अथ तृतीयोऽध्यायः
[[खण्डः]]
एका ह वाव कृत्स्ना देवतार्धदेवता एवान्याः अयमेव योऽयम्पवते १
एष एव
सर्वेषां देवानां ग्रहाः २
स हैषोऽस्तं नाम अस्तमिति हेह
पश्चाद्ग्रहानाचक्षते ३
स यदादित्योऽस्तमगादिति ग्रहानगादिति
हैतत्तेन सोऽसर्वः स एतमेवाप्येति ४
अस्तं चन्द्र मा एति तेन सोऽसर्वः
स एतमेवाप्येति ५
अस्तं नक्षत्राणि यन्ति तेन तान्यसर्वाणि
तान्येतमेवापियन्ति ६
अन्वग्निर्गच्छति तेन
सोऽसर्वः स एतमेवाप्येति ७
एत्यहः एति रात्रिः तेन ते असर्वे ते
एतमेवापीतः ८
मुह्यन्ति दिशो न वै ता रात्रिम्प्रज्ञायन्ते तेन
ता असर्वाः ता एतमेवापियन्ति ९
वर्षति च पर्जन्य उच्च गृह्णाति तेन
सोऽसर्वः स एतमेवाप्येति १०
क्षीयन्त आप एव-मोषधय एवं वनस्पतयः तेन
तान्यसर्वाणि तान्येतमेवापियन्ति ११
तद्यदेतत्सर्वं वायुं एवाप्येति
तस्माद्वायुरेव साम १२
स ह वै सामवित्स कृत्स्नं साम वेद य
एवं वेद १३
अथाध्यात्मं न वै स्वपन्वाचा वदति सेयमेव प्राणमप्येति १४
न
मनसा ध्यायति तदिदमेव प्राणमप्येति १५
न चक्षुषा पश्यति तदिदमेव
प्राणमप्येति १६
न श्रोत्रेण शृणोति तदिदमेव
प्राणमप्येति १७
तद्यदेत-त्सर्वम्प्राणमेवाभिसमेति
तस्मात्प्राण एव साम १८
स ह वै सामवित्स कृत्स्नं साम वेद
य एवं वेद १९
तद्यदिदमाहुर्न बताद्य वातीति स हैतत्पुरु-षेऽन्तर्निरमते स
पूर्णस्स्वेदमान आस्ते २०
तद्ध शौनकं च कापेयमभिप्रतारिणं
च काक्षसेनिम्ब्राह्मणः परिवेविष्यमाणा उपावव्राज २१
१
प्रथमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
तौ ह बिभिक्षे तं ह नादद्रा ते को वा को वेति मन्यमानौ १
तौ होपजगौ
महात्मनश्चतुरो देव एकः कस्स जगार भुवनस्य गोपाः तं कापेय
न विजा-नन्त्येकेऽभिप्रतारिन्बहुधा निविष्टमिति २
स होवाचाभिप्रतारीमं
वाव प्रपद्य प्रतिब्रूहीति त्वया वा अयम्प्रत्युच्य इति ३
तं ह
प्रत्युवाच आत्मा देवानामुत मर्त्यानां हिरण्यदन्तो रपसो न
सूनुः महान्तमस्य महिमानमाहुरनद्यमानो यददन्तमत्तीति ४
महात्मनश्चतुरो देव एक इति वाग्वा अग्निः स
महात्मा देवः स यत्र स्वपिति तद्वाचम्प्राणो गिरति ५
मनश्चन्द्र मास्स महात्मा देवः स यत्र स्वपिति तन्मनः
प्राणो गिरति ६
चक्षुरादित्यस्स महात्मा देवः स यत्र स्वपिति
तच्चक्षुः प्राणो गिरति ७
श्रोत्रं दिशस्ता महात्मानो देवाः स यत्र
स्वपिति तच्छ्रोत्रम्प्राणो गिरति ८
तद्यन्महात्मनश्चतुरो देव एक इत्येतद्ध
तत् ९
कस्स जगारेति प्रजापतिर्वै कः स हैतज्जगार १०
भुवनस्य गोपा इति स उ
वाव भुवनस्य गोपाः ११
तं कापेय न विजानन्त्येक इति न ह्येतमेके
विजा-नन्ति १२
अभिप्रतारिन्बहुधा निविष्टमिति बहुधा ह्येवैष
निविष्टो यत्प्राणः १३
आत्मा देवानामुत मर्त्यानामिति आत्मा ह्येष
देवानामुत मर्त्यानाम् १४
हिरण्यदन्तो रपसो न सूनुरिति न
ह्येष सूनुः सूनुरूपो ह्येष सन्न सूनुः १५
महान्तमस्य
महिमानमाहुरिति महान्तं ह्य् एतस्य महिमानमाहुः १६
अनद्यमानो
यददन्तमत्तीति अनद्यमानो ह्येषोऽदन्तमत्ति १७
२
प्रथमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
तस्यैष श्रीरात्मा समुद्रू ढो यदसावादित्यः तस्माद्गायत्रस्य
स्तोत्रेणावान्या-न्नेच्छ्रिया अवछिद्या इति १
स एष एवोक्थं यत्पुरस्तादवानिति तदेतदुक्थस्य शिरो यद्दक्षिणतस्स दक्षिणः
पक्षो यदुत्तरतस्स उत्तरः पक्षो यत्पश्चात्तत्पुच्छम् २
अयमेव प्राण
उक्थस्यात्मा स य एवमेतमुक्थस्यात्मानमात्मन्प्रतिष्ठितं वेद स
हामुष्मिंल्लोके साङ्गस्सतनुस्सर्वस्सम्भवति ३
शश्वद्ध वा
अमुष्मिंल्लोके यदिदम्पुरुषस्याण्डौ शिश्नं कर्णौ नासिके यत्किं
चानस्थिकं न सम्भवति ४
अथ य एवमेतमुक्थस्यात्मानमात्मन्प्रतिष्ठितं वेद स
हैवामुष्मिंल्लोके साङ्ग-स्सतनुस्सर्वस्सम्भवति ५
तदेतद्वैश्वामित्रमुक्थं
तदन्नं वै विश्वम्प्राणो मित्रम् ६
तद्ध विश्वामित्रश्श्रमेण तपसा
व्रतचर्येणेन्द्र स्य प्रियं धामोपजगाम ७
तस्मा उ
हैतत्प्रोवाच यदिदम्मनुष्यानागतम् ८
तद्ध स उपनिषसाद
ज्योतिरे-तदुक्थमिति ९
ज्योतिरिति द्वे अक्षरे प्राण इति द्वे अन्नमिति
द्वे तदेतदन्न एव प्रतिष्ठितम् १०
अथ हैनं
जमदग्निरुपनिषसादायुरेतदुक्थमिति
११
आयुरिति द्वे अक्षरे प्राण इति द्वे अन्नमिति द्वे तदेतदन्न एव
प्रतिष्ठितम् १२
अथ हैनं वसिष्ठ उपनिषसाद गौरेतदुक्थमिति
तदेतदन्नमेव अन्नं हि गौः १३
तदाहुर्यदस्य प्राणस्य पुरुषश्शरीरमथ केनान्ये
प्रानाश्शरीरवन्तो भवन्तीति १४
स ब्रूयाद्यद्वाचा वदति तद्वाचश्शरीरं
यन्मनसा ध्यायति तन्मनसश्शरीरं यच्चक्षुषा पश्यति
तच्चक्षुषश्शरीरं यच्छ्रोत्रेण शृणोति
तच्छ्रोत्रस्य शरीरमेवमु हान्ये
प्राणाश्शरीरवन्तो भवन्तीति १५
३
प्रथमेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
तदेतदुक्थं सप्तविधं शस्यते स्तोत्रियोऽनुरूपो धाय्या प्रगाथस्सूक्तं
निवि-त्परिधानीया १
इयमेव स्तोत्रियोऽग्निरनुरूपो
वायुर्धाय्यान्तरिक्षम्प्रगाथो
द्यौ-स्सूक्तमादित्यो निवित्तस्माद्बह्वृचा उदिते
निविदमधीयन्ते आदित्यो हि निवित् दिशः परिधानीयेत्यधिदेवतम् २
अथाध्यात्ममात्मैव स्तोत्रियः प्रजानुरूपः प्राणो
धाय्या मनः प्रगाथश्शिरस्सूक्तं चक्षुर्निविच्छ्रोत्रम्परिधानीया ३
तद्धैतदेके त्रिष्टुभा परिदधत्यनुष्टुभैके त्रिष्टुभा त्वेव परिदध्यात्
४
तद्धैतदेक एता व्याहृतीरभिव्याहृत्य शंसन्ति महान्मह्या समधत्त देवो
देव्या समधत्त ब्रह्म ब्राह्मण्या समधत्त तद्यत्समधत्त समधत्तेति
५
तस्मादिदानीम्पुरुषस्य शरीराणि प्रतिसंहितानि पुरुषो ह्येतदुक्थम् ६
महान्मह्या समधत्तेति अग्निर्वै महानियमेव मही ७
देवो देव्या
समधत्तेति वायुर्वै देवोऽन्तरिक्षं देवी ८
ब्रह्म ब्राह्मण्या
समधत्तेति आदित्यो वै ब्रह्म द्यौर्ब्राह्मणी ९
तासां वा एतासां
देवतानां द्वयोर्द्वयोर्देवतयोर्नवनवाक्षराणि सम्पद्यन्ते एतदिमे
लोकास्त्रिणवा भवन्ति १०
तद्ब्रह्म वै
त्रिवृत्तद्ब्रह्माभिव्याहृत्य
शंसन्ति एष उ एव स्तोमस्सोऽनुचरः ११
यदिममाहुरेकस्तोम इत्ययमेव
योऽयम्पवते एषोऽधिदेवतं प्राणोऽध्यात्मं तस्य
शरीरमनुचरः १२
तद्यथा ह वै मणौ मणिसूत्रं सम्प्रोतं स्याद् १३
४
प्रथमेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
एवं हैतस्मिन्सर्वमिदं सम्प्रोतं गन्धर्वाप्सरसः पशवो मनुष्याः १
तद्ध
मुञ्जस्सा-मश्रवसः प्रययौ तस्मै ह श्वाजनिर्वैश्यः प्रेयाय २
तस्य हान्तरिक्षात्पतित्वा नवनीतपिण्ड उरसि निपपात तं हादायानुदधौ
३
ततो हैव स्तोमं ददर्शान्तरिक्षे विततम्बहु शोभमानं तस्यो ह युक्तिं
ददर्श ४
बहिष्पवमानमासद्य टीत्र वियि प्राण्य इति कूर्यात्टीत्र
गृहित्र अपान्य इति वाचा दिदृक्षेतैवाक्षिभ्यं शुश्रूषेतैव
कर्णाभ्यां स्वयमिदम्मनोयुक्तम् ५
तद्यत्र वा
इषुरत्यग्रो भवति न वै स ततो हिनस्ति तदु वा एतं
नोपाप्नुयात् प इत्येवापान्यात्तद्यथा बिम्बेन मृगमानयेदे
वमेवैनमेतया देवतयानयति स युक्तः करोति एष एवापि युक्तः ६
५
प्रथमेऽनुवाके पञ्चमः खण्डः
प्रथमोऽनुवाकस्समाप्तः