०३

[[खण्डः]]

शर्यातो वै मानवः प्राच्यां स्थल्यामयजत तस्मिन्ह भूतान्युद्गीथेऽपित्वमेषिरे १
तं देवा बृहस्पतिनोद्गात्रा दीक्षामहा इति पुरस्तादागच्छन्नयं त उद्गायत्विति बम्बेनाजद्विषेण पितरो दक्षिणतोऽयं त उद्गायत्वित्युशनसा काव्येनासुराः पश्चादयं त उद्गायत्वित्ययास्येनाङ्गिरसेन मनुष्या उत्तरतोऽयं त उद्गायत्विति २
स हेक्षां चक्रे हन्तैनान्पृच्छानि कियतो वा एक ईशे कियत एकः कियत एक इति ३
स होवाच बृहस्पतिं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ४
स होवाच देवेष्वेव श्रीस्स्याद्देवेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ५
अथ होवाच बम्बमाजद्विषम्यन्मे त्वमुद्गायेः किं ततस्स्यादिति ६
स होवाच पितृष्वेव श्रीस्स्यात्पितृष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ७
अथ होवाचोशनसं काव्यं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ८
स होवाचासुरेष्वेव श्रीस्स्या-दसुरेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ९
अथ होवाचायास्यमाङ्गिरसं यन्मे त्वमुद्गायेः किं ततस्स्यादिति १०
स होवाच देवानेव देवलोके दध्या-म्मनुष्यान्मनुष्यलोके पितॄन्पितृलोके नुदेयास्माल्लोकादसुरान्स्वर्गमु त्वां लोकं

गमयेयमिति ११

तृतीतेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

स होवाच त्वम्मे भगव उद्गाय य एतस्य सर्वस्य यशो ऽसीति १
तस्य हायास्य एवोज्जगौ तस्मादुद्गाता वृत उत्तरतो निवेशनं लिप्सेत एतद्ध नारुद्धं निवेशनं यदुत्तरतः २
उत्तरत आगतोऽयास्य आङ्गिरसश्शर्यातस्य मानवस्योज्जगौ स प्राणेन देवान्देवलोकेऽदधादपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेण वज्रेणास्माल्लोकादसुराननुदत ३
तान्होवाच दूरं गच्छतेति स दूरो ह नाम लोकः तं ह जग्मुः त एतेऽसुरा असम्भाव्यम्पराभूताः ४ छन्दोभिरेव वाचा शर्यातम्मानवं स्वर्गं लोकं गमयां चकार ५
ते होचुरसुरा एत तं वेदाम यो नोऽयमित्थमधत्तेति तत आगच्छन्तमेत्यापश्यन् ६ तेऽब्रुवन्नयं वा आस्य इति यदब्रुवन्नयं वा आस्य इति तस्मादयमास्यः अयमास्यो ह वै नामैषः तमयास्य इति परोक्षमाचक्षते ७
स प्राणो वा अयास्यः प्राणो ह वा एनान्स नुनुदे ८
स य एवं विद्वानुद्गायति प्राणेनैव देवान्देवलोके दधात्यपानेन मनु-ष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेणैव वज्रेणास्माल्लोकाद्द्विषन्तम्भ्रातृव्यं नुदते ९

तृतीयेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

तं ह ब्रूयाद्दूरं गच्छेति स यमेव लोकमसुरा अगच्छंस्तं हैव गच्छति १ छन्दोभिरेव वाचा यजमानं स्वर्गं लोकं गमयति २
ता एता व्याहृतयः प्रेत्येति वाग् इति भूर्भुवस्स्वरित्य् उदिति ३ तद्यत्प्रेति तत्प्राणस्तदयं लोकस्तदिमं लोकमस्मिंल्लोक आभजति ४ एत्यपानस्तदसौ लोकस्तदमुं लोकममु-ष्मिंल्लोक आभजति ५ वागिति तद्ब्रह्म तदिदमन्तरिक्षम् ६
भूर्भुवस्स्वरिति सा त्रयी विद्या ७ उदिति सोऽसावादित्यः तद्यदुदित्युदिव श्लेषयति ८ तद्यदेकमेवाभिसम्पद्यते तस्मादेकवीरः एको ह तु सन्वीरो वीर्यवान्भवति आ हास्यैको वीरो वीर्यवान्जायते य एवं वेद ९
तदु होवाच शाट्यायनिर्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यं बहवो ह्येत आदित्यस्य रश्मयस्तेऽस्य पुत्राः तस्माद्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यमिति तृतीयेऽनुवाके तृतीयः खण्डः

१०

तृतीयोऽनुवाकस्समाप्तः