[[खण्डः]]
अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि १
स यस्स आकाश आदित्य एव स
एतस्मिन्ह्युदिते सर्वमिदमाकाशते २
तस्य मर्त्यामृतयोर्वै
तीराणि समुद्र एव तद्यत्समुद्रे ण परिगृहीतं तन्मृत्योराप्तमथ यत्परं
तदमृतम् ३
स यो ह स समुद्रो य एवायम्पवत एष एव स समुद्रः! एतं हि सन्द्र
वन्तं सर्वाणि भूतान्यनुसन्द्रवन्ति ४
तस्य द्यावापृथिवी एव रोधसी अथ
यथा नद्यां कंसानि वा प्रहीणानि स्युस्सरांसि
वैवमस्यायम्पार्थिवस्समुद्र
ः! ५
स एष पार एव समुद्र स्योदेति स उद्यन्नेव वायोः पृष्ठ आक्रमते
सोऽमृतादेवोदेति अमृतम-नुसञ्चरति अमृते प्रतिष्ठितः ६
तस्यैतत्त्रिवृद्रू पम्मृत्योरनाप्तं शुक्लं कृष्णम्पुरुषः
७
तद्यच्छुक्लं तद्वाचो रूपमृचोऽग्नेर्मृत्योः सा या सा वागृक्सा अथ
यो-ऽग्निर्मृत्युस्सः ८
अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो
यजुषः तद्यास्ता आपोऽन्नं तदथ यन्मनो यजुष्टत् ९
अथ यः पुरुषस्स
प्राणस्तत्साम तद्ब्रह्म
तदमृतं स यः प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् १०
२५
अष्टमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
अथाध्यात्ममिदमेव चक्षुस्त्रिवृच्छुक्लं कृष्णम्पुरुषः १
तद्यच्छुक्लं
तद्वाचो रूपमृचोऽग्नेर्मृत्योः सा या सा वागृक्सा अथ
योऽग्निर्मृत्युस्सः २
अथ यत्कृष्णं तदपां
रूपमन्नस्य मनसो यजुषः तद्यास्ता आपोऽन्नं तत् अथ यन्मनो
यजुष्टत् ३
अथ यः पुरुषस्स प्राणस्तत्साम तद्ब्रह्म तदमृतं स यः
प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् ४
सैषोत्क्रान्तिर्ब्रह्मणः
अथातः पराक्रान्तिः ५
सा या साक्रा-न्तिर्विद्युदेव सा स यदेव
विद्युतो विद्योतमानायै श्येतं रूपम्भवति तद्वाचो
रूपमृचोऽग्नेर्मृत्योः ६
यद्वेव
विद्युतस्सन्द्र वन्त्यै नीळं रूपम्भवति तदपां
रूपम-न्नस्य मनसो यजुषः ७
य एवैष विद्युति पुरुषस्स प्राणस्तत्साम
तद्ब्रह्म तदमृतं
स यः प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् ८
२६
अष्टमेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
स हैषोऽमृतेन परिवृढो मृत्युमध्यास्तेऽन्नं कृत्वा १
अथैष एव पुरुषो योऽयं
चक्षुषि य आदित्ये सोऽतिपुरुषः यो विद्युति स परमपुरुषः २
एते ह वाव
त्रयः पुरुषाः आ हास्यैते जायन्ते ३
स योऽयं चक्षुष्येषोऽनुरूपो
नाम अन्वङ्ह्येष सर्वाणि रूपाणि तमनुरूप इत्युपासीत अन्वञ्चि हैनं
सर्वाणि रूपाणि भवन्ति ४
य आदित्ये स प्रतिरूपः
प्रत्यङ्ह्येष सर्वाणि रूपाणि तम्प्रतिरूप
इत्युपासीत प्रत्यञ्चि हैनं सर्वाणि रूपाणि भवन्ति ५
यो
विद्युति स सर्वरूपः सर्वाणि ह्येतस्मिन्रूपाणि तं सर्वरूप
इत्युपासीत सर्वाणि हास्मिन्रूपाणि भवन्ति ६
एते ह वाव त्रयः पुरुषाः आ
हास्यैते जायन्ते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति
७
२७
अष्टमेऽनुवाके तृतीयः खण्डः
अष्टमोऽनुवाकस्समाप्तः