०२

[[खण्डः]]

प्रजापतिर्वा इदं त्रयेण वेदेनाजयद्यदस्येदं जितं तत् १
स ऐक्षतेत्थं चेद्वा अन्ये देवा अनेन वेदेन यक्ष्यन्त इमां वाव ते जितिं जेष्यन्ति येऽयम्मम २
हन्तेमं त्रयं वेदम्पीळयानीति ३
स इमं त्रयं वेदमपीळयत्तस्य पीळयन्नेकमेवाक्षरं नाशक्नोत्पीळयितुमोमिति यदेतत् ४
एष उ ह वाव सरसः सरसा ह वा एवंविदस्त्रयी विद्या भवति ५
स इमं रसम्पीळयित्वापनिधायोर्ध्वोऽद्र वत् ६ तं द्र वन्तं चत्वारो देवानामन्वपश्यन्निन्द्र श्चन्द्रो रुद्र स्समुद्र ः! तस्मादेते श्रेष्ठा देवानामेते ह्येनमन्वपश्यन् ७
स योऽयं रस आसीत्तदेव तपोऽभवत् ८
त इमं रसं देवा अन्वैक्षन्त तेऽभ्यपश्यन्त्स तपो वा अभूदिति ९
इममु वै त्रयं वेदम्मरीमृशित्वा तस्मिन्नेतदेवाक्षरमपीळितमविन्दन्नोमिति यदेतत् १०
एष उ ह वाव सरसः तेनैनम्प्रायुवन्यथा मधुना लाजान्प्रयुयादेवम् ११
तेऽभ्य-तप्यन्त तेषां तप्यमानानामाप्यायत वेदः तेऽनेन च तपसापीनेन च वेदेन तामु एव जितिमजयन्याम्प्रजापतिरजयत्त एते सर्व एव प्रजापतिमात्रा अया३मया३-मिति १२
तस्मात्तप्यमानस्य भूयसी कीर्तिर्भवति भूयो यशः स य एतदेवं वे-दैवमेवापीनेन वेदेन यजते यदो याजयत्येवमेवापीनेन वेदेन याजयति १३
तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद स य एवैनमुपवदति स

आर्तिमृच्छति १४

द्वितीयेऽनुवाके प्रथमः खण्डः

[[खण्डः]]

तदाहुर्यदोवा ओवा इति गीयते क्वात्रर्ग्भवति क्व सामेति १
ओमिति वै साम वागित्यृक् ओमिति मनो वागिति वाक् ओमिति प्राणो वागित्येव वाक् ओमितीन्द्रो वागिति सर्वे देवाः तदेतदिन्द्र मेव सर्वे देवा अनुयन्ति २
ओमित्येतदेवाक्षरमेतेन वै संसवे परस्येन्द्रं वृञ्जीत एतेन ह वै तद्बको दाल्भ्य आजकेशिनामिन्द्रं ववर्ज ओमित्येतेनैवानिनाय ३
तान्येतान्यष्टौ अष्टाक्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते अष्टाशफाः पशवस्तेनो पशव्यम् ४
तस्यैतानि नामानीन्द्रः! कर्माक्षितिरमृतं व्योमान्तो वाचः बहु-र्भूयस्सर्वं सर्वस्मादुत्तरं ज्योतिः ऋतं सत्यं विज्ञानं विवाचनमप्रतिवाच्यं पूर्वं

सर्वं सर्वा वाक् सर्वमिदमपि धेनुः पिन्वते परागर्वाक् ५

द्वितीयेऽनुवाके द्वितीयः खण्डः

[[खण्डः]]

सा पृथक्सलिलं कामदुघाक्षिति प्राणसंहितं चक्षुश्श्रोत्रं वाक्प्रभूतम्मनसा व्याप्तं हृदयाग्रम्ब्राह्मणभक्तमन्नशुभं वर्षपवित्रं गोभगम्पृथिव्युपरं तपस्तनु वरुण-परियतनमिन्द्र श्रेष्ठं सहस्राक्षरमयुतधारममृतं दुहाना सर्वानिमांल्लोकानभि-विक्षरतीति १
तदेतत्सत्यमक्षरं यदोमिति तस्मिन्नापः प्रतिष्ठिता अप्सु पृथिवी पृथिव्यामिमे लोकाः २
यथा सूच्या पलाशानि सन्तृण्णानि स्युरेवमेतेनाक्ष-रेणेमे लोकास्सन्तृण्णाः ३ तदिदमिमानतिविध्य दशधा क्षरति शतधा सहस्र-धायुतधा प्रयुतधा नियुतधार्बुदधा न्यर्बुदधा निखर्वधा पद्ममक्षितिर्व्योमान्तः ४
यथौघो विष्यन्दमानः परःपरोवरीयान्भवत्येवमेवैतदक्षरम्परःपरोवरीयो भ-वति ५
ते हैते लोका ऊर्ध्वा एव श्रिताः इम एवं त्रयोदशमासाः ६
स य एवं विद्वानुद्गायति स एवमेवैतांल्लोकानतिवहति ओमित्येतेनाक्षरेणामुमादि-त्यम्मुख आधत्ते एष ह वा एतदक्षरम् ७
तस्य सर्वमाप्तम्भवति सर्वं जितं न हास्य कश् चन कामोऽनाप्तो भवति य एवं वेद ८
तद्ध पृथुर्वैन्यो दिव्यान्व्रा-त्यान्पप्रच्छ स्थूणां दिवस्तम्भनीं सूर्यमाहुरन्तरिक्षे सूर्यः पृथिवीप्रतिष्ठः अप्सु भूमीश्शिश्यिरे भूरिभाराः किं स्विन्महीरधितिष्ठन्त्याप इति ९
ते ह प्रत्यूचु-स्स्थूणामेव दिवस्तम्भनीं सूर्यमाहुरन्तरिक्षे सूर्यः पृथिवीप्रतिष्ठः अप्सु भूमीश्शिश्यिरे भूरिभारास्सत्यम्महीरधितिष्ठन्त्याप इति १०
ओमित्येतदेवाक्षरं

सत्यं तदेतदापोऽधितिष्ठन्ति ११
१०

द्वितीयेऽनुवाके तृतीयः खण्डः

द्वितीयोऽनुवाकस्समाप्तः