Then Sudaksina Ksāimi used to say:
“Where most of the Kurupañcālas shall be assembled together,
there shall be this disputation of ours;
we will not dispute without witnesses, like śudras.”
मूलम्
स ह स्माह सुदक्षिणः क्षैमिर्
यत्र भूयिष्ठाः कुरुपञ्चालास् समागता भवितारस्
तन् न एष संवादो नानुपदृष्टे शूद्रा इव संवदिष्यामह
इति ६
विश्वास-टिप्पनी
व्यक्तम् अत्र स-मध्यस्थत्वात् सभ्यताया वा, ससार्वजनिकत्वाद् धैर्यस्य वातिशयो ऽशूद्रपक्षे।
दीक्षा
विश्वास-प्रस्तुतिः
ता उ ह वै जाबालौ दिदीक्षाते
शुक्रश्च गोश्रुश् च।
तयोर् ह प्राचीन-शालिर् वृत उद्गाता ७
English
- Now the two Jabalas, śukra and Gośru, consecrated themselves. Of them Pracinaśāli [was] chosen udgātar.
मूलम्
ता उ ह वै जाबालौ दिदीक्षाते
शुक्रश्च गोश्रुश् च।
तयोर् ह प्राचीनशालिर् वृत उद्गाता ७
विश्वास-प्रस्तुतिः
स तद् ध सुदक्षिणो ऽनुबुबुधे
“जाबालौ हादीक्षिषाताम्” इति
स ह सङ्ग्रहीतारम् उवाच -
“आनयस्वारे जाबालौ हादीक्षिषातां तद्गमिष्याव” इति ८
७
English
- Then Sudakṣina became aware: “The two Jabalas have consecrated themselves.”
He said to his driver: “Sirrab, conduct [me thither]. The two Jābālas have consecrated themselves. Thither we will go.”
मूलम्
स तद् ध सुदक्षिणो ऽनुबुबुधे
“जाबालौ हादीक्षिषाताम्” इति
स ह सङ्ग्रहीतारम् उवाच -
“आनयस्वारे जाबालौ हादीक्षिषातां तद्गमिष्याव” इति ८
७
द्वितीयेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
विश्वास-प्रस्तुतिः
तस्य ह ज्ञातिका अश्रुमुखा इवासुर्
+++(जय-मृत्य्वोर्)+++ अन्यतरां वा अयम् उपागाद् इति १
English
III. 8. 1. Now his relatives were tear-faced, as it were [saying]: “This one hath gone unto one or the other.”
मूलम्
तस्य ह ज्ञातिका अश्रुमुखा इवासुर्
अन्यतरां वा अयम् उपागाद् इति १
विश्वास-प्रस्तुतिः
अथ ह स्म वै यः पुरा ब्रह्मवाद्यं वदत्य्
“+++(जय-मृत्य्वोर्)+++ अन्यतराम् उपागाद्”
इति ह स्मैनम् मन्यन्ते।
अथो ह स्मैनम् मृतम् इवैवोपासते २
English
- Now whenever one formerly engaged in a theological disputation,
they used to think of him: “He hath gone unto one or the other;” and they used to wait on him as on one dead.
मूलम्
अथ ह स्म वै यः पुरा ब्रह्मवाद्यं वदत्य्
अन्यतराम् उपागाद्
इति ह स्मैनम् मन्यन्ते।
अथो ह स्मैनम् मृतम् इवैवोपासते २
विश्वास-प्रस्तुतिः
तं ह सङ्ग्रहीतोवाच
“अथ यद् भगवस् ते ताभ्यां न कुशलं, कथेत्थम् आत्थे"ति ३
English
The driver said to him:
“Since, sir, thou art not on good terms with these two, why dost thou speak thus ?”
मूलम्
तं ह सङ्ग्रहीतोवाच
“अथ यद् भगवस्ते ताभ्यां न कुशलं कथेत्थम् आत्थे"ति ३
विश्वास-प्रस्तुतिः
“ओम्” इति होवाच
“गन्तव्यम् म आचार्यस् सुयमान् अमन्यते"ति ४
English
- “Yes,” he said, “I must go; the teacher thought [them] easily governed.”
मूलम्
ओमिति होवाच गन्तव्यम्
म आचार्यस् सुयमानमन्यतेति ४
विश्वास-प्रस्तुतिः
स ह रथम् आस्थाय प्रधावयां चकार
तं ह स्म प्रतीक्षन्ते ५
English
- He, mounting the chariot, drove off. They catch sight of him.
मूलम्
स ह रथम् आस्थाय प्रधावयां चकार
तं ह स्म प्रतीक्षन्ते ५
विश्वास-प्रस्तुतिः
“कं जानीते"ति
“सुदक्षिण” इति
“न वै नूनं स इदम् अभ्यवेयाद्” इति
“स एवे"ति ६
English
- “Do you know who this is ?”
“Sudakṣina.”
“May he not come down hither now.”
“[It is] just he.”
मूलम्
कं जानीतेति सुदक्षिण इति न वै नूनं स इदमभ्यवेयादिति स एवेति ६
विश्वास-प्रस्तुतिः
स ह सोपानाद् एवान्तर्-वेद्य् अवस्थायोवाच
अङ्ग न्व् इत्थं गृहपता३
इति।
तं ह नानूदतिष्ठासत्।
स होवाचा-
“नूत्थाता म एधि।
कृष्णाजिनोऽसि”
इति।
तदिमे कुरुपञ्चाला अविदुर् - “अनूत्थातैव त” इति होचुः ७
English
- He, descending from the steps within the sacred enclosure, said:
“Verily now is it thus, O householder ?”
He did not wish to attend upon him.
He said:
“Be thou attending upon me;
thou art [dressed] in the skin of a black antelope.”
These Kurupañcalas knew this.
“He is thy attendant,” they said.
मूलम्
स ह सोपानादेवान्त-र्वेद्यवस्थायोवाचाङ्ग
न्वित्थं गृहपता३
इति तं ह नानूदतिष्ठासत् स होवाचा-नूत्थाता म एधि
कृष्णाजिनोऽसी ति तदिमे कुरुपञ्चाला अविदुरनूत्थातैव त इति
होचुः ७
विश्वास-प्रस्तुतिः
तं ह कनीयान् भ्रातोवाच
अनूत्तिष्ठ भगव उद्गातारम्
इति।
तं हानूत्तस्थौ ८
English
- His younger brother said to him:
“Sir, attend upon the udgatar.”
He attended upon him.
मूलम्
तं ह कनीयान्भ्रातोवाचानूत्तिष्ठ भगव उद्गातारमिति तं हानूत्तस्थौ ८
त्रीणि त्रीणि जन्म-मरणानि
विश्वास-प्रस्तुतिः
स होवाच -
त्रिर् वै गृहपते पुरुषो जायते
पितुर् एवाग्रे ऽधि जायते, ऽथ मातुर्, अथ यज्ञात् ९
English
- He said:
“Verily thrice, O householder, man is born. From his father he is born first, then from his mother, then from the sacrifice.
मूलम्
स होवाच त्रिर्वै गृहपते पुरुषो जायते पितुरेवाग्रेऽधि जायतेऽथ मातुरथ यज्ञात् ९
विश्वास-प्रस्तुतिः
“त्रिर्वेव म्रियत” इति
स यद्ध वा एनम् एतत् पिता योन्यां रेतो भूतं सिञ्चति १०
८
English
- And thrice he likewise dieth. When his father emitteth him as seed thus into the womb,-
मूलम्
त्रिर्वेव म्रियत इति स यद्ध वा एनमेतत्पिता योन्यां रेतो भूतं
सिञ्चति १०
८
द्वितीयेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
विश्वास-प्रस्तुतिः
तत्प्रथमम्म्रियते १
English
III. 9. 1. “Then he dies for the first time.
मूलम्
तत्प्रथमम्म्रियते १
विश्वास-प्रस्तुतिः
अन्धम् इव वै तमो योनिः।
लोहित-स्तोको वा वै स
तदा भवत्य् अपां वा स्तोकः
किं हि स तदा भवति २
English
- Blind darkness, as it were, is the womb. He thus becomes either a drop of blood or a drop of water. What, pray, does he thus become?
मूलम्
अन्धमिव वै तमो योनिः लोहितस्तोको वा वै स तदा-भवत्यपां वा स्तोकः किं हि स तदाभवति २
विश्वास-प्रस्तुतिः
“स यस् तां देवतां वेद
यां च स ततो ऽनुसम्भवति
या चैनं तम् मृत्युम् अतिवहति
स उद्गाता मृत्युम् अतिवहती"ति ३
English
- He who knows that divinity after which he thence comes into being and which carries him beyond this death-he as udgator carries beyond death.
मूलम्
स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ३
विश्वास-प्रस्तुतिः
अथ य एनम् एतद् दीक्षयन्ति
तद् द्वितीयम् म्रियते।
वपन्ति केश-श्मश्रूणि
निकृन्तन्ति नखान्
प्रत्यञ्जन्त्य् अङ्गानि
प्रत्यचत्य् अङ्गुलीः
अपवृतो ऽपवेष्टित आस्ते
न जुहोति
न यजते
न योषितं चरति
अमानुषीं वाचं वदति
मृतस्य वावैष तदा रूपम् भवति ४
English
- And when they thus consecrate him, then he dies for the second time. They cut [his] hair and [his] beard. They trim [his] nails. They anoint his several limbs. He bends his fingers. He sits uncovered, stripped off (?). He does not offer oblations, he does not sacrifice, he does not approach a woman, he speaks non-human speech. Verily he then has the form of one dead.
मूलम्
अथ य एनमेतद्दीक्षयन्ति तद्द्वितीयम्म्रियते वपन्ति केशश्मश्रूणि निकृन्तन्ति नखान्प्रत्यञ्जन्त्यङ्गानि प्रत्यचत्यङ्गुलीः अपवृतोऽपवेष्टित आस्ते न जुहोति न यजते न योषितं चरति अमानुषीं वाचं वदति मृतस्य वावैष तदा रूपम्भवति ४
विश्वास-प्रस्तुतिः
स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ५
English
मूलम्
स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ५
विश्वास-प्रस्तुतिः
अथ य एनम् एतद् अस्माल्-लोकात् प्रेतं चित्याम् आदधति
तत् तृतीयम् म्रियते ६
English
- And when they lay him, having departed from this world, upon the funeral-pyre, then he dies for the third time.
मूलम्
अथ य एनमेतदस्माल्लोकात्प्रेतं चित्या-मादधति तद्तृतीयम्म्रियते ६
विश्वास-प्रस्तुतिः
स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ७
English
- ३.
मूलम्
स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ७
विश्वास-प्रस्तुतिः
एतावद् धैवोक्त्वा
रथम् आस्थाय प्रधावयां चकार ८
English
- Having said this much, mounting the chariot, he drove off.
मूलम्
एतावद्धैवोक्त्वा रथमास्थाय प्रधावयां चकार ८
विश्वास-टिप्पनी
शूद्रतापादका अमन्यन्त - “विद्मो बह्व् अस्यापेक्षये"ति। तेभ्यः प्रादर्शयत् - “अज्ञा यूयम्” इति। ततो ऽधावयत् स्वरथम्। ते ऽवगत्य कण्ड्वियं शरणं गताः।
उद्गातृतर-प्राप्तिः
विश्वास-प्रस्तुतिः
तं ह जाबालम् प्रत्येतं
कनीयान् भ्रातोवाच
काम् भवञ् छूद्रको वाचम् अवादि
इति।
हस्तिना गाधम् ऐषीर्
इति ९
English
- To this Jabala, having come back, This] younger brother said: “Sir, what words hath the śudra spoken? Thou hast sought a shallow with an elephant.”
मूलम्
तं ह जाबालम्प्रत्येतं कनीयान् भ्रातोवाच
काम्भवञ्छूद्रको वाचमवादीति हस्तिना गाधमैषीरिति ९
विश्वास-प्रस्तुतिः
प्र हैवैनं तच् छशंस
यः “कथम् अवोचद् भगव” इति -
यस् त्रयाणाम् मृत्यूनां साम्नातिवाहं वेद
स उद्गाता मृत्युम् अतिवहति
इति १०
९
English
He (the older Jabala) set that forth to him who [had said]: “How hath he spoken, sir ?” “He who knows the carrying-over of the three deaths by means of the saman, he as udgatar carries beyond death.”
मूलम्
प्र हैवैनं तच्छशंस यः कथमवोचद्भगव इति
यस्त्रयाणाम्मृत्यूनां साम्नातिवाहं वेद स उद्गाता मृत्युमतिवहतीति १०
९
द्वितीयेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
विश्वास-प्रस्तुतिः
“तं वाव भगवस् ते पितोद्गातारम् अमन्यते"ति होवाच।
तद् उ ह प्राचीन-शाला विदुर्
य एषाम् अयं वृत उद्गाता
स तस्मिन् ह नानुविदुः १
English
III. 10. 1. He said: “Sir, verily, thy father thought him an udgatar; and the Pracinaśālas know it, who of them was the chosen udgatar here. To him they did not assent (?).”
मूलम्
तं वाव भगवस्ते पितोद्गातारममन्यतेति होवाच तदु ह प्राचीनशाला विदुर्य एषामयं वृत उद्गातास तस्मिन्ह नानुविदुः १
विश्वास-प्रस्तुतिः
ते होचुर् “अनुधावत काण्ड्वियम्” इति,
तं हानुसस्रुः
ते ह काण्ड्वियम् उद्गातारं चक्रिरे
ब्रह्माणम् प्राचीन-शालिम् २
English
- They said: “Run after Kāndviya.” They ran after him. They made Kandviya the udgātar, [and] Pracinaśāli the brahman-priest.
मूलम्
ते होचुरनुधावत काण्ड्वियमिति तं हानुसस्रुः ते ह काण्ड्वियमुद्गातारं चक्रिरे ब्रह्माणम्प्राचीनशालिम् २
त्रीणि जन्मानि
विश्वास-प्रस्तुतिः
तं हाभ्यवेक्ष्योवाच
एवम् एष ब्राह्मणो +++(प्राचीन-शालिः)+++ मोघाय वादाय नाग्लायत् +++(उद्गातृपात्रे ब्रह्मचार्य्-अवस्थायां वा)+++।
स नाणु साम्नो ऽन्विच्छति
इति।
अति हैवैनं तच् चक्रे ३
English
- He looking down at him said: “Thus this Brahman was not averse to idle talk. He doth not strive after the subtle of the saman. He did this beyond him (?).”
मूलम्
तं हाभ्यवेक्ष्योवाचैवमेष ब्राह्मणो मोघाय वादाय नाग्लायत् स नाणु सा-म्नोऽन्विच्छतीति अति हैवैनं तच्चक्रे ३
विश्वास-प्रस्तुतिः
स यद् ध वा एनम् एतत् पिता योन्यां रेतो भूतं सिञ्चत्य्
आदित्यो हैनं तद् योन्यां रेतो भूतं सिञ्चति
स हास्य तत्र मृत्योर् ईशे ४ +++(5)+++
English
- When the father thus emits him as seed into the womb, then the sun thus emits him as seed in the womb. He there lords over this death.
मूलम्
स यद्ध वा एनमेतत्पिता योन्यां रेतो भूतं सिञ्चत्यादित्यो हैनं तद्योन्यां रेतो भूतं सिञ्चति स हास्य तत्र मृत्योरीशे ४
विश्वास-प्रस्तुतिः
अथो यद् एवैनम् एतत् पिता योन्यां रेतो भूतं सिञ्चति
तद् ध वाव स ततो ऽनुसम्भवति, प्राणं च।
यदा ह्य् एव रेतस् सिक्तम्
प्राण आविशत्य्
अथ तत् सम्भवति ५
English
- And when the father thus emits him as seed into the womb, verily he thence comes into existence after that [seed] and after breath. For when breath enters the emitted seed, then it comes into being.
मूलम्
अथो यदेवैनमेतत्पिता योन्यां रेतो भूतं सिञ्चति तद्ध वाव स ततोऽनुसम्भवति प्राणं च यदा ह्येव रेतस्सिक्तम्प्राण आविशत्यथ तत्सम्भवति ५
विश्वास-प्रस्तुतिः
अथो यद् एवैनम् एतद् दीक्षयन्त्य्
अग्निर् हैवैनं तद् योन्यां रेतो भूतं सिञ्चति
स हैवास्य तत्र मृत्योर् ईशे ६
English
- And when they thus consecrate him, it is Agni who thus emits him as seed into the womb. He there lords over this death.
मूलम्
अथो यदेवैनमेतद्दीक्षयन्त्यग्निर्हैवैनं तद्योन्यां रेतो भूतं सिञ्चति स हैवास्य तत्र मृत्योरीशे ६
विश्वास-प्रस्तुतिः
अथो याम् एवैतां वैसर्जनीयाम् आहुतिम् अध्वर्युर् जुहोति
ताम् एव स ततो ऽनुसम्भवति
छन्दांसि चैव ७
English
- Now what vāisarjana-offering the adhvaryu offers,
after that he thence comes into existence and after the metres.
मूलम्
अथो यामेवैतां वैसर्जनीयामाहुतिमध्वर्युर्जुहोति तामेव स ततोऽनुसम्भवति छन्दांसि चैव ७
विश्वास-प्रस्तुतिः
अथ य एनम् एतद् अस्माल् लोकात् प्रेतं चित्याम् आदधति
चन्द्रमा हैवैनं तद् योन्यां रेतो भूतां सिञ्चति
स उ हैवास्य तत्र मृत्योरीशे ८
English
- And when they thus lay him, having departed from this world, on the funeral pyre, it is the moon who thus emits him as seed into the womb. He there lords over this death.
मूलम्
अथ य एनमेतदस्माल्लोकात्प्रेतं चित्यामादधति चन्द्र मा हैवैनं तद्योन्यां रेतो भूतां सिञ्चति स उ हैवास्य तत्र मृत्योरीशे ८
विश्वास-प्रस्तुतिः
अथो यद् एवैनम् एतद् अस्माल् लोकात् प्रेतं चित्याम् आदधत्य्
अथो या एवैता अवोक्षणीया आपस्
ता एव स ततो ऽनुसम्भवति प्राणम् वेव।
प्राणो ह्यापः ९
English
- Now when they put him, having departed from this world, on the funeral pyre, now what the waters for sprinkling are, after those he thence comes into existence and after breath also. For breath is the waters.
मूलम्
अथो यदेवैनमेतदस्माल्लोकात्प्रेतं चित्यामादधत्यथो या एवैता अवोक्षणीया आपस्ता एव स ततोऽनुसम्भवति प्राणम्वेव प्राणो ह्यापः ९
उद्वहनम्
विश्वास-प्रस्तुतिः
तं ह वा एवं-विद् उद्गाता
यजमानम् ओम् इत्य् एतेनाक्षरेणादित्यम् मृत्युम् अतिवहति
वाग् इत्य् अग्निं
हुम् इति वायुम्
भा इति चन्द्रमसम् १०
English
- Him sacrificing an udgatar who knows thus carries beyond the sun, [i. e. beyond] death, by means of this syllable, viz. om; [saying] vac [he carries him beyond Agni; [saying] hum, beyond Vayu; [saying] bha, beyond the moon.
मूलम्
तं ह वा एवंवि-दुद्गाता यजमानमोमित्येतेनाक्षरेणादित्यम्मृत्युमतिवहति वागित्यग्निं हुमिति वायुम्भा इति चन्द्र मसम् १०
विश्वास-प्रस्तुतिः
तान् वा एतान् मृत्यून् साम्नोद्गातात्मानं च यजमानं चातिवहत्य्
ओम् इत्य् एतेनाक्षरेण प्राणेनामुना ऽदित्येन ११
English
- Verily beyond these same deaths an udgatar carries himself and the sacrificer, by means of this syllable, viz. om, by means of breath, by means of yonder sun.
मूलम्
तान्वा एतान्मृत्यून्साम्नोद्गातात्मानं च यजमानं चातिवहत्योमित्येतेनाक्षरेण प्राणेनामुनादित्येन ११
विश्वास-प्रस्तुतिः
तस्यैष श्लोक
उतैषां ज्येष्ठ उत वा कनिष्ठ
उतैषाम् पुत्र उत वा पितैषाम्
एको ह देवो मनसि प्रविष्टः
पूर्वो ह जज्ञे स उ गर्भेऽन्तर्
इति १२
English
About this there is this śloka: “Is he the oldest of them or the youngest? Is he their son, or their father? Truly one god is entered in the mind; he was born of old and he is within the womb.”
मूलम्
तस्यैष श्लोक
उतैषां ज्येष्ठ उत वा कनिष्ठ
उतैषाम् पुत्र उत वा पितैषाम्
एको ह देवो मनसि प्रविष्टः
पूर्वो ह जज्ञे स उ गर्भेऽन्तर्
इति १२
विश्वास-प्रस्तुतिः
तद् यद् एषोऽभ्युक्त
इमम् एव पुरुषं योऽयमाछन्नो ऽन्तर्
ओम् इत्य् एतेनैवाक्षरेण
प्राणेनैवामुनैवादित्येन १३
१०
English
- In that he is spoken of,
this same man who is concealed within, by just that syllable om, by breath, by yonder sun …….
मूलम्
तद्यदेषोऽभ्युक्त इममेव पुरुषं
योऽयमाछन्नोऽन्तरोमित्येतेनैवाक्षरेण प्राणेनैवामुनैवादित्येन १३
१०
द्वितीयेऽनुवाके पञ्चमः खण्डः
द्वितीयोऽनुवाकस्समाप्तः