१२

[[खण्डः]]

अथैतत्साम तदाहुस्संवत्सर एव सामेति १
तस्य वसन्त एव हिङ्कारः तस्मा-त्पशवो वसन्ता हिङ्करिक्रतस्समुदायन्ति २
ग्रीष्मः प्रस्तावः अनिरुक्तो वै प्रस्तावोऽनिरुक्त ऋतूनां ग्रीष्मः ३
वर्षा उद्गीथः उदिव वै वर्षं गायति ४
शरत्प्रतिहारः शरदि ह खलु वै भूयिष्ठा ओषधयः पच्यन्ते ५
हेमन्तो निधनं निधनकृता इव वै हेमन्प्रजा भवन्ति ६
तावेतावन्तौ सन्धत्तः एतदन्वनन्त-स्संवत्सरः तस्यैतावन्तौ यद्धेमन्तश्च वसन्तश्च एतदनु ग्रामस्यान्तौ समेतः एतदनु निष्कस्यान्तौ समेतः एतदन्वहिर्भोगान्पर्याहृत्य शये ७
तद्यथा ह वै निष्क-स्समन्तं ग्रीवा अभिपर्यक्त एवमनन्तं साम स य एवमेतदनन्तं साम वेदानन्ततामेव जयति ८
३५

द्वादशेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

अथैतत्पर्जन्ये साम तस्य पुरोवात एव हिङ्कारः अथ यदभ्राणि सम्प्लावयति स प्रस्तावः अथ यत्स्तनयति स उद्गीथः अथ यद्विद्योतते स प्रतिहारः अथ यद्वर्षति तन्निधनम् १
तदेतत्पर्जन्ये साम स य एवमेतत्पर्जन्ये साम वेद वर्षुको हास्मै पर्जन्यो भवति २
अथैतत्पुरुषे साम तस्यायमेव हिङ्कारोऽयम्प्रस्ता-वोऽयमुद्गीथोऽयम्प्रतिहार इदं निधनम् ३
तदेतत्पुरुषे साम स य एवमेतत्पुरुषे साम वेदोर्ध्व एव प्रजया पशुभिरारोहन्नेति ४
य उ एनत्प्रत्यग्वेद ये प्रत्यञ्चो लोकास्ताञ्जयति तस्यायमेव हिङ्कारोऽयम्प्रस्तावोऽयमुद्गीथोऽयम्प्रतिहार इदं निधनं ये प्रत्यञ्चो लोकास्ताञ्जयति ५
य उ एनत्तिर्यग्वेद ये तिर्यञ्चो लोका-स्ताञ्जयति तस्य लोमैव हिङ्कारस्त्वक्प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनम् ६
तस्य त्रीण्याविर्गायति प्रस्तावम्प्रतिहारं निधनं तस्मात्पुरुषस्य त्रीण्यस्थीन्याविर्दन्ताश्च द्वयाश्च नखाः ये तिर्यञ्चो लोकास्ताञ्जयति ७
य उ एनत्सम्यग्वेद ये सम्यञ्चो लोकास्ताञ्जयति तस्य मन एव हिङ्कारो वाक्प्रस्तावः प्राण उद्गीथश्चक्षुः प्रतिहारश्श्रोत्रन्निधनं ये सम्यञ्चो लोकास्ताञ्जयति ८ अथै-तद्देवतासु साम तस्य वायुरेव हिङ्कारोऽग्निः प्रस्ताव आदित्य उद्गीथश्चन्द्र मा प्रतिहारो दिश एव निधनम् ९ तदेतद्देवतासु साम स य एवमेतद्देवतासु साम

वेद देवतानामेव सलोकतां जयति १०
३६

द्वादशेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

तस्यैतास्तिस्र आगा आग्नेय्येकैन्द्र् येका वैश्वदेव्येका १
सा या मन्द्रा साग्नेयी तया प्रातस्सवनस्योद्गेयमाग्नेयं वै प्रातस्सवनमाग्नेयोऽयं लोकः स्वयागया प्रातस्सवनस्योद्गायत्यृध्नोतीमं लोकम् २
अथ या घोषिण्युपब्दिमती सैन्द्री तया माध्यन्दिनस्य सवनस्योद्गेयमैन्द्रं वै माध्यन्दिनं सवनमैन्द्रो ऽसौ लोकः स्वयागया माध्यन्दिनस्य सवनस्योद्गायत्यृध्नोत्यमुं लोकम् ३
अथ यां वीङ्खय-न्निव प्रथयन्निव गायति सा वैश्वदेवी तया तृतीयसवनस्योद्गेयं वैश्वदेवं वै तृतीयसवनं वैश्वदेवोऽयमन्तरालोकः स्वयागया तृतीयसवनस्योद्गायत्यृध्नो-तीममन्तरालोकम् ४ अथो उच्चा खल्वाहुरेकयैवागयोद्गेयं यदेवास्य मध्यं वाच इति तद्यया वै वाचा व्यायच्छमान उद्गायति तदेवास्य मध्यं वाचः तया वा एतया वाचा सर्वा वाच उपगच्छति अव्यासिक्तामेकस्थां श्रियमृध्नोति य एवं वेद ५
अथ या क्रौञ्चा सा बार्हस्पत्या स यो ब्रह्मवर्चसकामस्स्यात्स तयोद्गायेत्तद्ब्रह्म वै बृहस्पतिः तद्वै ब्रह्मवर्चसमृध्नोति तथा ह ब्रह्मवर्चसी भवति ६
अथ ह चैकितानेय एकस्यैव साम्न आगां गायति गायत्रस्यैव तदनवानं गेयं तत्साम्न एवा प्रतिहारादनवानं गेयं तत्प्राणो वै गायत्रं तद्वै प्राणमृध्नोति तथा

ह सर्वमायुरेति ७
३७

द्वादशेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

अथ ह ब्रह्मदत्तं चैकितानेयमुद्गायन्तं कुरव उपोदुरुज्जहिहि साम दाल्भ्येति १
स होपोद्यमानो नितरां जगौ तं होचुः किमुपोद्यमानो नितरामगासीरिति २
स होवाचेदं वै लोमेत्येतदेवैतत्प्रत्युपशृण्मः तस्मादु ये न एतदुपावादिषुर्लोम-शानीव तेषां श्मशानानि भवितारः अथ वयमुदेव गातारस्स्म इति ३
अथ ह राजा जैवलिर्गळूनसमार्क्षाकायणं शामूलपर्णाभ्यामुत्थितम्पप्रच्छर्चागाता शालावत्या३
साम्ना३
इति ४ नैव राजन्नृचेति होवाच न साम्नेति तद्यूयं तर्हि सर्व एव पणाय्या भविष्यथ य एवं विद्वांसोऽगायतेति ५
अथ यद्धावक्ष्यदृचा च साम्ना चागामेति धीतेन वै तद्यातयाम्नामलाकाण्डेनागातेति हैनांस्तदवक्ष्यत्तद्ध तदुवाच स्वरेण चैव हिङ्कारेण चागामेति ६
३८

द्वादशेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

अथ ह सत्याधिवाकश् चैत्ररथिस्सत्ययज्ञम्पौलुषितमुवाच प्राचीनयोगेति मम चेद्वै त्वं साम विद्वान्साम्नार्त्विज्यं करिष्यसि नैव तर्हि पुनर्दीक्षामभिध्यातासीति मुहुर्दीक्षी ह्यास १
स होवाच यो वै साम्नश्श्रियं विद्वान्साम्नार्त्विज्यं करोति श्रीमानेव भवति मनो वाव साम्नश्श्रीरिति २
यो वै साम्नः प्रतिष्ठां विद्वान्साम्नार्त्विज्यं करोति प्रत्येव तिष्ठति वाग्वाव साम्नः प्रतिष्ठेति ३
यो वै साम्नस्सुवर्णं विद्वान्साम्नार्त्विज्यं करोत्यध्यस्य गृहे सुवर्णं गम्यते प्राणो वाव साम्नस्सुवर्णमिति ४
यो वै साम्नोऽपचितिं विद्वान्साम्नार्त्विज्यं करोत्यपचि-तिमानेव भवति चक्षुर्वाव साम्नोऽपचितिरिति ५
यो वै साम्नश्श्रुतिं विद्वान्साम्नार्त्विज्यं करोति श्रुतिमानेव भवति श्रोत्रं वाव साम्नश्श्रुतिरिति ६
३९

द्वादशेऽनुवाके चतुर्थः खण्डः

द्वादशोऽनुवाकस्समाप्तः