[[खण्डः]]
आपो वा इदमग्रे महत्सलिलमासीत् स ऊर्मिरूर्मिमस्कन्दत्ततो हिरण्मयौ
कुक्ष्यौ समभवतां ते एवर्क्सामे १
सेयमृगिदं सामाभ्यप्लवत
तामपृच्छत्का त्वमसीति साहमस्मीत्यब्रवीत् अथ वा अहममोऽस्मीति तद्यत्सा
चामश्च तत्साम्नस्सामत्वम् २
तौ वै सम्भवावेति नेत्यब्रवीत्स्वसा वै मम
त्वमसि अन्यत्र मिथुनमिच्छस्वेति ३
सा पराप्लवत मिथुनमिच्छमाना सा
समा-स्सहस्रं सप्ततीः पर्यप्लवत ४
तदेष श्लोकस्स्त्री
स्मैवाग्रे सञ्चरतीच्छन्ती सलिले पतिं समास्सहस्रं
सप्ततीस्ततोऽजायत पश्यत इति ५
असौ वा
आदि-त्यः पश्यतः एष एव तदजायत एतेन हि पश्यति ६
सावित्त्वा
न्यप्लवत साब्रवीन्न वै तं विन्दामि येन सम्भवेयं त्वयैव
सम्भवानीति ७
सा वै द्वि-तीयामिच्छस्वेत्यब्रवीन्न वै
मैकोद्यंस्यसीति सा द्वितीयां वित्त्वा न्यप्लवत ८
तृतीयामिच्छस्वैवेत्यब्रवीन्नो
वाव मा द्वे उद्यंस्यथ इति सा तृतीयां वित्त्वा न्यप्लवत सोऽब्रवीदत्र वै
मोद्यंस्यथेति ९
स यदेकयाग्रे समवदत तस्मादेकर्चे साम अथ यद्द्वे
अपासेधत्तस्माद्द्वयोर्न कुर्वन्ति अथ यत्तिषृभिस्समपादयत्तस्मादु तृचे साम १०
ता अब्रवीत्पुनीध्वं न पूता वै स्थेति ११
५६
अष्टादशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
सा गायत्री गाथयापुनीत नाराशंस्या त्रिष्टुब् रैभ्या जगती भीमम्बत
मलमपावधिषतेति तस्माद्भीमला धियो वा एताः धियो वा इमा
मलमपावधिषतेति तस्मादु भीमलाः तस्मादु गायतां नाश्नीयात् मलेन ह्येते
जीवन्ति १
अथर्क्सामाब्रवीद्बहु वै किं च किं च पुमांश्चरति
त्वमनुपुनीष्वेति स ऊर्ध्वगणेनापुनीत २
पूतानि ह वा अस्य सामानि पूता ऋचः पूतानि यजूंषि पूतमनूक्तम्पूतं
सर्वम्भवति य एवं वेद ३
ताभ्यां दिशो मिथुनाय पर्यौहन्तां
सम्भविष्यन्नह्वयतामोऽहमस्मि सा त्वं सा
त्वमस्यमोऽहमिति ४
तामेतदुभयतो वाचात्यरिच्यत हिङ्कारेण पुरस्तात्स्तोभेन
मध्यतो निधनेनोपरिष्टात् अति तिस्रो ब्राह्मणायनीस्सदृशी रिच्यते य एवं
वेद ५
तयोर्यस्सम्भवतोरूर्ध्वश्शूषोऽद्र वत् प्राणास्ते ते प्राणा
एवोर्ध्वा अद्र वन्! ६
सोऽसावादित्यस्स एष एव उदग्निरेव
गी चन्द्र मा एव थं सामान्येव उदृच एव गी यजूंष्येव थमित्यधिदेवतम् ७
अथाध्यात्मं प्राण एव उद्वागेव गी मन एव थं स एषोऽधिदेवतं
चाध्यात्मं चोद्गीथः ८
स य एवमेतदधिदेवतं चाध्यात्मं चोद्गीथं
वेदैतेन हास्य सर्वेणोद्गीतम्भवत्येतस्मादु एव सर्वस्मादावृश्च्यते य एवं विद्वांसमुपवदति ९
५७
अष्टादशेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
तद्यदिदमाहुः क उदगासीरिति क एतमादित्यमगासीरिति ह वा एतत्पृच्छन्ति १
एतं
ह वा एतं त्रय्या विद्यया गायन्ति यथा वीणागाथिनो गापयेयुरेवम् २
स एष
ह्रदः कामानाम्पूर्णो यन्मनः तस्यैषा कुल्या यद्वाक् ३
तद्यथा वा अपो
ह्रदात्कुल्ययोपरामुपनयन्त्येवमेवैतन्मनसोऽधि वाचोद्गाता यजमानम्यस्य
कामान्प्रयच्छति ४
स य उद्गातारं दक्षिणाभिराराधयति तं सा
कुल्योपधावति य उ एनं नाराधयति स उ तामपिहन्ति ५
अथ वा अतः
प्रत्तिश्चैव प्रतिग्रहश्च तद्धूममिति वै प्रदीयते तद्वाचा
यजमानाय प्रदेयम्मनसात्मने तथा ह सर्वं न प्रयच्छति ६
तद्यदिदं
सम्भवतो रेतोऽसिच्यत तदशयत् यथा हिरण्यमविकृतं लेलायदेवम् ७
तस्य
सर्वे देवा ममत्विन आसन्मम ममेति तेऽब्रुवन्वीदं करवामहा इति
तेऽब्रुवञ्छ्रेयो वा इदमस्मत् आत्मभिरेवैनद्विकरवामहा
इति ८
तदात्मभिरेव व्यकुर्वत तेषां वायुरेव हिङ्कार आसाग्निः प्रस्ताव
इन्द्र आ-दिस्सोमबृहस्पती उद्गीथोऽश्विनौ प्रतिहारो विश्वे देवा
उपद्र वः प्रजापतिरेव निधनम् ९
एता वै सर्वा देवता एता
हिरण्यमस्य सर्वाभिर्देवताभिस्स्तुतम्भ-वति य एवं वेद
एताभ्य उ एव स सर्वाभ्यो देवताभ्य आवृश्च्यते य एवं
विद्वांसमुपवदति १०
५८
अष्टादशेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
अथ ह ब्रह्मदत्तश्चैकितानेयः कुरुं जगामाभिप्रतारिणं काक्षसेनिं स हास्मै
मधुपर्कं ययाच १
अथ हास्य वै प्रपद्य पुरोहितोऽन्ते निषसाद शौनकः तं
हानामन्त्र्! य मधुपर्कम्पपौ २
तं होवाच किं विद्वान्नो
दाल्भ्यानामन्त्र्! य मधुपर्कम्पिबसीति
सामवैर्यम्प्रपद्येति होवाच ३
तं ह तत्रैव पप्रच्छ
यद्वायौ तद्वेत्था३
इति हिङ्कारो वा अस्य स इति ४
यदग्नौ
तद्वेत्था३
इति प्रस्तावो वा अस्य स इति ५
यदिन्द्रे
तद्वेत्था३
इति आदिर्वा अस्य स इति ६
यत्सोमबृहस्पत्योस्तद्वेत्था३
इति
उद्गीथो वा अस्य स इति ७
यदश्विनोस्तद्वेत्था३
इति प्रतिहारो वा अस्य स इति
८
यद्विश्वेषु देवेषु तद्वेत्था३
इति उपद्र वो वा अस्य स इति ९
यत्प्रजा-पतौ तद्वेत्था३
इति निधनं वा अस्य तदिति
होवाच आर्षेयं वा अस्य तद्बन्धुता वा अस्य सेति १०
स होवाच
नमस्तेऽस्तु भगवो विद्वानपा मधुपर्कमिति ११
अथ हेतरः
पप्रच्छ किन्देवत्यं सामवैर्यम्प्रपद्येति यद्देवत्यासु स्तुवत इति
होवाच तद्देवत्यमिति १२
तदेतत्साध्वेव प्रत्युक्तं व्याप्तिर्वा
अस्यैषेति होवाच ब्रूह्येवेति मेदं ते नमोऽकर्मेति होवाच मैव
नोऽतिप्राक्षीरिति १३
स होवाचाप्रक्ष्यं वाव त्वा
देवतामप्रक्ष्यं वाव त्वा देवतायै देवताः वाग्देवत्यं साम वाचो मनो देवता
मनसः पशवः पशूनामोषधय ओषधीनामापः तदेतदद्भ्यो जातं सामाप्सु
प्रतिष्ठितमिति १४
५९
अष्टादशेऽनुवाके चतुर्थः खण्डः
[[खण्डः]]
देवासुरा अस्पर्धन्त ते देवा मनसोदगायन्तदेषामसुरा अभिद्रुत्य पाप्मना
समसृजन्तस्माद्बहु किं च किं च मनसा ध्यायति पुण्यं चैनेन
ध्यायति पापं च १
ते वाचोदगायन्तां तथैवाकुर्वन्तस्माद्बहु
किं च किं च वाचा वदति सत्यं चैनया वदत्यनृतं च २
ते
चक्षुषोदगायन्तत्तथैवाकुर्वन्तस्माद्बहु
किं च किं च चक्षुषा पश्यति दर्शनीयं चैनेन पश्यत्यदर्शनीयं च ३
ते
श्रोत्रेणोद-गायन्तत्तथैवाकुर्वन्तस्माद्बहु किं च किं च
श्रोत्रेण शृणोति श्रवणीयं चैनेन शृणोत्यश्रवणीयं च ४
तेऽपानेनोदगायन्तं
तथैवाकुर्वन्तस्माद्बहु किं च
किं चापानेन जिघ्रति सुरभि चैनेन जिघ्रति दुर्गन्धि च ५
ते
प्राणेनोदगायनथा-सुरा आद्र वंस्तथा करिष्याम इति
मन्यमानाः ६
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवमेवासुरा व्यध्वंसन्त
स एषोऽश्माखणं यत्प्राणः ७
स यथाश्मान-माखणमृत्वा लोष्टो विध्वंसत एवमेव
स विध्वंसते य एवं विद्वांसमुपवदति
८
६०
अष्टादशेऽनुवाके पञ्चमः खण्डः
अष्टादशोऽनुवाकस्समाप्तः
इति प्रथमोऽध्यायः