[[खण्डः]]
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि
निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति १
वागेव साम वाचा हि
साम गायति वागेवोक्थं वाचा ह्युक्थं शंसति वागेव यजुः वाचा हि यजुरनुवर्तते
२
तद्यत्किं चार्वाचीनम्ब्रह्मणस्तद्वागेव सर्वमथ यदन्यत्र
ब्रह्मो-पदिश्यते नैव हि तेनार्त्विज्यं
करोति परोक्षेणैव तु कृतम्भवति ३
तस्या एतस्यै वाचो मनः
पादश्चक्षुः पादश्श्रोत्रम्पादो वागेव चतुर्थः पादः
४
तद्यद्वै मनसा ध्यायति तद्वाचा वदति यच्चक्षुषा पश्यति तद्वाचा वदति
यच्छ्रोत्रेण शृणोति तद्वाचा वदति ५
तद्यदेतत्सर्वं वाचमेवाभिसमयति
तस्माद्वागेव साम स ह वै सामवित्स साम वेद य एवं वेद ६
तस्या एतस्यै
वाचः प्राणा एवासुः
एषु हीदं सर्वमसूतेति ७
४०
त्रयोदशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
तेन हैतेनासुना देवा जीवन्ति पितरो जीवन्ति मनुष्या जीवन्ति पशवो जीवन्ति
गन्धर्वाप्सरसो जीवन्ति सर्वमिदं जीवति १
तदाहुर्यदसुनेदं सर्वं जीवति
कस्साम्नोऽसुरिति प्राण इति ब्रूयात् प्राणो ह वाव साम्नोऽसुः २
स एष
प्राणो वाचि प्रतिष्ठितो वागु प्राणे प्रतिष्ठिता
तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठितौ
प्रतितिष्ठति य एवं वेद ३
तदेतदृचाभ्यनूच्यतेऽदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता
स पिता स पुत्रः विश्वे देवा अदितिः पञ्च जना अदितिर्जात-मदितिर्जनित्वमिति
४
अदितिर्द्यौरदितिरन्तरिक्षमिति एषा वै द्यौरेषान्तरिक्षम् ५
अदितिर्माता
स पिता स पुत्र इति एषा वै मातैषा पितैषा पुत्रः ६
विश्वे देवा अदितिः
पञ्च जना इति ये देवा असुरेभ्यः पूर्वे पञ्च जना आसन्य
एवा-सावादित्ये पुरुषो यश्चन्द्र मसि यो
विद्युति योऽप्सु योऽयमक्षन्नन्तरेष एव ते तदे-षैव ७
अदितिर्जातमदितिर्जनित्वमिति एषा ह्येव जातमेषा जनित्वम् ८
४१
त्रयोदशेऽनुवाके द्वितीयः खण्डः
त्रयोदशोऽनुवाकस्समाप्तः