०१

[[खण्डः]]

अथ द्वितीयोऽ ध्यायः

देवानां वै षडुद्गातार आसन्वाक्च मनश्च चक्षुश्च श्रोत्रं चापानश्च प्राणश्च १
तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २
तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ते वाचोद्गात्रादीक्षन्त स यदेव वाचा वदति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ३
ताम्पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ४
तेऽब्रुवन्न वै नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् मनसोद्गात्रा दिक्षामहा इति ५ ते मनसोद्गात्रादीक्षन्त स यदेव मनसा ध्यायति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ६
तत्पाप्मान्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ७
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ८ ते चक्षुषोद्गात्रादीक्षन्त स यदेव चक्षुषा पश्यति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ९
तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापम्पश्यति स एव स पाप्मा १०
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति ११
ते श्रोत्रेणोद्गात्रादीक्षन्त स यदेव श्रोत्रेण शृणोति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १२ तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १३
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् अपानेनोद्गात्रा दीक्षामहा इति १४ तेऽपानेनोद्गात्रादीक्षन्त स यदेवापानेनापानिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १५
तम्पाप्मान्वसृज्यत स यदेवापानेन पापं गन्धमपानिति स एव स पाप्मा १६
तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १७
ते प्राणेनोद्गात्रादीक्षन्त स यदेव प्राणेन प्राणिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १८
तम्पाप्मा नान्वसृज्यत न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापम्पश्यति न पापं शृणोति न पापं गन्धमपानिति १९
तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायनपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २०

प्रथमेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

सा या सा वागासीत्सोऽग्निरभवत् १
अथ यत्तन्मन आसीत्स चन्द्र मा अभवत् २
अथ यत्तच्चक्षुरासीत्स आदित्योऽभवत् ३
अथ यत्तच्छ्रोत्रमासीत्ता इमा दिशोऽभवन्ता उ एव विश्वे देवाः ४
अथ यस्सोऽपान आसीत्स बृहस्पति-रभवत् यदस्यै वाचो बृहत्यै पतिस्तस्माद्बृहस्पतिः ५
अथ यस्स प्राण आसीत्स प्रजापतिरभवत् स एष पुत्री प्रजावानुद्गीथो यः प्राणः तस्य स्वर एव प्रजाः प्रजावान्भवति य एवं वेद ६
तं हैतमेके प्रत्यक्षमेव गायन्ति प्राणा३
प्राणा३
प्राणा३
हुम्भा ओवा इति ७
तदु होवाच शाट्यायनिस्तत एतमर्हति प्रत्यक्षं गातुं यद्वाव वाचा करोति तदेतदेवास्य कृतम्भवतीति ८
अथ वा अत ऋक्सा-म्नोरेव प्रजातिः स यद्धिङ्करोत्यभ्येव तेन क्रन्दति अथ यत्प्रस्तौत्यैव तेन प्लवते अथ यदादिमादत्ते रेत एव तेन सिञ्चति अथ यदुद्गायति रेत एव तेन सिक्तं सम्भावयति अथ यत्प्रतिहरति रेत एव तेन सम्भूतम्प्रवर्धयति अथ यदुपद्र वति रेत एव तेन प्रवृद्धं विकरोति अथ यन्निधनमुपैति रेत एव तेन विकृतम्प्रजनयति सैषर्क्साम्नोः प्रजातिः ९
स य एवमेतामृक्साम्नोः प्रजातिं वेद प्र हैनमृक्सामनी

जनयतः १०

प्रथमेऽनुवाके द्वितीयः खण्डः

प्रथमोऽनुवाकस्समाप्तः