[[खण्डः]]
देवा वै ब्रह्मणो वत्सेन वाचमदुह्रन्नग्निर्ह वै ब्रह्मणो वत्सः १
सा या सा
वाग्ब्रह्मैव तत् अथ योऽग्निर्मृत्युस्सः २
तामेतां वाचं यथा धेनुं
वत्सेनोपसृज्य प्रत्तां दुहीतैवमेव देवा वाचं
सर्वान्कामानदुह्रन् ३
दुहे ह वै वाचं
सर्वान्कामान्य एवं वेद स हैषोऽनानृतो वाचं
देवीमुदिन्धे वद वद वदेति ४
तद्यदिह पुरुषस्य पापं
कृतम्भवति तदाविष्करोति यदिहैनदपि रहसीव
कुर्वन्मन्यतेऽथ हैनदाविरेव करोति तस्माद्वाव पापं न कुर्यात् ५
१३
पञ्चमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
एष उ ह वाव देवानां नेदिष्ठमुपचर्यो यदग्निः १
तं साधूपचरेत् य
एनमस्मिं-ल्लोके साधूपचरति तमेषोऽमुष्मिंल्लोके
साधूपचरति अथ य एनमस्मिंल्लोके नाद्रि यते तमेषोऽमुष्मिंल्लोके
नाद्रि यते तस्माद्वा अग्निं साधूपचरेत् २
तं नैव हस्ताभ्यां स्पृशेन्न
पादाभ्यां न दण्डेन ३
हस्ताभ्यां स्पृशति यदस्यान्तिक-मवनेनिक्ते अथ
यदभिप्रसारयति तत्पादाभ्याम् ४
स एनमास्पृष्त ईश्वरो
दुर्धायां धातोः तस्माद्वा अग्निं साधूपचरति सुधायां हैवैनं दधाति ५
१४
पञ्चमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
एष उ ह वाव देवानाम्महाशनतमो यदग्निः १
तन्न व्रत्यमददानोऽश्नीयात् यो वै
महाशनेऽनश्नत्यश्नातीश्वारो हैनमभिषङ्क्तोः पूतिमिव हाश्नीयात् २
अथो ह
प्रोक्तेऽशने ब्रूयात्समिन्त्स्वाग्निमिति स यथा प्रोक्तेऽशने
श्रेयांसम्परिवेष्टवै ब्रूयात्तादृक्तत् ३
एतदु
ह वाव साम यद्वाक् यो वै चक्षुस्साम श्रोत्रं सामेत्युपास्ते न ह तेन
करोति ४
अथ य आदित्यस्साम चन्द्र मास्सामेत्युपास्ते न हैव तेन
करोति ५
अथ यो वाक्सामेत्युपास्ते स एवानुष्ठ्या साम वेद वाचा हि
साम्नार्त्विज्यं क्रियते ६
स यो वाचस्स्वरो जायते सोऽग्निर्वाग्वेव
वाक् तदत्रैकधा साम भवति ७
स य एवमेतदेकधा साम भवद्वेदैवं हैतदेकधा
साम भवतीत्येकधेव श्रेष्ठस्स्वानाम्भवति ८
तस्मादु हैवंविदमेव
साम्नार्त्विज्यं कारयेत स ह वाव साम वेद य एवं वेद
पञ्चमेऽनुवाके तृतीयः खण्डः ९
१५
पञ्चमोऽनुवाकस्समाप्तः
इति द्वितीयोऽध्यायः