१५

[[खण्डः]]

प्रजापतिर्वा वेद अग्र आसीत् सोऽकामयत बहुस्स्याम्प्रजायेय भूमानं गच्छे-यमिति १
स षोडशधात्मानं व्यकुरुत भद्रं च समाप्तिश्चाभूतिश्च सम्भूतिश्च भूतं च सर्वं च रूपं चापरिमितं च श्रीश्च यशश्च नाम चाग्रं च सजाताश्च पयश्च महीया च रसश्च २ तद्यद्भद्रं हृदयमस्य तत्ततस्संवत्सरमसृजत तदस्य संवत्स-रोऽनूपतिष्ठते ३ समाप्तिः कर्मास्य तत् कर्मणा हि समाप्नोति तत ऋतूनसृजत तदस्य र्तवोऽनूपतिष्ठन्ते ४
आभूतिरन्नमस्य तत् तच्चतुर्धा भवति ततो मासा-नर्धमासानहोरात्राण्युषसोऽसृजत तदस्य मासा अर्धमासा अहोरात्राण्युषसोऽनूपतिष्ठन्ते ५
सम्भूती रेतोऽस्य तद् रेतसो हि सम्भवति ६
४६

पञ्चदशेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

ततश्चन्द्र मसमसृजत तदस्य चन्द्र मा अनूपतिष्ठते तस्मात्स रेतसः प्रतिरूपः १
भूतम्प्राणोऽस्य सः ततो वायुमसृजत तदस्य वायुरनूपतिष्ठते २ सर्वमपानोऽस्य सः ततः पशूनसृजत तदस्य पशवोऽनूपतिष्ठन्ते ३
रूपं व्यानोऽस्य सः ततः प्रजा असृजत तदस्य प्रजा अनूपतिष्ठन्ते तस्मादासु प्रजासु रूपाण्यधिगम्यन्ते ४
अपरिमितम्मनोऽस्य तत्ततो दिशोऽसृजत तदस्य दिशोऽनूपतिष्ठन्ते तस्मात्ता अपरिमिताः अपरिमितमिव हि मनः ५ श्रीर्वागस्य सा ततस्समुद्र मसृजत तदस्य समुद्रो ऽनूपतिष्ठते ६
यशस्तपोऽस्य तत्ततोऽग्निमसृजत तदस्याग्निरनू-पतिष्ठते तस्मात्स मथितादिव सन्तप्तादिव जायते ७
नाम चक्षुरस्य तत् ८

४७

पञ्चदशेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

तत आदित्यमसृजत तदस्यादित्योऽनूपतिष्ठते १
अग्रम्मूर्धास्य सः ततो दिवमसृजत तदस्य द्यौरनूपतिष्ठते २
सजाता अङ्गान्यस्य तानि अङ्गैर्हि सह जायते ततो वनस्पतीनसृजत तदस्य वनस्पतयोऽनूपतिष्ठन्ते ३
पयो लोमान्यस्य तानि तत ओषधीरसृजत तदस्यौषधयोऽनूपतिष्ठन्ते ४
महीया मांसान्यस्य तानि मांसैर्हि सह महीयते ततो वयांस्यसृजत तदस्य वयांस्यनूपतिष्ठन्ते तस्मात्तानि प्रपतिष्णूनि प्रपतिष्णूनीव महामांसानि ५
रसो मज्जास्य सः ततः पृथिवीमसृजत तदस्य पृथिव्यनूपतिष्ठते ६
स हैवं षोडशधात्मानं विकृत्य सार्धं समैत्तद्यत्सार्धं समैतत्तत्साम्नस्सामत्वम् ७
स एवैष हिरण्मयः पुरुष

उदतिष्ठत्प्रजानां जनिता ८
४८

पञ्चदशेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

देवासुरा अस्पर्धन्त ते देवाः प्रजापतिमुपाधावञ्जयामासुरानिति १ सोऽब्रवीन्न वै मां यूयं वित्थ नासुराः यद्वै मां यूयं विद्यात ततो वै यूयमेव स्यात परासुरा भवेयुरिति २
तद्वै ब्रूहीत्यब्रुवन्सोऽब्रवीत्पुरुषः प्रजापतिस्सामेति मोपाद्ध्वं ततो वै यूयमेव भविष्यथ परासुरा भविष्यन्तीति ३ तम्पुरुषः प्रजापतिस्सा-मेत्युपासत ततो वै देवा अभवन्परासुराः स यो हैवं विद्वान्पुरुषः प्रजापतिस्सामेत्युपास्ते भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति ४
४९

पञ्चदशेऽनुवाके चतुर्थः खण्डः

पञ्चदशोऽनुवाकस्समाप्तः