[[खण्डः]]
देवा वै विजिग्याना अब्रुवन्द्वितीयं करवामहै माद्वितीया भूमेति
तेऽब्रुवन्सामैव द्वितीयं करवामहै सामैव नो
द्वितीयमस्त्विति १
त इमे द्यावापृथिवी अब्रुवन्समेतं
साम प्रजनयतमिति २
सोऽसावस्या अबीभत्सत सोऽब्रवीद्बहु वा एतस्यां किं
च किं च कुर्वन्त्यधिष्ठीवन्त्यधिचरन्त्यध्यासते पुनीत न्वेनाम-पूता वा इति
३
ते गाथामब्रुवन्त्वया पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति
ते गाथयापुनन्तस्मादुत गाथया शतं सुनोति ४
ते कुम्ब्या-मब्रुवन्त्वया
पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति ते
कुम्ब्ययापुनन्तस्मादुत कुम्ब्यया शतं
सुनोति ५
ते नाराशंसीमब्रुवन्त्वय पुनामेति किं ततस्स्यादिति शतसनिस्स्या
इति तथेति ते नाराशंस्या-पुनन्तस्मादुत नाराशंस्या शतं सुनोति ६
ते
रैभीमब्रुवन्त्वया पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति
तथेति ते रैभ्यापुनन्तस्मादुत रैभ्या शतं सुनोति ७
सेयम्पूता
अथामुमब्रवीद्बहु वै किं च किं च पुमांश्चरति त्वमनुपुनीष्वेति ८
५०
षोडशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
स ऐलबेनापुनीत पूतानि ह वा अस्य सामानि पूता ऋचः पूतानि यजूंसि
पूतमनूक्तम्पूतं सर्वम्भवति य एवं वेद १
ते समेत्य
साम प्राजनयतां तद्यत्समेत्य साम प्राजनयतां तत्साम्नस्सामत्वम् २
तदिदं
साम सृष्टमद उत्क्रम्य लेला-यदतिष्ठत्तस्य सर्वे देवा ममत्विन आसन्मम
ममेति ३
तेऽब्रुवन्वीदम्भजामहा इति तस्य विभागे न
समपादयन्तान्प्रजापतिरब्रवीदपेत
मम वा एतत् अहमेव वो विभक्ष्यामीति ४
सोऽग्निमब्रवीत्त्वं वै मे ज्येष्ठः
पुत्राणामसि त्वम्प्रथमो वृणीष्वेति ५
सोऽब्रवीन्मन्द्रं साम्नो
वृणेऽन्नाद्यमिति स य एतद्गायादन्नाद एव सोऽसन्मामु स
देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति ६
अथे-न्द्र मब्रवीत्त्वमनुवृणीष्वेति ७
सोऽब्रवीदुग्रं साम्नो
वृणे श्रियमिति स य एतद्गा-याच्छ्रीमानेव सोऽसन्मामु स देवानामृच्छाद्य
एवं विद्वांसमेतद्गायन्तमु-पवदादिति ८
अथ सोममब्रवीत्त्वमनुवृणीष्वेति ९
सोऽब्रवीद्वल्गु साम्नो वृणे प्रियमिति स य एतद्गायात्प्रिय एव स
कीर्तेः प्रियश्चक्षुषः प्रियस्सर्वेषा-मसन्मामु स देवानामृच्छाद्य
एवं विद्वांसमेतद्गायन्तमुपवदादिति १०
अथ बृहस्पतिमब्रवीत्त्वमनुवृणीष्वेति
११
सोऽब्रवीत्क्रौञ्चं साम्नो वृणे ब्रह्मवर्चस-मिति स य
एतद्गायाद्ब्रह्मवर्चस्येव सोऽसन्मामु
स देवानामृच्छाद्य एवं
विद्वांसमेतद्गायन्तमुपवदादिति १२
५१
षोडशेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
अथ विश्वान्देवानब्रवीद्यूयमनुवृणीध्वमिति १
तेऽब्रुवन्वैश्वदेवं साम्नो
वृणीमहे प्रजननमिति स य एतद्गायात्प्रजावानेव सोऽसदस्मानु
देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति
२
अथ पशूनब्रवीद्यूयमनुवृणीध्वमिति ३
तेऽब्रुवन्वायुर्वा अस्माकमीशे स एव
नो वरिष्यत इति ते वायुश्च पशव-श्चाब्रुवन्निरुक्तं साम्नो वृणीमहे
पशव्यमिति स य एतद्गायात्पशुमानेव सोऽसदस्मानु च स वायुं च
देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपव-दादिति ४
अथ
प्रजापतिरब्रवीदहमनुवरिष्य इति ५
सोऽब्रवीदनिरुक्तं साम्नो वृणे स्वर्ग्यमिति स य
एतद्गायात्स्वर्गलोक एव सोऽसन्मामु स
देवानामृच्छाद्य एवं
विद्वांसमेतद्गायन्तमुपवदादिति
६
अथ वरुणमब्रवीत्त्वमनुवृणीष्वेति ७
सोऽब्रवीद्यद्वो न कश् चनावृत
तदहम्परिहरिष्य इति किमिति अपध्वान्तं साम्नो
वृणेऽपशव्यमिति स य एतद्गायादपशुरेव सोऽसन्मामु स
देवानामृच्छाद्य एतद्गायादिति ८
तानि वा एतान्यष्टौ गीतागीतानि
साम्नः इमान्यु ह वै सप्त गीतानि अथेयमेव वारुण्यागागीता ९
स
यां ह कां चैवं विद्वानेतासां सप्ताना-मागानां गायति गीतमेवास्य
भवत्येतानु कामान्राध्नोति य एतासु कामाः
अथेमामेव वारुणीमागां न गायेत् १०
५२
षोडशेऽनुवाके तृतीयः खण्डः
षोडशोऽनुवाकस्समाप्तः