[[खण्डः]]
द्वयं वावेदमग्र आसीत्सच्चैवासच्च १
तयोर्यत्सत्तत्साम तन्मनस्स प्राणः अथ
यदसत्सर्क्सा वाक्सोऽपानः २
तद्यन्मनश्च प्राणश्च तत्समानमथ या
वाक्चा-पानश्च तत्समानमिदमायतनम्मनश्च प्राणश्चेदमायतनं
वाक्चापानश्च तस्मा-त्पुमान्दक्षिणतो योषामुपशेते ३
सेयमृगस्मिन्सामन्मिथुनमैच्छत
तामपृच्छत्का त्वमसीति साहमस्मीत्यब्रवीत् अथ वा अहममोऽस्मीति ४
तद्यत्सा चामश्च तत्सामाभवत्तत्साम्नस्सामत्वम् ५
तौ वै
सम्भवावेति नेत्यब्रवीत्स्वसा वै मम त्वमस्यन्यत्र
मिथुनमिच्छस्वेति ६
साब्रवीन्न वै तं विन्दामि
येन सम्भवेयं त्वयैव सम्भवानीति सा वै पुनीष्वेत्यब्रवीत् अपूता वा असीति ७
सापुनीत यदिदं विप्रा वदन्ति तेन साब्रवीत्क्वेदम्भविष्यतीति
प्रत्यूहेत्यब्रवीत् धीर्वा एषा प्रजानां
जीवनं वा एतद्भविष्यतीति तथेति तत्प्रत्यौहत्तस्मादेषा धीरेव
प्रजानां जीवनमेव ८
पुनीष्वेत्यब्रवीत् सापुनीत गाथया सापुनीत
कुम्ब्यया सापुनीत नाराशंस्या सापुनीत पुराणेतिहासेन सापुनीत
यदिदमादाय नागायन्ति तेन ९
साब्रवीत्क्वेदम्भविष्यतीति
प्रत्यूहेत्यब्रवीत् धीर्वा एषा प्रजानां जीवनं वा
एतद्भविष्यतीति तथेति तत्प्रत्यौहत्तस्मादेषा धीर्वेव प्रजानां जीवनम्वेव
१०
पुनीष्वैवेत्यब्रवीत् ११
५३
सप्तदशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
सा मधुनापुनीत तस्मादुत ब्रह्मचारी मधु नाश्नीयाद्वेदस्य पलाव इति कामं ह
त्वाचार्यदत्तमश्नीयात् १
अथर्क्सामाब्रवीद्बहु वै किं च किं च
पुमांश्चरति त्वमनुपुनीष्वेति स भरण्डकेष्णेनापुनीत पूतानि
ह वा अस्य सामानि पूता ऋचः पूतानि यजूंषि पूतमनूक्तम्पूतं सर्वम्भवति य एवं
वेद २
ताभ्यां सदो मिथुनाय पर्यश्रयन्तस्मादुपवसथीयां रात्रिं सदसि न शयीत
अत्र ह्येतावृक्सामे उपवसथीयां रात्रिं सदसि सम्भवतः स यथा श्रेयस उपद्र
ष्टैवं हि शश्व-दीश्वरोऽनुलब्धः पराभवितोः ३
अथो आहुरुद्गातुर्मुखे
सम्भवतः उद्गातुरेव मुखं नेक्षेतेति ४
तदु वा आहुः
काममेवोद्गातुर्मुखमीक्षेत उपवसथीयामेवैतां
रात्रिं सदसि न शयीत अत्र ह्येवैतावृक्सामे उपवसथीयां
रात्रिं सदसि सम्भवत इति ५
तां सम्भविष्यन्नाहामोऽहमस्मि सा
त्वं सा त्वमस्यमोऽहं सा मामनुव्रता भूत्वा प्रजाः प्रजनयावहै एहि
सम्भवावहा इति ६
तां सम्भवन्नत्यरिच्यत सो-ऽब्रवीन्न वै
त्वानुभवामि विराड्भूत्वा प्रजनयारेति तथेति ७
तौ विराड्भूत्वा
प्राजनयतां हिङ्कारश्चाहावश्च प्रस्तावश्च प्रथमा चोद्गीथश्च मध्यमा च
प्रति-हारश्चोत्तमा च निधनं च वषट्कारश्चैवं विराड्भूत्वा प्राजनयतां ते
अमुमजनयतां
योऽसौ तपति ते व्यद्र वताम् ८
५४
सप्तदशेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
मदध्यभू३न्मदध्यभू३दिति तस्मादाहुर्मधुपुत्र इति १
तस्मादुत स्त्रियो मधु
ना-श्नन्ति पुत्राणामिदं व्रतं चराम इति वदन्तीः २
तदयं तृचोऽनूदश्रयत
इयमेव गायत्र्! यन्तरिक्षं त्रिष्टुब् असौ जगती तस्यैतत्तृचः ३
स
उपरिष्टात्सामाध्याहितं तपति सोऽध्रुव इवासीदलेलायदिव स
नोर्ध्वोऽतपत् ४
स देवानब्रवीदुन्मा गायतेति किं ततस्स्यादिति
श्रियं वः प्रयच्छेयम्मामिह दृंहेतेति ५
तथेति
तमुदगायन्तमेतदत्रादृंहन्तेभ्यश्श्रियम्प्रायच्छत्
सैषा देवानां श्रीः ६
तत एतदूर्ध्वस्तपति स नार्वाङतपत् ७
स ऋषीनब्रवीदनु
मा गायतेति किं तत-स्स्यादिति श्रियं वः प्रयच्छेयम्मामिह दृंहेतेति ८
तथेति तमन्वगाय-न्तमेतदत्रादृंहन्तेभ्यश्श्रियम्प्रायच्छत् सैषर्षीणां
श्रीः ९
तत एतदर्वाङ्तपति स न तिर्यङ्ङतपत् १०
स
गन्धर्वाप्सरसोऽब्रवीदा मा
गायतेति किं ततस्स्यादिति श्रियं वः प्रयच्छेयम्मामिह
दृंहेतेति ११
तथेति
तमागायन्तमेतदत्रादृंहन्तेभ्य-श्श्रियम्प्रायच्छत्
सैषा गन्धर्वाप्सरसां श्रीः १२
तत एतत्तिर्यङ्तपति १३
तानि वा एतानि त्रीणि
साम्न उद्गीतमनुगीतमागीतं तद्यथेदं वयमागायोद्गायाम एतदुद्गीतमथ यद्यथागीतं
तदनुगीतमथ यत्किं चेति साम्नस्तदागीतमेतानि ह्येव
त्रीणि साम्नः १४
५५
सप्तदशेऽनुवाके तृतीयः खण्डः
सप्तदशोऽनुवाकस्समाप्तः