[[खण्डः]]
इदमेवेदमग्रेऽन्तरिक्षमासीत्तद्वेवाप्येतर्हि १
तद्यदेतदन्तरिक्षं य
एवायम्पवत एतदेवान्तरिक्षमेष ह वा अन्तरिक्षनाम २
एष उ एवैष
विततः तद्यथा काष्ठेन पलाशे विष्कब्धे स्यातामक्षेण वा चक्रावेवमेतेनेमौ
लोकौ विष्कब्धौ ३
तस्मिन्निदं सर्वमन्तः तद्यदस्मिन्निदं
सर्वमन्तस्तस्मादन्तर्यक्षमन्तर्यक्षं ह
वै नामैतत्तदन्तरिक्षमिति परोक्षमाचक्षते ४
तद्यथा मूताः प्रबद्धाः
प्रलम्बेरन्नेवं हैतस्मिन्सर्वे लोकाः प्रबद्धाः प्रलम्बन्ते ५
तस्यैतस्य साम्नस्तिस्र आगा-स्त्रीण्यागीतानि षड्विभूतयश्चतस्रः
प्रतिष्ठा दश प्रगास्सप्त संस्था द्वौ स्तोभावेकं रूपम् ६
तद्यास्तिस्र आगा इम एव ते लोकाः ७
अथ यानि
त्रीण्या-गीतान्यग्निर्वायुरसावादित्य एतान्यागीतानि न ह
वै कां चन श्रियमपराध्नोति
य एवं वेद ८
२०
षष्ठेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
अथ याष्षड्विभूतय ऋतवस्ते १
अथ याश्चतस्रः प्रतिष्ठा इमा एव ताश्चतस्रो
दिशः २
अथ ये दश प्रगा इम एव ते दश प्राणाः ३
अथ यास्सप्त संस्था
या एवैतास्सप्ताहोरात्राः प्राचीर्वषट्कुर्वन्ति ता एव ताः ४
अथ यौ
द्वौ स्तोभावहोरात्रे एव ते ५
अथ यदेकम्रूपं कर्मैव तत् कर्मणा
हीदं सर्वं विक्रियते ६
तस्यैतस्य साम्नो देवा आजिमायन्स
प्रजापतिर्हरसा हिङ्कारमुदजय-दग्निस्तेजसा प्रस्तावं
रूपेण बृहस्पतिरुद्गीथं स्वधया पितरः प्रतिहारं वीर्येणेन्द्रो निधनम्
७
अथेतरे देवा अन्तरिता इवासन्त इन्द्र मब्रुवन्तव वै वयं स्मोऽनु न
एतस्मिन्सामन्नाभजेति ८
तेभ्यस्स्वरम्प्रायच्छत्तम्प्रजापतिरब्रवीत्कथेत्थ-मकः
सर्वं वा एभ्यस्साम प्रादाः एतावद्वाव साम यावान्स्वरः ऋग्वा एषर्ते
स्वराद्भवतीति ९
सोऽब्रवीत्पुनर्वा अहमेषामेतं रसमादास्य इति
तानब्रवीदुप मा गायत अभि मा स्वरतेति तथेति १०
तमुपागायन्तमभ्यस्वरं
तेषाम्पुना
रसमादत्त ११
२१
षष्ठेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
स यथा मधुधाने मधुनाळीभिर्मध्वासिञ्चादेवमेव तत्सामन्पुना रसमासिञ्चत् १
तस्मादु ह नोपगायेत् इन्द्र एष यदुद्गाता स यथासावमीषां रसमादत्त
एवमेष तेषां रसमादत्ते २
कामं ह तु यजमान उपगायेद्यजमानस्य हि
तद्भवत्यथो ब्रह्मचार्याचार्योक्तः ३
तदु वा आहुरुपैव गायेत्
दिशो ह्युपागायन्दिशामेवं सलोकतां जयतीति ४
ते य एवेमे मुख्याः
प्राणा एत एवोद्गातारश्चोपगातारश्च इमे ह त्रय उद्गातार इम उ
चत्वार उपगातारः ५
तस्मादु चतुर एवोपगातॄ-न्कुर्वीत तस्मादु
होपगातॄन्प्रत्यभिमृशेद्दिशस्स्थ श्रोत्रम्मे मा हिंसिष्टेति ६
स
यस्स रस आसीद्य एवायम्पवत एष एव स रसः ७
स यथा मध्वालोप-मद्यादिति
ह स्माह सुचित्तश्शैलन एवमेतस्य रसस्यात्मानम्पूरयेत स
एवोद्गातात्मानं च यजमानं चामृतत्वं गमयतीति ८
२२
षष्ठेऽनुवाके तृतीयः खण्डः
षष्ठोऽनुवाकस्समाप्तः