[[खण्डः]]
त्रिवृत्साम चतुष्पात् ब्रह्म तृतीयमिन्द्र
स्तृतीयम्प्रजापतिस्तृतीयमन्नमेव
चतुर्थः पादः १
तद्यद्वै ब्रह्म स प्राणोऽथ य इन्द्र स्सा वागथ यः
प्रजापतिस्तन्मनोऽन्नमेव चतुर्थः पादः २
मन एव हिङ्कारो
वाक्प्रस्तावः प्राण उद्गीथोऽन्नमेव चतुर्थः पादः ३
करोत्येव वाचा नयति
प्राणेन गमयति मनसा तदेतन्निरुद्धं यन्मनः तेन यत्र कामयते तदात्मानं च
यजमानं च दधाति ४
अथाधिदैवतं चन्द्र मा एव हिङ्कारोऽग्निः प्रस्ताव आदित्य
उद्गीथ आप एव चतुर्थः पादः तद्धि प्रत्य-क्षमन्नम् ५
ता वा एता देवता
अमावास्यां रात्रिं संयन्ति चन्द्र मा अमावास्यां
रात्रिमादित्यम्प्रविशत्यादित्योऽग्निम्
६
तद्यत्संयन्ति तस्मात्साम स ह वै सामवित्स साम वेद य एवं वेद ७
तासां वा
एतासां देवतानामेकैकैव देवता साम भवति ८
एष एवादित्यस्त्रिवृच्चतुष्पाद्र
श्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारः तस्मात्ते प्रथमत एवोद्यतस्तायन्ते
मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव चतुर्थः पादः ९
एवमेव चन्द्र मसो रश्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारो
मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव
चतुर्थः पादः १०
चत्वार्यन्यानि चत्वार्यन्यानि तान्यष्टौ अष्टाक्षरा
गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते अष्टाशफाः
पशवस्तेनो पशव्यम् ११
३३
एकादशेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
अथाध्यात्ममिदमेव चक्षुस्त्रिवृच्चतुष्पाच्छुक्लं कृष्णम्पुरुषः शुक्लमेव
हिङ्कारः कृष्णम्प्रस्तावः पुरुष उद्गीथो या इमा आपोऽन्तस्स एव चतुर्थः
पादः १
इदमादित्यस्यायनमिदं चन्द्र मसः चत्वारीमानि चत्वारीमानि तान्यष्टौ
अष्टा-क्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु
ब्रह्माभिसम्पद्यते अष्टाशफाः
पशवस्तेनो पशव्यम् २
स योऽयम्पवते स एष एव प्रजापतिः
तद्वेव साम तस्यायं देवो योऽयं चक्षुषि पुरुषः स एष
आहुतिमतिमत्योत्क्रान्तः ३
अथ यावेतौ चन्द्र
माश्चादित्यश्च यावेतावप्सु दृश्येते एतावेतयोर्देवौ ४
यद्ध वा इदमाहुर्देवानां देवा इत्येते ह ते त एत
आहुतिमतिमत्योत्क्रान्ताः ५
तद्ध
पृथुर्वैन्यो दिव्यान्व्रात्यान्पप्रच्छ येभिर्वात इषितः प्रवाति
ये ददन्ते पञ्च दिशस्समीचीः य आहुतीरत्यमन्यन्त देवा अपां नेतारः कतमे त
आसन्निति ६
ते ह प्रत्यूचुरिमामेषाम्पृथिवीं वस्त
एकोऽन्तरिक्षम्पर्येको बभूव दिवमेको
ददते यो विधर्ता विश्वा आशाः प्रतिरक्षन्त्यन्य इति ७
इमामेषाम्पृथिवीं
वस्त एक इत्यग्निर्ह सः ८
अन्तरिक्षम्पर्येको बभूवेति वायुर्ह सः ९
दिवमेको ददते यो विधर्तेत्यादित्यो ह सः १०
विश्वा आशाः प्रतिरक्षन्त्यन्य
इति एता ह वै देवता विश्वा आशाः प्रतिरक्षन्ति चन्द्र मा नक्षत्राणीति ता
एतास्सामैव सत्यो व्यूढो
अन्नाद्याय ११
३४
एकादशेऽनुवाके द्वितीयः खण्डः
एकादशोऽनुवाकस्समाप्तः