०५

[[खण्डः]]

अथैतदेकविंशं साम १
तस्य त्रय्येव विद्या हिङ्कारः अग्निर्वायुरसावादित्य एष प्रस्तावः इम एव लोका आदिः तेषु हीदं लोकेषु सर्वमाहितं श्रद्धा यज्ञो दक्षिणा एष उद्गीथः दिशोऽवान्तरदिश आकाश एष प्रतिहारः आपः प्रजा ओषधय एष उपद्र वः चन्द्र मा नक्षत्राणि पितर एतन्निधनम् २ तदेतदेकविंशं साम स य एवमेतदेकविंशं साम वेदैतेन हास्य सर्वेणोद्गीतम्भवत्येतस्माद्वेव

सर्वस्मादावृश्च्यते य एवं विद्वांसमुपवदति ३
१९

पञ्चमोऽनुवाकस्समाप्तः