[[खण्डः]]
आरुणिर्ह वासिष्ठं चैकितानेयम्ब्रह्मचर्यमुपेयाय तं होवाचाजानासि सौम्य
गौतम यदिदं वयं चैकितानेयास्सामैवोपास्महे कां त्वं देवतामुपास्स
इति सामैव भगवन्त इति होवाच १
तं ह पप्रच्छ यदग्नौ तद्वेत्था३
इति
ज्योतिर्वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति २
यत्पृथिव्यां तद्वेत्था३
इति प्रतिष्ठा वा एषा
तस्य साम्नो यद्वयं सामोपास्मह इति ३
यदप्सु तद्वेत्था३
इति
शान्तिर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ४
यदन्तरिक्षे तद्वेत्था३
इति आत्मा वा एष तस्य साम्नो
यद्वयं सामोपास्मह इति ५
यद्वायौ तद्वेत्था३
इति श्रीर्वा एषा
तस्य साम्नो यद्वयं सामोपास्मह इति ६
यद्दिक्षु तद्वेत्था३
इति
व्याप्तिर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ७
यद्दिवि तद्वेत्था३
इति विभूतिर्वा
एषा तस्य साम्नो यद्वयं सामोपास्मह इति ८
४२
चतुर्दशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
यदादित्ये तद्वेत्था३
इति तेजो वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति १
यच्चन्द्र मसि तद्वेत्था३
इति भा वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति
२
यन्नक्षत्रेषु तद्वेत्था३
इति प्रज्ञा वा एषा तस्य साम्नो यद्वयं
सामोपास्मह इति ३
यदन्ने तद्वेत्था३
इति रेतो वा एतत्तस्य
साम्नो यद्वयं सामोपास्मह इति ४
यत्पशुषु तद्वेत्था३
इति यशो वा एतत्तस्य
साम्नो यद्वयं सामोपास्मह इति ५
यदृचि तद्वेत्था३
इति स्तोमो वा एष तस्य
साम्नो यद्वयं सामोपास्मह इति ६
यद्यजुषि तद्वेत्था३
इति कर्म वा
एतत्तस्य साम्नो यद्वयं सामोपास्मह इति ७
अथ कि-मुपास्स इति
अक्षरमिति कतमत्तदक्षरमिति यत्क्षरन्नाक्षीयतेति
कतम-त्तत्क्षरन्नाक्षीयतेति इन्द्र इति ८
कतमस्स
इन्द्र इति योऽक्षन्रमत इति कतमस्स योऽक्षन्रमत इति इयं देवतेति
होवाच ९
योऽयं चक्षुषि पुरुष एष इन्द्र एष प्रजापतिः स समः पृथिव्या
सम आकाशेन समो दिवा समस्सर्वेण भूतेन एष परो दिवो दीप्यते एष एवेदं
सर्वमित्युपासितव्यः १०
स य एतदेवं वेद
ज्योतिष्मान्प्रतिष्ठावाञ्छान्तिमानात्मवाञ्छ्रीमान्व्याप्तिमान्विभूतिमांस्तेजस्वी
भावान्प्रज्ञावान्रेतस्वी यशस्वी स्तोमवान्कर्मवानक्षरवानिन्द्रि
यवान्सामन्वी
भवति ११
तद्वेतदृचाभ्यनूच्यते १२
४३
चतुर्दशमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
रूपंरूपम्प्रतिरूपो बभूव तदस्य रूपम्प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप
ईयते युक्ता ह्यस्य हरयश्शता दशेति १
रूपंरूपम्प्रतिरूपो बभूवेति
रूपंरूपं ह्येष प्रतिरूपो बभूव २
तदस्य
रूपम्प्रतिचक्षणायेति प्रतिचक्षणाय
हास्यैतद्रू पम् ३
इन्द्रो मायाभिः पुरुरूप ईयत इति मायाभिर्ह्येष
एतत्पुरुरूप ईयते ४
युक्ता ह्यस्य हरयश्शता दशेति सहस्रं हैत
आदित्यस्य रश्मयः तेऽस्य युक्तास्तैरिदं सर्वं हरति तद्यदेतैरिदं सर्वं
हरति तस्माद्धरयः ५
रूपंरूपम्मघवा बोभवीति मायाः कृण्वानः परि
तन्वं स्वां त्रिर्यद्दिवः परि
मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा
ऋतावेति ६
रूपंरूपम्मघवा बोभवीतीति रूपंरूपं ह्येष मघवा बोभवीति ७
मायाः
कृण्वानः परि तन्वं स्वामिति मायाभिर्ह्येष एतत्स्वां तनुं गोपायति ८
त्रिर्यद्दिवः परि मुहूर्तमागादिति त्रिर्ह वा एष एतस्य
मुहूर्तस्येमाम्पृथिवीं समन्तः
पर्येतीमाः प्रजास्सञ्चक्षाणः ९
स्वैर्मन्त्रैरनृतुपा ऋतावेति
अनृतुपा ह्येष एतदृतावा
१०
४४
चतुर्दशेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
तद्ध पृथुर्वैन्यो दिव्यान्व्रात्यान्पप्रच्छे इन्द्र
मुक्थमृचमुद्गीथमाहुर्ब्रह्म
साम प्राणं व्यानम्मनो वा चक्षुरपानमाहुश्श्रोत्रं श्रोत्रिया बहुधा
वदन्तीति १
ते प्रत्यू-चुरृषय एते मन्त्रकृतः पुराजाः पुनराजायन्ते
वेदानां गुप्त्यै कं ते वै विद्वांसो वैन्य तद्वदन्ति
समानम्पुरुषम्बहुधा निविष्टमिति २
इमां ह वा तद्देवतां
त्रय्यां विद्यायामिमां समानामभ्येक आपयन्ति नैके यो ह वावैतदेवं वेद स
एवैतां देवतां सम्प्रति वेद ३
स एष इन्द्र उद्गीथः स यदैष इन्द्र उद्गीथ
आगच्छति नैवोद्गातुश्चोपगातॄणां च विज्ञायते इत एवोर्ध्वस्स्वरुदेति
स उपरि मूर्ध्नो लेलायति ४
स विद्यादागमदिन्द्रो नेह कश् चन पाप्मा
न्यङ्गः परिशेक्ष्यत इति तस्मिन्ह न कश् चन पाप्मा न्यङ्गः
परिशिष्यते ५
तदेतदभ्रातृव्यं साम न ह वा इन्द्रः! कं चन
भ्रातृव्यम्पश्यते स यथेन्द्रो न कं चन
भ्रातृव्यम्पश्यत एवमेव न
कं चन भ्रातृव्यम्पश्यते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ६
४५
चतुर्दशेऽनुवाके चतुर्थः खण्डः
चतुर्दशोऽनुवाकस्समाप्तः