०३

[[खण्डः]]

प्रजापतिः प्रजा असृजत ता एनं सृष्टा अन्नकाशिनीरभितस्समन्तम्पर्यविशन् १ ता अब्रवीत्किङ्कामास्स्थेति अन्नाद्यकामा इत्यब्रुवन् २
सोऽब्रवीदेकं वै वेदम-न्नाद्यमसृक्षि सामैव तद्वः प्रयच्छानीति तन्नः प्रयच्छेत्यब्रुवन् ३
सोऽब्रवी-दिमान्वै पशून्भूयिष्ठमुपजीवामः एभ्यः प्रथमम्प्रदास्यामीति ४
तेभ्यो हिङ्का-रम्प्रायच्छत्तस्मात्पशवो हिङ्करिक्रतो विजिज्ञासमाना इव चरन्ति ५
प्रस्ता-वम्मनुष्येभ्यः तस्मादु ते स्तुवत इवेदम्मे भविष्यत्यदो मे भविष्यतीति ६
आदिं वयोभ्यः तस्मात्तान्याददानान्युपापपातमिव चरन्ति ७
उद्गीथं देवेभ्योऽमृतं तस्मात्तेऽमृताः ८ प्रतिहारमारण्येभ्यः पशुभ्यः तस्मात्ते प्रतिहृतास्तन्तस्यमाना

इव चरन्ति ९
११

तृतीयेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

उपद्र वं गन्धर्वाप्सरोभ्यः तस्मात्त उपद्र वं गृह्णन्त इव चरन्ति १ निधनम्पितृभ्यः तस्मादु ते निधनसंस्थाः २
तद्यदेभ्यस्तत्साम प्रायच्छदेतमेवैभ्यस्तदादित्य-म्प्रायच्छत् ३
स यदनुदितस्स हिङ्कारोऽर्धोदितः प्रस्ताव आसङ्गवमादि-र्माध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारो यदुपास्तमयं लोहितायति स उपद्र -वोऽस्तमित एव निधनम् ४
स एष सर्वैर्लोकैस्समः तद्यदेष सर्वैर्लोकैस्स-मस्तस्मादेष एव साम स ह वै सामवित्स साम वेद य एवं वेद ५
तेऽब्रुवन्दूरे वा इदमस्मत्तत्रेदं कुरु यत्रोपजीवामेति ६
तदृतूनभ्यत्यनयत् स वसन्तमेव हिङ्कारमकरोद्ग्रीष्मम्प्रस्तावं वर्षामुद्गीथं शरदम्प्रतिहारं हेमन्तं निधनम्मासा-र्धमासावेव सप्तमावकरोत् ७
तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति ८
तत्पर्जन्यमभ्यत्यनयत् स पुरोवातमेव हिङ्कारमकरोत् ९
१२

तृतीयेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

जीमूतान्प्रस्तावं स्तनयित्नुमुद्गीथं विद्युतम्प्रतिहारं वृष्टिं निधनं यद्वृष्टात्प्र-जाश्चौषधयश्च जायन्ते ते सप्तम्यावकरोत् १ तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति २
तद्यज्ञमभ्यत्यनयत् स यजूंष्येव हिङ्कारमकरोदृचः प्रस्तावं सामान्युद्गीथं स्तोमम्प्रतिहारं छन्दो निधनं स्वाहाकारवषट्कारावेव सप्तमावकरोत् ३ तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति ४
तत्पुरुषमभ्यत्यनयत् स मन एव हिङ्कारमकरोद्वाचम्प्रस्तावम्प्राणमुद्गीथं चक्षुः प्रतिहारं श्रोत्रं निधनं रेतश्चैव प्रजां च सप्तमावकरोत् ५ तेऽब्रुवन्नत्र वा एन-त्तदकर्यत्रोपजीविष्याम इति ६
स विद्यादहमेव सामास्मि मय्येता देवता इति


१३

तृतीयेऽनुवाके तृतीयः खण्डः

[[खण्डः]]

न ह दूरेदेवतस्स्यात् यावद्ध वा आत्मना देवानुपास्ते तावदस्मै देवा भवन्ति १
अथ य एतदेवं वेदाहमेव सामास्मि मय्येतास्सर्वा देवता इत्येवं हास्मि-न्नेतास्सर्वा देवता भवन्ति २
तदेतद्देवश्रुत्साम सर्वा ह वै देवताश्शृण्व-न्त्येवंविदम्पुण्याय साधवे ता एनम्पुण्यमेव साधु कारयन्ति ३
स ह स्माह सुचित्तश्शैलनो यो यज्ञकामो मामेव स वृणीतां तत एवैनं यज्ञ उपनंस्यति एवंविदं ह्युद्गायन्तं सर्वा देवता अनुसन्तृप्यन्ति ता अस्मै तृप्तास्तथा करिष्यन्ति

यथैनं यज्ञ उपनंस्यतीति ४
१४

तृतीयेऽनुवाके चतुर्थः खण्डः

तृतीयोऽनुवाकस्समाप्तः