[[खण्डः]]
अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि १
स यस्स आकाशो वागेव सा
तस्मादाकाशाद्वाग्वदति २
तामेतां
वाचम्प्रजापतिरभ्यपीळयत्तस्या
अभिपीळितायै रसः प्राणेदत्त एवेमे लोका अभवन् ३
स
इमांल्लोकान-भ्यपीळयत्तेषामभिपीळितानां
रसः प्राणेदत्ता एवैता देवता अभवन्नग्निर्वा-युरसावादित्य इति ४
स एता
देवता अभ्यपीळयत्तासामभिपीळितानां रसः प्राणेदत् सा त्रयी
विद्याभवत् ५
स त्रयीं विद्यामभ्यपीळयत्तस्या अभिपीळितायै
रसः प्राणेदत्ता एवैता व्याहृतयोऽभवन्भूर्भुवस्स्वरिति ६
स एता
व्याहृती-रभ्यपीळयत्तासामभिपीळितानां रसः
प्राणेदत्तदेतदक्षरमभवदोमिति
यदेतत् ७
स एतदक्षरमभ्यपीळयत्तस्याभिपीळितस्य रसः प्राणेदत् ८
२३
सप्तमेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
तदक्षरदेव यदक्षरदेव तस्मादक्षरम् १
यद्वेवाक्षरं नाक्षीयत
तस्मादक्षयमक्षयं ह वै नामैतत्तदक्षरमिति
परोक्षमाचक्षते २
तद्धैतदेक ओमिति गायन्ति तत्तथा न गायेत् ईश्वरो
हैनदेतेन रसेनान्तर्धातोः अथो द्वे इवैवम्भवत ओमिति ओ इत्यु
हैके गायन्ति तदु ह तन्न गीतं नैव तथा गायेत् ॐ इत्येव गायेत्तदेनदेतेन
रसेन सन्दधाति ३
तदेतं रसं तर्पयति रसस्तृप्तोऽक्षरं तर्पयति अक्षरं
तृप्तं व्याहृती-स्तर्पयति व्याहृतयस्तृप्ता वेदांस्तर्पयन्ति
वेदास्तृप्ता देवतास्तर्पयन्ति देवतास्तृप्ता लोकांस्तर्पयन्ति
लोकास्तृप्ता अक्षरं तर्पयन्ति अक्षरं तृप्तं वाचं तर्पयति
वाक्तृप्ताकाशं तर्पयति आकाशस्तृप्तः
प्रजास्तर्पयति तृप्यति प्रजया पशुभिर्य
एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ४
२४
सप्तमेऽनुवाके द्वितीयः खण्डः
सप्तमोऽनुवाकस्समाप्तः