[[खण्डः]]
देवा वै स्वर्गं लोकमैप्सन्तं न शयाना नासीना न तिष्ठन्तो न धावन्तो नैव
केन चन कर्मणाप्नुवन् १
ते देवाः प्रजापतिमुपाधावन्स्वर्गं वै
लोकमैप्सिष्म तं न शयाना नासीना न तिष्ठन्तो न धावन्तो नैव
केन चन कर्मणापाम तथा नोऽनुशाधि यथा स्वर्गं लोकमाप्नुयामेति २
तानब्रवीत्साम्नानृचेन स्वर्गं लोकम्प्रयातेति ते
साम्नानृचेन स्वर्गं लोकम्प्रायन् ३
प्र वा इमे
साम्नागुरिति तस्मात्प्रसाम तस्मादु प्रसाम्यन्नमत्ति ४
देवा वै स्वर्गं लोकमायन्त एता-न्यृक्पदानि शरीराणि धून्वन्त आयन्ते
स्वर्गं लोकमजयन् ५
तान्या दिवः प्रकीर्णान्यशेरन् अथेमानि
प्रजापतिरृक्पदानि शरीराणि सञ्चित्याभ्यर्चत्
यदभ्यर्चत्ता एवर्चोऽभवन् ६
१५
चतुर्थेऽनुवाके प्रथमः खण्डः
[[खण्डः]]
सैवर्गभवदियमेव श्रीः अतो देवा अभवन् १
अथैषामिमामसुराश्श्रियमवि-न्दन्त
तदेवासुरमभवत् २
ते देवा अब्रुवन्या वै नश्श्रीरभूदविदन्त तामसुराः
कथं न्वेषामिमां श्रियम्पुनरेव जायेमेति ३
तेऽब्रुवन्नृच्येव साम
गायामेति ते पुनः प्रत्याद्रुत्यर्चि
सामागायन्तेनास्माल्लोकादसुराननुदन्त
४
तद्वै माध्य-न्दिने च सवने तृतीयसवने च नर्चोऽपराधोऽस्ति स यत्ते ऋचि
गायति तेना-स्माल्लोकाद्द्विषन्तम्भ्रातृव्यं नुदते अथ यदमृते
देवतासु प्रातस्सवनं गायति तेन स्वर्गं लोकमेति ५
प्रजापतिर्वै
साम्नेमां जितिमजयद्यास्येयं जितिस्तां स स्वर्गं लोकमारोहत् ६
ते
देवाः प्रजापतिमुपेत्याब्रुवन्नस्मभ्यमपीदं साम प्रय-च्छेति
तथेति तदेभ्यस्साम प्रायच्छत् ७
तदेनानिदं साम स्वर्गं लोकं
ना-कामयत वोढुम् ८
ते देवाः प्रजापतिमुपेत्याब्रुवन्यद्वै नस्साम
प्रादा इदं वै नस्तत्स्वर्गं लोकं न कामयते वोढुमिति ९
तद्वै पाप्मना
संसृजतेति कोऽस्य पाप्मेति ऋगिति तदृचा समसृजन् १०
तदिदम्प्रजापतेर्गर्हयमाणमतिष्ठदिदं
वै मा तत्पाप्मना समस्राक्षुरिति सोऽब्रवीद्यस्त्वैतेन व्यावर्तयाद्व्येव स
पाप्मना वर्ताता इति ११
स य एतदृचा प्रातस्सवने व्यावर्तयति व्येवं स
पाप्मना
वर्तते १२
१६
चतुर्थेऽनुवाके द्वितीयः खण्डः
[[खण्डः]]
तदाहुर्यदोवा ओवा इति गीयते क्वात्रर्ग्भवति क्व सामेति १
प्रस्तुवन्नेवा-ष्टाभिरक्षरैः प्रस्तौति
अष्टाक्षरा गायत्री अक्षरमक्षरं त्र्! यक्षरं
तच्चतु-र्विंशतिस्सम्पद्यन्ते
चतुर्विंशत्यक्षरा गायत्री २
तामेताम्प्रस्तावेनर्चमाप्त्वा या
श्रीर्यापचितिर्यस्स्वर्गो लोको यद्यशो यदन्नाद्यं तान्यागायमान आस्ते ३
१७
चतुर्थेऽनुवाके तृतीयः खण्डः
[[खण्डः]]
प्रजापतिर्देवानसृजत तान्मृत्युः पाप्मान्वसृज्यत १
ते देवा
प्रजापतिमुपेत्या-ब्रुवन्कस्मादु नोऽसृष्ठा
मृत्युं चेन्नः पाप्मानमन्ववस्रक्ष्यन्नासिथेति २
तान-ब्रवीच्छन्दांसि
सम्भरत तानि यथायतनम्प्रविशत ततो मृत्युना पाप्मना व्या-वर्त्स्यथेति
३
वसवो गायत्रीं समभरन्तां ते प्राविशन्तान्साच्छादयत् ४
रुद्रा
स्त्रिष्टुभं समभरन्तां ते प्राविशन्तान्साच्छादयत्
५
आदित्या जगतीं समभरन्तां ते प्राविशन्तान्साच्छादयत् ६
विश्वे देवा
अनुष्टुभं समभरन्तां ते प्राविशन्तान्साच्छादयत् ७
तानस्यामृच्यस्वरायाम्मृत्युर्निरजानाद्यथा
मणौ मणिसूत्रम्परिपश्येदेवम् ८
ते स्वरम्प्राविशन्तान्स्वरे सतो न
निरजानात् स्वरस्य तु घोषेनान्वैत् ९
त
ओमित्येतदेवाक्षरं समारोहनेतदेवाक्षरं
त्रयी विद्या यददोऽमृतं तपति तत्प्रपद्य ततो मृत्युना पाप्मना
व्यावर्तन्त १०
एवमेवैवं विद्वानोमित्येतदेवाक्षरं
समारुह्य यददोऽमृतं तपति तत्प्रपद्य ततो मृत्युना
पाप्मना व्यावर्ततेऽथो यस्यैवं विद्वानुद्गायति ११
१८
चतुर्थेऽनुवाके चतुर्थः खण्डः
चतुर्थोऽनुवाकस्समाप्तः