०४

[[खण्डः]]

देवासुरास्समयतन्तेत्याहुः न ह वै तद्देवासुरास्सम्येतिरे प्रजापतिश्च ह वै तन्मृत्युश्च सम्येताते १
तस्य ह प्रजापतेर्देवाः प्रियाः पुत्रा अन्त आसुः तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २
तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ३ ते वाचोद्गात्रादीक्षन्त तेभ्य इदं वागा-गायद्यदिदं वाचा वदति यदिदं वाचा भुञ्जते ४
ताम्पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ५ तेऽब्रुवन्न वै नोऽयम्मृत्युं न पाप्मा-नमत्यवाक्षीत् मनसोद्गात्रा दीक्षामहा इति ६
ते मनसोद्गात्रादीक्षन्त तेभ्य इद-म्मन आगायद्यदिदम्मनसा ध्यायति यदिदम्मनसा भुञ्जते ७ तत्पाप्मा-न्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ८
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ९
ते चक्षुषो-द्गात्रादीक्षन्त तेभ्य इदं चक्षुरागायद्यदिदं चक्षुषा पश्यति यदिदं चक्षुषा भुञ्जते १० तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापम्पश्यति स एव स पाप्मा ११
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति १२
ते श्रोत्रेणोद्गात्रादीक्षन्त तेभ्य इदं श्रोत्रमागायद्यदिदं श्रोत्रेण शृणोति यदिदं श्रोत्रेण भुञ्जते १३
तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १४ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १५
ते प्राणेनोद्गात्रादीक्षन्त तेभ्य इदम्प्राण आगायद्यदिदम्प्राणेन प्राणिति यदिदम्प्राणेन भुञ्जते १६
तम्पाप्मान्वसृज्यत स यदेव प्राणेन पापम्प्रा-णिति स एव स पाप्मा १७
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् अनेन मुख्येन प्राणेनोद्गात्रा दीक्षामहा इति १८
तेऽनेन मुख्येन प्राणेनो-द्गात्रादीक्षन्त १९
सोऽब्रवीन्मृत्युरेष एषां स उद्गाता येन मृत्युमत्येष्यन्तीति २०
न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापम्पश्यति न पापं शृणोति न पापं गन्धमपानिति २१
तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायन्नपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २२
१०

चतुर्थेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

स यथा हत्वा प्रमृद्यातीयादेवमेवैतम्मृत्युमत्यायन् १
स वाचम्प्रथमाम-त्यवहत्ताम्परेण मृत्युं न्यदधात् सोऽग्निरभवत् २
अथ मनोऽत्यवहत्तत्परेण मृत्युं न्यदधात् स चन्द्र मा अभवत् ३
अथ चक्षुरत्यवहत्तत्परेण मृत्युं न्यदधात् स आदित्योऽभवत् ४ अथ श्रोत्रमत्यवहत्तत्परेण मृत्युं न्यदधात्ता इमा दिशो-ऽभवन्ता उ एव विश्वे देवाः ५
अथ प्राणमत्यवहत्तम्परेण मृत्युं न्यदधात् स वायुरभवत् ६
अथात्मने केवलमेवान्नाद्यमागायत ७
स एष एवायास्यः आस्ये धीयते तस्मादयास्यः यद्वेवा यमास्ये रमते तस्माद्वेवायास्यः ८ स एष एवाङ्गिरसः अतो हीमान्यङ्गानि रसं लभन्ते तस्मादाङ्गिरसः यद्वेवैषामङ्गानां रसस्तस्माद्वेवाङ्गिरसः ९
तं देवा अब्रुवन्केवलं वा आत्मनेऽन्नाद्यमागासीः अनु न एतस्मिन्नन्नाद्य आभज एतदस्यानामयत्वमस्तीति १०
तं वै प्रविशतेति स वा आकाशान्कुरुष्वेति स इमान्प्राणानाकाशानकुरुत ११ तं वागेव भूत्वाग्निः प्राविशन्मनो भूत्वा चन्द्र माश्चक्षुर्भूत्वादित्यश्श्रोत्रम्भूत्वा दिशः प्राणो भूत्वा वायुः १२
एषा वै दैवी परिषद्दैवी सभा दैवी संसत् १३ गच्छति ह

वा एतां दैवीम्परिषदं दैवीं सभां दैवीं संसदं य एवं वेद १४
११

चतुर्थेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

यत्रो ह वै क्व चैता देवता निस्पृशन्ति न हैव तत्र कश् चन पाप्मा न्यङ्गः परिशिष्यते १
स विद्यान्नेह कश् चन पाप्मा न्यङ्गः परिशेक्ष्यते सर्वमेवैता देवताः पाप्मानं निधक्ष्यन्तीति तथा हैव भवति २
य उ ह वा एवंविदमृच्छति यथैता देवता ऋत्वा नीयादेवं न्येति एतासु ह्येवैनं देवतासु प्रपन्नमेतासु वसन्तमुपवदति ३
तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद य एवैनमुपवदति स आर्तिमार्च्छति ४
स य एनमृच्छादेव ता देवता उपसृत्य ब्रूयादयम्मारत्स इमामार्तिं न्येत्विति तां हैवार्तिं न्येति ५
यावदावासा उ हास्येमे प्राणा अस्मिंल्लोक एतावदावासा उ हास्यैता देवता अमुष्मिंल्लोके भवन्ति ६ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिंल्लो-के गृहान्करिष्यन्ति एता अमुष्मिंल्लोके भवन्ति तस्मादु लोकम्प्रदास्यन्तीति ७
तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिं-ल्लोके गृहेभ्यो गृहान्करिष्यन्ति स्वेभ्य आयतनेभ्य इति हैव विद्यादेता देवता अमुष्मिंल्लोके लोकम्प्रदास्यन्तीति ८ तस्मादु हैवं विद्वान्नैवागृहतायै बिभी-यान्नालोकतायै एता म एतदुभयं सन्नंस्यन्तीति हैव विद्यात्तथा हैव भवति ९

१२

चतुर्थेऽनुवाके तृतीयः खण्डः

चतुर्थोऽनुवाकस्समाप्तः