विस्तारः (द्रष्टुं नोद्यम्)
Credits
Source: Buehler, VŒsi·ÿha-Dharma§Œstra, Bombay Sanskrit and Prakrit Series
Typescript: Input by M. Fushimi, checked by F. Enomoto
Conversion to Devanagari using Vedapad Software by Ralph Bunker
Formatted for Maharishi University of Management Vedic Literature Collection
अथ श्रीवासिष्ठधर्मशास्त्रं प्रारभ्यते
अथातः पुरुषनिःश्रेयसार्थं धर्मजिज्ञासा १
ज्ञात्वा चानुतिष्ठन्धार्मिकः २
प्रशस्यतमो भवति लोके प्रेत्य च स्वर्गलोकं समश्नुते ३
श्रुतिस्मृतिविहितो धर्मः ४
तदलाभे
शिष्टाचारः प्रमाणम् ५
शिष्टः पुनरकामात्मा ६
अगृह्यमाणकारणो धर्मः ७
आर्यावर्तः प्रागादर्शात्प्रत्यक्कालकवनादुदक्पारियात्राद्दक्षिणेन हिमवतः
८
उत्तरेण च विन्ध्यस्य ९
तस्मिन्देशे ये धर्मा ये चाचारास्ते सर्वत्र
प्रत्येतव्याः १०
न त्वन्ये प्रतिलोमकधर्माणाम् ११
गङ्गायमुनयो-रन्तरेऽप्येके १२
यावद्वा
कृष्णमृगो विचरति तावद्ब्रह्मवर्चसमित्यन्ये १३
अथापि भाल्लविनो निदाने
गाथामुदाहरन्ति १४
पश्चात्सिन्धुर्विधारणी
सूर्यस्योदयनं पुरः
यावत्कृष्णोऽभिधावति
तावद्वै ब्रह्मवर्चसमिति १५
त्रैविद्यवृद्धा यं ब्रूयुर्
धर्मं धर्मविदो जनाः
पवने पावने चैव
स धर्मो नात्र संशय इति १६
देशधर्मजातिधर्मकुलधर्माञ्श्रुत्यभावादब्रवीन्मनुः १७
सूर्याभ्युदितः
सूर्याभिनिम्रुक्तः कुनखी श्यावदन्तः परिवित्तिः परिवेत्ताग्रे
दिधिषूर्दिधिषूपतिर्वीरहा ब्रह्मोज्झ इत्येनस्विनः १८
पञ्च
महापातकान्याचक्षते १९
गुरुतल्पं सुरापानं
भ्रूणहत्या ब्राह्मणसुवर्णापहरणं पतितसंयोगश्च २०
ब्राह्मेण वा यौनेन वा २१
अथाप्युदाहन्ति
संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद्यौनान्न तु यानासनाद्दानादिति २२
योऽग्नीनपविध्येद्गुरुं च यः प्रतिजघ्नुयान्नास्तिको नास्तिकवृत्तिः सोमं च
विक्रीणीयादित्युपपातकानि २३
तिस्रो ब्राह्मणस्य भार्या वर्णानुपूर्वेण
द्वे राजन्यस्य एकैका वैश्यशुद्र योः २४
शूद्रा मप्येके
मन्त्रवर्जं तद्वत् २५
तथा न कुर्यात् २६
अतो हि
ध्रुवः कुलापकर्षः प्रेत्य चास्वर्गः २७
षड्विवाहाः २८
ब्राह्मो
दैव आर्षो गान्धर्वः क्षात्रो मानुषश्चेति २९
इच्छत उदकपूर्वं यां
दद्यात्स ब्राह्मः ३०
यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां
दद्यादलङ्कृत्य तं दैवमित्याचक्षते ३१
गोमिथुनेन चार्षः ३२
सकामां
कामयमानः सदृशीं योनिमुह्यात्स गान्धर्वः ३३
यां बलेन सहसा
प्रमथ्य हरन्ति स क्षात्रः ३४
पणित्वा धनक्रीतां स मानुषः ३५
तस्माद्दुहितृमत अधिरथं शतं देयमितीह क्रयो
विज्ञायते ३६
या पत्युः क्रीता सत्यथान्यैश्चरतीति ह चातुर्मास्येषु
३७
अथाप्युदाहरन्ति
विद्या प्रनष्टा पुनरभ्युपैति कुलप्रणाशे त्विह सर्वनाशः
कुलापदेशेन हयोऽपि पूज्यस्तस्मात्कुलीनां स्त्रियमुद्वहन्तीति ३८
त्रयो वर्णा ब्राह्मणस्य निर्देशेन वर्तेरन् ३९
ब्राह्मणो
धर्मान्प्रब्रूयात् ४०
राजा चानुशिष्यात् ४१
राजा तु धर्मेणानुशासन्षष्ठं धनस्य हरेत् ४२
अन्यत्र
ब्राह्मणात् ४३
इष्टापूर्तस्य तु षष्ठमंशं भजतीति ह ४४
ब्राह्मणो
वेदमाढ्यं करोति ब्राह्मणो आपद उद्धरति तस्माद्ब्राह्मणोऽनाद्यः ।
सोमोऽस्य राजा भवतीति ह ४५
प्रेत्य चाभ्युदयिकमिति ह विज्ञायते ह
विज्ञायत इति ४६
इति वासिष्ठधर्मशास्त्रे प्रथमोऽध्यायः १
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः १
त्रयो वर्णा द्विजातयो ब्राह्मणक्षत्रियवैश्याः २
तेषाम्
मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धने
अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ३
वेदप्रदानात्पितेत्याचार्यमाचक्षते ४
तथाप्युदाहरन्ति
द्वयमु ह वै पुरुषस्य रेतो ब्राह्मणस्योर्ध्वं नाभेरधस्तादवाचीनमन्यत्
तद्यदूर्ध्वं नाभेस्तेन हैतत्प्रजा जायते यद्ब्राह्मणानुपनयति
यदध्यापयति यद्याजयति यत्साधुकरोति अथ यदवाचीनं नाभेस्तेनेहास्योरसी
प्रजा जायते तस्माच्छ्रोत्रियमनूचानमप्रजोऽसीति न वदन्तीति ५
हारीतोऽप्युदाहरति
न ह्यस्मिन्विद्यते कर्म किञ्चिदा मौञ्जिबन्धनात्
वृत्त्या शूद्र समो ह्येष यावद्वेदे न जायत इति ६
अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ७
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि
असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ८
यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्
यस्ते न द्रुह्येत्कतमच्चनाहस् तस्मै मां ब्रूया निधिपाय ब्रह्मन् ९
य आतृणत्त्यवितथेन कर्णाव् अदुःखं कुर्वन्नमृतं सम्प्रयच्छन्
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमच्चनाहः १०
अध्यापिता ये गुरुं नाद्रि यन्ते विप्रा वाचा मनसा कर्मणा वा
यथैव ते न गुरोर्भोजनीयास् तथैव तान्न भुनक्ति श्रुतं तत् ११
दहत्यग्निर्यथा कक्षं ब्रह्म पृष्टमनादृतम्
न ब्रह्म तस्मै प्रब्रूयाच्छक्यं मानमकुर्वत इति १२
षड्कर्माणि ब्राह्मणस्य १३
स्वाध्यायाध्ययनमध्यापनं यज्ञो यजनं दानं
प्रतिग्रहश्चेति १४
त्रीणि राजन्यस्य १५
अध्ययनं यज्ञो दानं च १६
शस्त्रेण
च प्रजापालनं स्वधर्मस्तेन जीवेत् १७
एतान्येव वैश्यस्य १८
कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं च १९
तेषां
परिचर्या शूद्र स्य नियता च वृत्तिः २०
नियतकेशवेषाः सर्वे वा मुक्तकेशाः
शिखावर्जम् २१
अजीवन्तः स्वधर्मेणानन्तरां यवीयसीं वृत्तिमातिष्ठेरन् २२
न
तु कदाचिज्ज्यायसीम् २३
वैश्यजीविकामास्थाय पण्येन
जीवतोऽश्मलवणमणिशाणकौशेयक्षा
उमाजिनानि च २४
तान्तवं रक्तं सर्वं च २५
क्रतान्नं पुष्पफलमूलानि
गन्धरसा उदकं चौषधीनां रसः सोमश्च शस्त्रं विषं मांसं च
क्षीरं च सविकारमयस्त्रपु जतु सीसं च २६
अथाप्युदाहरन्ति
सद्यः पतति मांसेन लाक्षया लवणेन च
त्र्यहेण शुद्रो भवति ब्राह्मणः क्षीरविक्रयादिति २७
ग्रामपशूनामेकशफाः केशिनश्च सर्वे चारण्याः पशवो वयांसि दंष्ट्रिणश्च २८
धान्यानां तिलानाहुः २९
अथाप्युदाहरन्ति
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः
कृमिभूताः श्वविष्ठायां पितृभिः सह मज्जतीति ३०
कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन् ३१
तस्मात्साण्डाभ्यामनस्योताभ्यां
प्राक्प्रातराशात्कर्षी स्यात् ३२
निदाघेऽपः प्रयच्छेत् ३३
लाङ्गलं
पवीरवत्सुशेवँ सोमपित्सरु । तदुद्वपति गामविं प्रफर्व्यं च
पीवरीं प्रस्थावद्र थवाहनमिति ३४
लाङ्गलं
पवीरवद्वीरवत्सुमनुष्यवदनडुद्वत्सुशेवं
कल्याणनासिकं कल्याणी ह्यस्य नासिका नासिकयोद्वपति दूरेऽपविध्यति
सोमपित्सरु सोमो ह्यस्य प्राप्नोति तत्सरु तदुद्वपति
गां चाविं चाजानश्वानश्वतरखरोष्ट्रांश्च प्रफर्व्यं च पीवरीं दर्शनीयां
कल्याणीं च प्रथमयुवतीम् ३५
कथं हि लाङ्गलमुद्वपेदन्यत्र धान्यविक्रयात् ३६
रसा रसैर्महतो हीनतो वा विमातव्याः ३७
न त्वेव लवणं रसैः ३८
तिलतण्डुलपक्वान्नं विद्या मानुष्यश्च
विहिताः परिवर्तकेन ३९
ब्राह्मणराजन्यौ वार्धुषी न दद्याताम्
४०
अथाप्युदाहरन्ति
समर्घं धान्यमुद्धृत्य महार्घं यः प्रयच्छति
स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ४१
ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत्
अतिष्ठद्भ्रूणहा कोट्यां वार्धुषिः समकम्पत इति ४२
कामं वा परिलुप्तकृत्याय पपीयसे दद्याताम् ४३
द्विगुणं हिरण्यं त्रिगुणं धान्यम् ४४
धान्येनैव रसा व्याख्याताः ४५
पुष्पमूलफलानि च ४६
तुलाधृतमष्टगुणम् ४७
अथाप्युदाहरन्ति
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम्
मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ४८
राजा तु मृतभावेन द्र व्यवृद्धिं विनाशयेत्
पुना राजाभिषेकेण द्र व्यमूलं च वर्धते ४९
वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु
पञ्च माषास्तु विंशत्या एवं धर्मो न हीयत इति ५०
न हीयत इति ५१
इति वासिष्ठधर्मशास्त्रे द्वितीयोऽध्यायः २
अश्रोत्रिया अननुवाक्या अनग्नयो वा शूद्र सधर्माणो भवन्ति १
मानवं चात्र
श्लोकमुदाहरन्ति
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्
स जीवन्नेव शूद्र त्वमाशु गच्छति सान्वयः २
नानृग्ब्राह्मणो भवति न वणिङ्न कुशीलवः
न शूद्र प्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ३
अव्रता ह्यनधीयाना यत्र भक्षचरा द्विजाः
तं ग्रामं दण्डयेद्रा जा चोरभक्तप्रदो हि सः ४
अव्रतानाममन्त्राणां जातिमात्रोपजीविनां
सहस्रशः समेतानां परिषत्त्वं न विद्यते ५
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः
तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति ६
चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः
स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ७
श्रोत्रियाय च देयानि हव्यकव्यानि नित्यशः
अश्रोत्रियाय दत्तं हि पितॄन्नैति न देवताः ८
यस्य चैकगृहे मूर्खो दूरे वापि बहुश्रुतः
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ९
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते १०
यश्च काष्ठमयो हस्ती यश्च चर्ममयो मृगः
यश्च विप्रोऽनधीयानस् त्रयस्ते नामधारकाः ११
विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रेषु भुञ्जते
तान्यनावृष्टिमृच्छन्ति महद्वा जायते भयमिति १२
अप्रज्ञायमानं वित्तं योऽधिगच्छेद्रा जा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय १३
ब्राह्मणश्चेदधिगच्छेत्षट्सु कर्मसु वर्तमानो न राजा हरेत् १४
आततायिनं
हत्वा नात्र प्राणच्छेत्तुः किञ्चित्किल्विषमाहुः १५
अथाप्युदाहरन्ति
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः
क्षेत्रदारहरश्चैव षडेते आततायिनः १६
आततायिनमायन्तम् अपि वेदान्तपारगम्
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् १७
स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम्
न तेन भ्रूणहा स स्यान्मन्युस्तन्मन्युमृच्छतीति १८
त्रीणाचिकेतः पञ्चाग्निस्त्रिसुपर्णश्चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणविद्यश्च धर्मानधीते यस्य च दशपुरुषं मातृपितृवंशः श्रोत्रियो विज्ञायते विद्वांसः स्नातकाश्चैते पङ्क्तिपावना भवन्ति १९
चातुर्विद्यं विकल्पी च अङ्गविद्धर्मपाठकः
आश्रमस्थास्त्रयो मुख्याः पर्षदेषां दशावरा २०
उपनीय कृत्स्नं वेदम्
अध्यापयेत्स आचार्यः २१
यस्त्वेकदेशाम्स उपाध्यायः २२
यश्च वेदाङ्गानि २३
आत्मत्राणे वर्णसंवर्गे
ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् २४
क्षत्रियस्य तु तन्नित्यमेव
रक्षणाधिकारात् २५
प्रक्षाल्य पादौ पाणी चा
मणिबन्धात्प्राग्वोदग्वासीनोऽङ्गुष्ठमूलस्योत्तररेखा
ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवत् २६
द्विः परिमृजीत २७
खान्यद्भिः
संस्पृशेत् २८
मूर्धन्यपो निनयेत्सव्ये च पाणौ २९
व्रजंस्तिष्ठञ्शयानः
प्रणतो वा नाचामेत् ३०
हृदयङ्गमाभिरद्भिरबुद्बुदाभिरफेनाभिर्ब्राह्मणः ३१
कण्ठगाभिस्तु क्षत्रियः ३२
वैश्योऽद्भिः प्राशिताभिः ३३
स्त्रीशूद्रं
स्पृष्टाभिरेव च ३४
प्रदरादपि या गोस्तअणसमर्थाः स्युः ३५
न
वर्णगन्धरसदुष्टाभिर् याश्च स्युरशुभागमाः ३६
न मुख्या विप्रुष
उच्छिष्टं कुर्वन्त्यनङ्गस्पृष्टाः ३७
सुप्त्वा भुक्त्वा
क्षुत्वा पीत्वा रुदित्वा स्नात्वाचान्तः पुनराचामेद्वासश्च
परिधाय ३८
ओष्ठौ संस्पृश्य यत्रालोमकौ ३९
न श्मश्रुगतो लेपः ४०
दन्तवद्दन्तसक्तेषु यच्चान्तर्मुखे भवेन् आचान्तस्यावशिष्टं
स्यान् निगिरन्नेव तच्छुचिर् इति ४१
परानप्याचामयतः पादौ या विप्रुषो गताः
ताभिर्नोच्छिष्टतां यान्ति भूम्यस्तास्तु समाः स्मृताः ४२
चरन्नभ्यवहारेषु उच्छिष्टं यदि संस्पृशेत्
भूमौ निधाय तद्द्रव्यम् आचम्य प्रचरेत्पुनः ४३
यद्यन्मीमांस्यं स्यादद्भिःसंस्पृशेत् ४४
श्वहताश्च मृगा वन्याः पातितं च खगैः फलम्
बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ४५
प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च ४६
मशकैर्मक्षिकाभिश्च निलीनैर्नोपहन्यते
क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः
परिसङ्ख्याय तान्सर्वाञ् शुचीनाह प्रजापतिरिति ४७
लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ४८
तैजसमृन्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहनतक्षणधावनाणि ४९
तैजसवदुपलमणीनाम् ५०
मणिवच्छङ्खशुक्तीनाम् ५१
दारुवदस्थ्नाम् ५२
रज्जुविदलचर्मणाञ्चैलवच्छौचम् ५३
गोवालैः
फलमयानाम् ५४
गौरसर्षपकल्केन क्षौमजानाम् ५५
भूमेस्तु
सम्मार्जनोपलेपनोल्लेखनप्रोक्षणोपकरणैर्यथास्थानं
दोष-विशेषात्प्रायत्यमुपैति ५६
रजसा शुध्यते नारी नदी वेगेण शुध्यते
भस्मना शुध्यते कांस्यं पुनःपाकेन मृन्मयम् ५८
मद्यैर्मूत्रैः पुरीषैर्वा श्लेष्मपूयाश्रुशोणितैः
संस्पृष्तं नैव शुध्येत पुनःपाकेन मृन्मयम् ५९
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यतीति ६०
अद्भिरेव काञ्चनं पूयते ६१
तथा रजतम् ६२
ताम्रमम्लेन शुध्यति ६३
अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ६४
अङ्गुल्यमृषीणाम् ६५
अङ्गुल्यग्रेषु
मानुषम् ६६
पाणिमध्य आग्नेयम् ६७
प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्! यम्
६८
रोचत इति सायम्प्रातरशनान्यभिपूजयेत् ६९
स्वदितमिति पित्र्ये ७०
सम्पन्नमित्याभ्युदयिकेष्वाभ्युदयिकेष्विति ७१
इति वासिष्ठधर्मशास्त्रे तृतीयोऽध्यायः ३
प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च १
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत
इत्यपि निगमो भवति २
गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचिच्छन्दसा
शूद्र मित्यसंस्कार्यो विज्ञायते ३
सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं
च ४
पितृदेवतातिथिपूजायामप्येव पशुं हिंस्यादिति मानवम् ५
मधुपर्के च यज्ञे च पितृदैवतकर्मणि
अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ६
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित्
न च प्राणिवधः स्वर्ग्यस् तस्माद्यागे वधोऽवधः ७
अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं वा
पचेदेवमस्मा आतिथ्यं कुर्वन्तीति ८
उदकक्रियां आशौचं
च द्विवर्षात्प्रभृति ९
दन्तजननादित्येके १०
शरीरमग्निना
संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ११
सव्येतराभ्यां पाणिभ्यमुदकक्रियां कुर्वीरन्नयुग्मासु दक्षिणामुखाः १२
पितॄणां वा एषा दिग्या दक्षिणा १३
गृहान्व्रजित्वा प्रस्तरे
त्र्यहमनश्नत आसीरन् १४
अशक्तौ क्रीतोत्पन्नेन वर्तेरन्
१५
दशाहं शावमाशौचं सपिण्डेषु विधीयते १६
सपिण्डत्वं साप्तपुरुषं
विज्ञायते १७
प्रत्तानां च स्त्रीनां त्रिपुरुषं विज्ञायते
१८
प्रत्तानामितरे कुर्वीरंस्ताश्च तेषाम् १९
जननेऽप्येवमेव स्यान् निपुणां
शुद्धिमिच्छताम् २०
मातापित्रोर्वा २१
तन्निमित्तत्वान्मातुरित्येके
२२
अथाप्युदाहरन्ति
नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति
रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति २३
तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् २४
रात्रिशेषे द्वाभ्याम् २५
प्रभाते
तिसृभिः
२६
ब्राह्मणो दशरात्रेण २७
पञ्चदशरात्रेण राजन्यः २८
विंशतिरात्रेण वैश्यः
२९
शूद्रो मासेन शुध्यति ३०
अथाप्युदाहरन्ति
अशौचे यस्तु शूद्र स्य सूतके वापि भुक्तवान्
स गच्छेन्नरकं घोरं तिर्यग्योन्यां च जायते ३१
अनिर्दशाहे परशवे नियोगाद्भुक्तवान्द्विजः
कृमिर्भूत्वा स देहान्ते तां विष्ठां समुपाश्नुत इति ३२
द्वादश मासान्द्वादशार्धमासान्वानश्नन्संहिताध्ययनमधीयानः पूतो भवतीति
विज्ञायते ३३
ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचम्
३४
सद्यःशौचमिति गौतमः ३५
देशान्तरस्थे प्रेत ऊर्ध्वं
दशाहच्छ्रुत्वैकरात्रमाशौचम् ३६
आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववच्छौचमिति
गौतमः ३७
यूपचितिश्मशानरजस्वलासूतिकाशुचिंश्च स्पृष्ट्वा
सशिरस्को-ऽभ्युपेयादप इत्यप इति ३८
इति वासिष्ठधर्मशास्त्रे चतुर्थोऽध्यायः ४
अस्वतन्त्रा स्त्री पुरुषप्रधाना १
अनग्निकानुदक्या वामृतमिति विज्ञाते २
अथाप्युदाहरन्ति
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हतीति ३
तस्या भर्तुरभिचार उक्तं प्रायश्चित्तं रहस्येषु ४
मासिमासि रजो ह्यासां
दुष्कृतान्यपकर्षति ५
त्रिरात्रं रजस्वलाशुचिर्भवति ६
सा नाञ्ज्यान्
नाभ्यञ्ज्यान् नाप्सु स्नायाद् अधः शयीत न दिवा स्वाप्यान् नाग्निं
स्पृशेन् न रज्जुं सृजेन् न दन्तान्धावयेन् न मांसमश्नीयान् न
ग्रहान्निरीक्षेत न हसेन् न किञ्चिदाचरेन् न धावेद् अखर्वेण पात्रेण
पिबेद् अञ्जलिना वा पिबेल् लोहितायसेन वा ७
विज्ञायते हि ।
इन्द्र स्त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मगृहीतो
महत्तमाधर्मसम्बद्धोऽहमित्येवमात्मानममन्यत तं
सर्वाणि भूतान्यभ्यक्रोषन्भ्रूणहन्भ्रूणहन्निति स स्त्रिय उपाधावदस्यै मे
भ्रूणहत्यायै तृतीयं भागं प्रतिगृह्णीतेति ता अब्रुवन्किं नो भूयादिति
सोऽब्रवीद्वरं वृणीध्वमिति ता अब्रुवन्नृतौ प्रजां विन्दामह इति
काममा विजनितोः सम्भवामेति तथेति ताः प्रतिजगृहुः सैषा भ्रूणहत्या
मासिमास्याविर्भवति तस्माद्र जस्वलाया अन्नं
नाश्नीयाद्भ्रूणहत्याया एवैषा रूपं
प्रतिमुच्यास्ते ८
तदाहुः अञ्जनाभ्यञ्जनमेवास्या न
प्रतिग्राह्यं तद्धि स्त्रिया अन्नमिति तस्मात्तस्यै च तत्र च
बीभत्सन्ते मेयमुपागादिति ९
उदक्यास्त्वासते येषां ये च केचिदनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्र धर्मिण इति सर्वे ते शूद्र धर्मिण इति १०
इति वासिष्ठधर्मशास्त्रे पञ्चमोऽध्यायः ५
आचारः परमो धर्मः सर्वेषामिति निश्चयः
हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति १
नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः
हीनाचारमितो भ्रष्टं तारयन्ति कथञ्चन २
आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः
छन्दंस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ३
आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः
कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ४
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम्
द्वेऽप्यक्षरे सम्यगधीयमाने पुनाति तद्ब्रह्म यथा इषेऽब्दाः ५
दुराचारो हि पुरुषो लोके भवति निन्दितः
दुःखभागी च सततं व्याधितोऽल्पायुरेव च ६
आचारात्फलते धर्म आचारात्फलते धनम्
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ७
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ८
आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः
वाग्बुद्धिवीर्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ९
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः
रात्रौ तु दक्षिणा कुर्याद् एवं ह्यायुर्न रिष्यति १०
प्रत्यग्निं प्रति सूर्यं च प्रति गां प्रति च द्विजं
प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ११
न नद्यां मेहनं कार्यं न पथि न च भस्मनि
न गोमये न कृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु १२
छायायामन्धकारे वा रात्रावहनि वा द्विजः
यथासुखमुखः कुर्यात् प्राणबाधाभयेषु च १३
उद्धृताभिरद्भिः कार्यं कुर्यात् १४
स्नानमनुद्धृताभिरपि १५
आहरेन्मृत्तिकां
विप्रः कूलात्ससिकतात्तथा १६
अन्तर्जले देवगृहे वल्मीके मूषिकस्थले
कृतशौचावशिष्टा वा न ग्राह्याः पञ्च मृत्तिकाः १७
एका लिङ्गे करे तिस्र उभाभ्यां द्वे तु मृत्तिके
पञ्चापाने दशैकस्मिन्न् उभयोः सप्त मृत्तिकाः १८
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः
वानप्रस्थस्य त्रिगुणं यतीनां तु चतुर्गुणमिति १९
अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश
द्वात्रिंशत्तु गृहस्थस्यामितं ब्रह्मचारिणः २०
अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः
भुञ्जाना एव सिध्यन्ति नैषां सिद्धिरनश्नताम् २१
तपो दानापहारेषु व्रतेषु नियमेषु चेज्याध्ययनधर्मेषु यो न ज्येष्टः स नस्त्रया
२२
योगस्तपो दमो दानं सत्यं शौचं दया श्रुतं
विद्या विज्ञानमास्तिक्यम् एतद्ब्राह्मणलक्षणम् २३
ये शान्तदान्ताः श्रुतिपूर्णकर्णाः जितेन्द्रि याः प्राणिवधे निवृत्ताः
प्रतिग्रहे सङ्कुचिताग्रहस्तास् ते ब्राह्मणास्तारयितुं समर्थाः २५
असूयकश्च पिशुनः कृतघ्नो दीर्घरोषकः चत्वारः कर्मचान्दाला जन्मतश्चापि
पञ्चमः २५
दीर्घवैरमसूया चासत्यं ब्रह्मदूषणम्
पैशून्यं निर्दयत्वं च जानीयच्छूद्र लक्षणम् २४
किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम्
पात्राणामपि तत्पात्रं शूद्रा न्नं यस्य नोदरे २६
शूद्रा न्नरसपुष्टाङ्गो अधीयानोऽपि नित्यशः
जुहुत्वापि यजित्वापि गतिमूर्ध्वां न विन्दति २८
शुद्रा न्नेनोदरस्थेन यः कश्चिन्मृइयते द्विजः स भवेच्छूकरो ग्राम्यस् तस्य वा
जायते कुले २७
शूद्रा न्नेन तु भुक्तेन मैथुनं योऽधिगच्छति
यस्यान्नं तस्य ते पुत्रा न च स्वर्गारुहो भवेत् २९
स्वाध्यायोत्थं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम्
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रमाहुः ३०
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु विनश्येत्पात्रदौर्बल्यात्तच्च पात्रं रसाश्च ते ३१
एवं गां च हिरण्यं च वस्त्रमश्वं महीं तिलान् अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत् ३२
नाङ्गं न नखवादित्रं कुर्यात् ३३
नखैश्च भोजनादौ ३४
न चापोऽङ्जलिना पिबेत् ३५
न पादेन न पाणिना वारीजलमभिहन्यात् ३६
न जलेन जलम् ३७
नेष्टकाभिः फलानि शातयीत ३८
न फलेन फलम् ३९
न कल्को न कुहको भवेत् ४०
न म्लेच्छभाषां शिक्षेत् ४१
अथाप्युदाहरन्ति न पाणिपादचपलो न नेत्रचपलो भवेत्
न च वागङ्गचपल इति शिष्टस्य गोचरः ४२
पारम्पर्यागतो येषां
वेदः सपरिबृंहणः
ते शिष्टा ब्राह्मणा ज्ञेयाः
श्रुतिप्रत्यक्षहेतवः ४३
यं न सन्तं न वासन्तं
नाश्रुतं न बहुश्रुतं
न सुवृत्तं न दुर्वृत्तं
वेद कश्चित्
स ब्राह्मणः
स ब्राह्मण इति ४४
इति वासिष्ठधर्मशास्त्रे षष्टोऽध्यायः ६
चत्वार आश्रमाः १
ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः २
तेषां वेदमधीत्य
वेदौ वेदान्वाविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत् ३
ब्रह्मचार्याचार्यं
परिचरेदा शरीरविमोक्षणाट् ४
आचार्ये च प्रेतेऽग्निं परिचरेत् ५
विज्ञायते
ह्यग्निराचार्यस्तवेति ६
संयतवाक् ७
चतुर्थषष्ठाष्टमकालभोजी ८
भैक्षमाचरेत् ९
गुर्वधीनः १०
जटिलः शिखाजटो वा ११
गुरुं
गच्छन्तमनु-गच्छेतासीनश्चेत्तिष्ठेच्छयानश्चेदासीन उपासीत १२
आहूताध्यायी
१३
सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत १४
खट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी
१५
तिष्ठेदहनि रात्रावासीत १६
त्रिरह्नोऽभ्युपेयादप इत्यप इति १७
इति वासिष्ठधर्मशास्त्रे सप्तमोऽध्यायः ७
गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः
स्नात्वासमानार्षेयामस्पृष्टमैथुनामवरवयसीं
सदृशीं भार्यां विन्देत १
पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः २
वैवाह्यमग्निमिन्धीत ३
सायमागतमतिथिं नापरुन्ध्यात् ४
नास्यानश्नन्गृहे
वसेत् ५
यस्य नाश्नीत वासार्थी ब्राह्मणो गृहमागतः
सुकृतं तस्य यत्किञ्चित् सर्वमादाय गच्छति ६
एकरात्रं तु निवसन्न् अतिथिर्ब्राह्मणः स्मृतः
अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ७
नैकग्रामीण अतिथिर् विप्रः साङ्गतिकस्तथा
काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ८
श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ९
अलं च सोमाय
नासोमयाजी १०
युक्तः स्वाध्याये यज्ञे प्रजनने च ११
गृहेष्वभ्यागतं
प्रत्युत्थानासन वाक्सूनृतानसूयाभिर् महयेत् १२
यथाशक्ति चान्नेन
सर्वाणि भूतानि १३
गृहस्थ एव यजते गृहस्थस्तप्यते तपः
चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते १४
यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम्
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् १५
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः १६
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी
ऋतौ च गच्छन्विधिवच्च जुह्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात्
ब्रह्मलोकादिति १७
इति वासिष्ठधर्मशास्त्रेऽष्टमोऽध्यायः ८
वानप्रस्थो जटिलश्चीराजिनवासी १
ग्रामं च न प्रविशेत् २
न
फालकृष्टमधितिष्ठेत् ३
अकृष्टं मूलफलं
सञ्चिन्वीत ४
ऊर्ध्वरेताः ५
षमाशयः ६
मूलफलभैक्षेणाश्रमागतमतिथिमभ्यर्चयेत्
७
दद्यादेव न प्रतिगृह्णीयात् ८
त्रिपवणमुदकोपस्पर्शी ९
श्रामणकेनाग्निमाधायाहिताग्निः
स्यात् १०
वृक्षमू-लनिकेतन ऊर्ध्व षड्भ्यो मासेभ्योऽनग्निरनिकेतः
११
दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम् इत्यानन्त्यम् १२
इति वासिष्ठधर्मशास्त्रे नवमोऽध्यायः ९
परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत् १
अथाप्युदाहरन्ति
अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः
तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते २
अभयं सर्वभूतेभ्यो दत्त्वा यस्तु निवर्त्तते
हन्ति जातानजातांश्च द्र व्याणि प्रतिगृह्य च ३
सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत्
वेदसन्न्यसनाच्छूद्र स् तस्माद्वेदं न सन्न्यसेत् ४
एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः
उपवासात्परं भैक्षं दया दानाद्विशिष्यत इति ५
मुण्डोऽममोऽपरिग्रहः ६
सप्तागाराण्यसङ्कल्पितानि चरेद्भिक्षाम् ७
विधूमे
सन्नमुसले ८
एकशाटीपरिहितः ९
अजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः १०
स्थण्डिलशायी ११
अनित्यां वसतिं वसेत् १२
ग्रामान्ते देवगृहे
शून्यागारे वा वृक्षमूले वा १३
मनसा ज्ञानमधीयानः १४
अरण्यनित्यः १५
न ग्राम्यपशूनां सन्दर्शने विचरेत् १६
अरण्यनित्यस्य जितेन्द्रि यस्य सर्वेन्द्रि यप्रीतिनिवर्तकस्य
अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्येति १७
अव्यक्तलिङ्गो व्यक्ताचारः १८
अनुन्मत्त उन्मत्तवेषः १९
अथाप्युदाहरन्ति
न शब्दशास्त्राभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य
न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य २०
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् २१
अलाभे न विषादी स्याल् लाभे नैव च हर्षयेत्
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद्विवर्जितः २२
न कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सेति २३
ब्राह्मणकुले यावल्लभेत तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जम् २४ यतीन्साधून्वा
गृहस्थान्प्राप्तेन च तृप्येत् २५
ग्रामे वा वसेत् २६
अजिह्मोऽशठोऽशरणोऽवसङ्कुसुकः २७
न चेन्द्रि यसंसर्गं कुर्वीत केनचित् २८
उपेक्षकः सर्वभूतानां
हिंसानुग्रहपरिहारेण २९
पैशुन्यमत्सराभिमानाहङ्कारा
श्रद्धाना-र्जवात्मस्तवपरगर्हादम्भलोभमोहक्रोधासूयाविवर्जनं सर्वाश्रमाणां
धर्म इष्टः ३०
यज्ञोपवीत्युदकमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नवर्जी
न हीयते ब्रह्म-लोकाद्ब्रह्मलोकादिति ३१
इति वासिष्ठधर्मशास्त्रे दशमोऽध्यायः १०
षडर्घार्हा भवन्ति १
ऋत्विग्विवाह्यो राजा पितृव्यस्नातकमातुलाश्च २
वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ३
गृहदेवताभ्यो बलिं हरेत् ४
श्रोत्रियायाग्रभागं दत्त्वा
ब्रह्मचारिणे वानन्तरं पितृभ्यो दद्यात् ५
ततोऽतिथिं
भोजयेच्छ्रेयांसमानुपूर्व्येण ६
स्वगृह्याणां कुमारीबालवृद्धतरुणप्रजाताः ७
ततोऽपरान्गृह्यान् ८
श्वचाण्डालपतितवायसेभ्यो भूमौ निर्वपेत् ९
शूद्रा
योच्छिष्टमनुच्छिष्टं वा दद्यात् १०
शेषं दम्पती भुञ्जीयाताम् ११
सर्वोपयोगेन पुनःपाको यदि निरुप्ते वैश्वदेवेऽतिथिरागच्छेद्विशेषे णास्मा
अन्नं कारयेत् १२
विज्ञायते हि । वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो
गृहं तस्मादप आनयन्त्यन्नं वर्षाभ्यस् तां हि शान्तिं जना विदुरिति १३
तं भोजयित्वोपासीत १४
आ सीमान्तमनुव्रजेदनुज्ञानाद्वा १५
अपरपक्ष ऊर्ध्वं
चतुर्थ्याः पितृभ्यो दद्यात् १६
पूर्वेद्युर्ब्राह्मनान्सन्निपात्य
यतीन्गृहस्थान्साधून्वापरिणतवयसो
विकर्मस्था-ञ्श्रोत्रियानशिष्याननन्तेवासिनः
१७
शिष्यानपि गुणवतो भोजयेत् १८
द्विर्नग्नशुक्लविक्लिधश्यावदन्तकुष्ठिकुनखिवर्जम्
१९
अथापि उदाहरन्ति
अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः
अदुष्यं तं यमः प्राह पङ्क्तिपावन एव सः २०
श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात्
श्च्योतन्ते हि सुधाधारस् ताः पिबन्त्यकृतोदकाः २१
उच्छेषणं भूमिगतं विकिरं लेपनोदकम्
अन्नं प्रेतेषु विसृजेद् अप्रजानामनायुषाम् २४
तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम्
भोजनं वा समालभ्य तिष्ठेतोच्छेषणे उभे २६
द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र वा
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे २७
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम्
पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् २८
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम्
श्रुतशीलोपसम्पन्नं सर्वालक्षणवर्जितम् २९
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत्
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ३०
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत्
प्रास्येदग्नौ तदन्नं वा दद्याद्वा ब्रह्मचारिणे ३१
यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ३२
हविर्गुणा न वक्तव्याः पितरो यावदतैताः
पितृभिस्तैतैः पश्चाद् वक्तव्यं शोभनं हविः ३३
नियुक्तस्तु यदा श्राद्धे दैवे वा मांसमुत्सृजेत्
यावन्ति पशुरोमाणि तावन्नरकमृच्छति ३४
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ३५
दिवसस्याष्टमे भागे मन्दीभवति भास्करः
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ३६
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ३७
यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम्
न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ३८
पिता पितामहश्चैव तथैव प्रपितामहः
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ३९
मधुमांसैश्च शाकैश्च पयसा पायसेन च
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ४०
सन्तानवर्द्धनं पुत्रम् उद्यतं पितृकर्मणि
देवब्राह्मणसम्पन्नम् अभिनन्दन्ति पूर्वजाः ४१
नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः
यद्गयास्थो ददात्यन्नं पितरस्ते न पुत्रिण इति ४२
श्रावण्याग्रहायिण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात् ४३
द्र
व्यदेशब्राह्मणसन्निधाने वाकालनियमः ४४
अवश्यञ्च ब्राह्मणोऽग्नीनादधीत ४५
दश-र्पू!र्णमासाग्रयनेष्टिचातुर्मास्यपशुसोमैश्च
यजेत ४६
नैयमिकं ह्येतदृणसम्स्तुतं च ४७
विज्ञायते हि ।
त्रिभिरृणैरृणवान्ब्राह्मणो जायते ।
यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वानृणो यज्वा
यः पुत्री ब्रह्मचर्यवानिति ४८
गर्भाष्टमेषु ब्राह्मणमुपनयीत ४९
गर्भादेकादशेषु राजन्यम् ५०
गर्भाद्द्वादशेषु वैश्यम् ५१
पालाशो वा दण्डो ब्राह्मणस्य ५२
नैय्यग्रोधः क्षत्रियस्य वा ५३
औदुम्बरो वा
वैश्यस्य ५४
केशसम्मितो ब्राह्मणस्य ५५
ललाटसम्मितः क्षत्रियस्य ५६
घ्राणसम्मितो वैश्यस्य ५७
मौञ्जी रशना ब्राह्मणस्य ५८
धनुर्ज्या क्षत्रियस्य ५९
शणतान्तवी वैश्यस्य ६०
कृष्णाजिनमुत्तरीयम्ब्राह्मणस्य
६१
रौरवं क्षत्रियस्य ६२
गव्यं बस्ताजिनं वा वैश्यस्य ६३
शुक्लमहतं वासो
ब्राह्मणस्य ६४
माञ्जिष्ठं क्षत्रियस्य ६५
हारिद्रं कौशेयं वा
वैश्यस्य ६६
सर्वेषां वा तान्तवमरक्तम् ६७
भवत्पूर्वां
ब्राह्मणो भिक्षां याचेत ६८
भवन्मध्यां राजन्यः ६९
भवदन्त्यां
वैश्यः ७०
आ षोडशाद्ब्राह्मणस्य नातीतः कालः ७१
आ द्वाविंशात्क्षत्रियस्य
७२
आ चतुर्विंशाद्वैश्यस्य ७३
नैतानुपनयेन्नाध्यापयेन्न
याजयेन्नैभिर्विवाहयेयुः ७५
पतितसावित्रीक उद्दालकव्रतं चरेत् ७६
द्वौ मासौ यावकेन
वर्तयेन्मासं पयसार्धमासमामिक्षयाष्टरात्रं घृतेन षड्रात्रमयाचितेन
त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत् ७७
अश्वमेधावभृथं गच्छेत् ७८
व्रात्यस्तोमेन वा यजेद्वा यजेद्वेति ७९
इति वासिष्ठधर्मशास्त्र एकादशोऽध्यायः ११
अथातः स्नातकव्रतानि १
स न कञ्चिद्याचेतान्यत्र राजान्तेवासिभ्यः २
क्षुधापरीतस्तु किञ्चिदेव याचेत कृतमकृतं वा क्षेत्रं
गामजाविकमन्ततो हिरण्यं धान्यमन्नं वा ३
न तु स्नातकः
क्षुधावसीदेदित्युपदेशः ४
न मलिनवाससा सह संवसेत
५
न रजस्वलया ६
नायोग्यया ७
न कुलङ्कुलः स्यात् ८
वत्सतन्त्रीं विततां
नातिक्रामेत् ९
नोद्यन्तमादित्यं पश्येन्नास्तं यन्तम् १०
नाप्सु मूत्रपुरीषे कुर्यात् ११
न निष्ठीवेत् १२
परिवेष्टितशिरा
भूमिमयज्ञियैस्तृ-णैरन्तर्धाय मूत्रपुरीषे कुर्यादुदङ्मुखश्चाहनि नक्तं
दक्षिणामुखः सन्ध्यामा-सीतोत्तरम् १३
अथाप्युदाहरन्ति
स्नातकानं तु नित्यं स्याद् अन्तर्वासस्तथोत्तरम्
यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः १४
अप्सु पाणौ च काष्ठे च कथितं पावके शुचिः
तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् १५
पर्यग्निकरणं ह्येतन् मनुराह प्रजापतिः १६
कृत्वा चावश्यकर्माणि आचामेच्छौचवित्तम इति १७
प्राङ्मुखोऽन्नानि भुञ्जीत १८
तूष्णीं साङ्गुष्ठं कृत्स्नग्रासं ग्रसेत १९
न च शब्दं
कुर्यात् २०
ऋतुकालगामी स्यात्पर्ववर्जं स्वदारेषु २१
अतिर्यगुपेयात् २२
अथाप्युदाहरन्ति
यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम्
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः
या स्यादनित्यचारेण रतिः साधर्मसंश्रिता २३
अपि च काठके विज्ञायतेए । अपि नः श्वो विजनिष्यमाणाः पतिभिः सह
शयीरन्निति स्त्रीणामिन्द्र दत्तो वर इति २४
न वृक्षमारोहेत् २५
न
कूपमवरोहेत् २६
नाग्निं मुखेनोपधमेत् २७
नाग्निं
ब्राह्मणं चान्तरेण व्यपेयात् २८
नाग्न्योः २९
न
ब्राह्मणयोरनुज्ञाप्य वा ३०
भार्यया सह
नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके
विज्ञायते ३१
नेन्द्र धनुर्नाम्ना निर्दिशेत् ३२
मणिधनुरिति
ब्रूयात् ३३
पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ३४
नोत्सङ्गे भक्षयेत् ३५
नासन्द्यां भुञ्जीत ३६
वैणवं दण्डं
धारयेत्द् ३७
रुक्मकुण्डले च ३८
न बहिर्मालां धारयेद्
अन्यत्र रुक्ममय्या ३९
सभाः समवायांश्च वर्जयेत् ४०
अथाप्युदाहरन्ति
अप्रामाण्यं च वेदानाम् आर्षाणां चैव कुत्सनम् अव्यवस्था च सर्वत्र
एतन्नाशनमात्मन इति ४१
नावृतो यज्ञं गच्छेद्यदि
व्रजेत्प्रदक्षिणं पुनराव्रजेत् ४२
अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ४३
नावं च
साम्शयिकीं नाधिरोहेत् ४४
बाहुभ्यां न नदीं तरेत् ४५
उत्थायापररात्रमधीत्य न पुनः प्रतिसंविशेत् ४६
प्राजापत्ये मुहूर्ते
ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति ४७
इति वासिष्ठधर्मशास्त्रे द्वादशोऽध्यायः १२
अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा १
अग्निमुपसमाधायाक्षतधाना जुहोति २
देवेभ्य
ऋषिभ्यश्छन्दोभ्यश्चेति ३
ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य
ततोऽध्यायानुपाकुर्वीरन् ४
अर्धपञ्चमान्मासानर्धषष्ठान्वा
५
अत ऊर्ध्वं शुक्लपक्षेष्वधीयीत ६
कामं तु वेदाङ्गानि ७
तस्यानध्यायाः ८
सन्ध्यास्तनिते ९
सन्ध्यासु १०
अन्तःशवदिवाकीर्त्येषु नगरेषु ११
कामं
गोमयपर्युषिते परिलिखिते वा १२
श्मशानान्ते १३
शयानस्य १४
श्राद्धिकस्य १५
मानवं चात्र श्लोकमुदाहरन्ति
फलान्यपस्तिलान्भक्षान् यच्चान्यच्छ्राद्धिकं भवेत्
प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति १६
धावतः पूतिगन्धप्रभृतावीरिणे १७
वृक्षारुढस्य १८
नावि सेनायां च १९
भुक्त्वा चार्द्र पाणेः २०
वाणशब्दे २१
चतुर्दश्यामामावास्यायामष्टम्यामष्टकासु
२२
प्रसारितपादोपस्थकृतोपाश्रितस्य च २३
गुरुसमीपे २४
मैथुनव्यपेतायाम् २५
वाससा मैथुनव्यपेतेनानिर्णिक्तेन २६
ग्रामान्ते २७
छर्दितस्य २८
मूत्रितस्योच्चारितस्य २९
ऋग्यजुषां च सामशब्दे वा ३०
अजीर्णे ३१
निर्घाते ३२
भूमिचलने ३३
चन्द्र सूर्योपरागे ३४
दिङ्नाद-पर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिकम् ३५
उल्काविद्युत्समासे त्रिरात्रम् ३६
उल्काविद्युत्सज्योतिषम् ३७
अपर्तावाकालिकम् ३८
आचार्ये प्रेते त्रिरात्रम् ३९
आचार्यपुत्रशिष्यभार्यास्वहोरात्रम् ४०
ऋत्विग्योनिसम्बन्धेषु च
४०-१
गुरोः पादोपसङ्ग्रहणं कार्य्यं ४०-२
ऋत्विक्श्वशुरपितृव्यमातुलाननवरवयसः
प्रत्युत्थायाभिवदेत् ४१
ये चैव पादग्राह्यास्तेषां भार्या गुरोश्च ४२
मातापितरौ च ४३
यो विद्यादभिवदितुमहमयं भो इति ब्रूयात् ४४
यश्च
न विद्यात् ४५
प्रत्यभिवादमामन्त्रिते स्वरोऽन्त्यः प्लवते
सन्ध्यक्षरमप्रगृह्यमायावभावं चापद्यते यथा भो
भाविति ४६
पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ४७
अथाप्युदाहरन्ति
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता
पितुर्दशशतं माता गौरवेणातिरिच्यते ४८
भार्या पुत्राश्च शिष्याश्च संसृष्टाः पापकर्मभिः
परिभाष्य परित्याज्याः पतितो योऽन्यथा त्यजेत् ४९
ऋत्विगाचार्यावयाजकानध्यापकौ हेयावन्यत्र हानात्पतति ५०
पतितेनोत्पन्नः
पतितो भवतीत्याहुरन्यत्र स्त्रियाः ५१
सा हि परगामिनी ५२
तामरिक्था-मुपेयात् ५३
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते
गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ५४
शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य ५५
विद्यावित्तवयःसम्बन्धाः
कर्म
च मान्यम् ५६
पूर्वः पूर्वो गरीयान् ५७
स्थविरबालातुरभारिकस्त्रीचक्रीवगतां
पन्थाः समागमे परस्मैपरस्मै देयः ५८
राजस्नातकयोः समागमे राज्ञा स्नातकाय
देयः ५९
सर्वैरेव वध्वा उह्यमानायै ६०
तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः
सतां गृहे नोच्छिद्यन्ते कदाचन कदाचनेति ६१
इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः १३
अथातो भोज्याभोज्यं च वर्णयिष्यामः १
चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभोज्यम्
२
कदर्यदीक्षितबद्धातुरसोमविक्रयितक्षरजकशौण्डिकसूचकवार्धुषिकचर्मावकृन्तानाम्
३
उपपतेर्यश्चोपपतिं मन्यते ६
यश्च गृहान्दहेत् ७
यश्च वधार्हान्नोपहन्यात्
८
को भोक्ष्यत इति वाचाभिघुष्टम् ९
गणान्नं गणिकान्नं चेति १०
अथाप्युदाहरन्ति
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृह इति ११
एधोदकयवसकुशलाजाभ्युद्यतयानावसथशफरीप्रियङ्गुस्रग्गन्धमधुमांसानीत्येतेषां प्रतिगृह्णीयात् १२
अथाप्युदाहरन्ति
गुर्वर्थं दारमुज्जिहीर्षन्न् अर्चिष्यन्देवतातिथीन्
सर्वतः प्रतिगृह्णियान् न तु तृप्येत्स्वयं तत इति १३
न मृगयोरिषुचारिणः परिवर्ज्यमन्नम् १४
विज्ञायते हि । अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार । तस्यासंस्तु रसमयाः पुरोडाशा मृगपक्षिणां
प्रशस्तानाम् १५
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति
उद्यतामाहृताम्भिक्षां पुरस्तादप्रचोदिताम्
भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः १६
श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः
न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् १७
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च
न च हव्यं वहत्यग्निर् यस्तामभ्यवमन्यते १८
चिकित्सकस्य मृगयोः शल्यहर्तुस्तु पापिनः
षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यत इति १९
उच्छिष्टमगुरोरभोज्यम् २०
स्वमुच्छिष्टमुच्छिष्टोपहतं च २१
ह् यद्वसनकेशकीटोपहतं च २२
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनावकीर्य
वाचा प्रशस्तमुपयुञ्जीत २३
अप्यह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते २४
देवद्रो ण्यां विवाहेषु यज्ञेषु प्रकृतेषु च
काकैः श्वभिश्च संस्पृष्टम् अन्नं तन्न विसर्जयेत् २५
तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति
द्र वाणां प्लावनेनैव घनानां प्रोक्षणेन तु २६
मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् २७
अन्नं पर्युषितं भावदुष्टं सहृल्लेखं पुनःसिद्धमाममांसं पक्वं च २८
कामं तु
दध्ना घृतेन वाभिघारितमुपयुञ्जीत २९
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति
घृतं वा यदि वा तैलं विप्रो नाद्यान्नखश्च्युतम्
यमस्तदशुचि प्राह तुल्यं गोमांसभक्षणैः ३०
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ३१
प्रदद्यान्न तु हस्तेन नायसेन कदाचनेति ३२
लशुनपलाण्डुक्याकुगृञ्जनश्लेष्मानतकवृक्षनिर्यासलोहितव्रश्चनश्वकाकाव
लीढशूद्रो च्छेषणभोजनेष्वतिकृच्छ्रः ३३
सन्धिनीक्षीरमवत्साक्षीरम् ३४
गोमहिष्यजानामनिर्दशाहानाम् ३५
अन्तर्नाव्युदकम् ३६
अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि
वर्जयेत् ३७
अन्यांश्च क्षीरयव-पिष्टविकारान् ३८
श्वावित्शल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ३९
अनुष्ट्राः पशूनामन्यतोदन्ताश्च ४०
मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीराः
४१
विकृतरूपाः सअशीर्षाश्च ४२
गौरगवयशरभाश्च ४३
अनुद्दिष्टास्तथा ४४
धेन्वनडुहावपन्नदन्ताश्च ४५
भक्ष्यौ तु धेन्वनडुहौ मेध्यौ
वाजसनेयके विज्ञायते ४६
खड्गे तु विवदन्त्यग्राम्यशूकरे च ४७
शकुनानां च विषु
विष्करजालपादकलविङ्कप्लवहंसचक्रवाकभासवायसपारावतकुररसारङ्गपाण्डुकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनबकबलाकमद्गुटिट्टिभामान्धालनक्तञ्चरदार्वाघाटचटकरैलातकाहारीतखञ्जरीटग्राम्यकुक्कुटशुकशारिककोकिलक्रव्यादो
ग्रामचारिणश्च ग्रामचारिणश्चेति ४८
इति वासिष्ठधर्मशास्त्रे चतुर्दशो ऽध्यायः १४
शोणितशुक्रसम्भवः पुरुषो भवति मातापितृनिमित्तकः १
तस्य
प्रदान-विक्रयत्यागेषु मातापितरौ
प्रभवतः २
न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ३
स हि सन्तानाय
पूर्वेषाम् ४
न स्त्री पुत्रं
दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः
५
पुत्रं प्रतिगृहीष्यन्बन्धूनाहूय राजनि च निवेद्य निवेशनस्य मध्ये
व्याहृतिभिर्हुत्वादूरबान्धवं बन्धुसन्निकृष्टमेव
प्रतिगृह्णीयात् ६
सन्देहे चोत्पन्ने दूरेबान्धवं
शूद्र मिव स्थापयेत् ७
विज्ञायते ह्येकेन बहूंस्त्रायत इति ८
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत
चतुर्थभागभागी स्याद्दत्तकः ९
यदि नाभ्युदयिकेषु
युक्तः स्यात् १०
वेदविप्लवकः शूद्र याजक उत्तमवर्णवर्गपतितास्तेषां
पात्रनिनयनम् ११
अपात्रसङ्कराद् अकृत्स्नं पात्रमादाय
दासो-ऽसवर्णपुत्रो वा बन्धुरसदृशो वा गुणहीनः सव्येन पादेन
प्रवृत्ताग्रान्दर्भांल्लोहितान्वोपस्तीर्य पूर्णपात्रमस्मै
निनयेत् १२
निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोऽन्वालभेरन्
१३
अपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन् १४
अत ऊर्ध्वं न तं धर्मयेयुः
१५
तद्धर्माणस्तं धर्मयन्तः १६
पतितानां तु चरि-तव्रतानां प्रत्युद्धारः
१७
अथाप्युदाहरन्ति
अग्रेऽभ्युद्धरतां गच्छेत् क्रीडन्निव हसन्निव
पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निव १८
आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा एषा तेषां प्रत्यापत्तिः १९
पुण्यह्रदात्प्रसृताद्वा काञ्चनं पात्रं माहेयं वा
पूरयित्वापोहिष्ठाभिरेनमद्भिरभिषिञ्चन्ति
२०
सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातो व्याख्यात इति
२१
इति वासिष्ठधर्मशास्त्रे पञ्चदशो ऽध्यायः १५
अथ व्यवहाराः १
राजा मन्त्री वा सदःकार्याणि कुर्यात् २
द्वयोर्विवदमानयोः
पक्षान्तरं न गच्छेत् ३
यथासनमपराधोह्यन्तेनापराधः ४
समः सर्वेषु भूतेषु
यथासनमपराधोह्याद्यवर्णयोर्विद्यान्ततः ५
सम्पन्नं च रक्षयेत् ६
राजबा-लधनानि ७
अप्राप्तव्यवहाराणाम् ८
प्राप्तकाले तु
तद्यत् ९
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्
धनस्वीकरणं पूर्वं धनी धनमवाप्नुयादिति १०
मार्गक्षेत्रेभ्यो विसर्गस्तथा परिवर्त्तनम् ११
तरुणगृहेष्वर्थान्तरेषु
त्रिपादमात्रम्
१२
गृहक्षेत्रविरोधे सामन्तप्रत्ययः १३
सामन्तविरोधे लिख्यप्रत्ययः १४
प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः १५
अथाप्युदाहरन्ति
पैतृकं क्रीतमाधेयम् अन्वाधेयं प्रतिग्रहम्
यज्ञादुपगमो वेणिस् तथा धूमशिखाष्टमीति १६
तत्र भुक्तानुभुक्तदशवर्षम् १७
अन्यथाप्युदाहरन्ति
आधिः सीमा बालधनो निक्षेपोपनिधिस्त्रियः
राजस्वं श्रोत्रियद्र व्यं न सम्भोगेन हीयते १८
प्रहीणद्र व्याणि राजगामीनि भवन्ति १९
ततोऽन्यथा राजा मन्त्रिभिः सह
नागरैश्च कार्याणि कुर्यात् २०
वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात्
२१
गृध्रपरिवारं वा राजा श्रेयान् २२
गृध्रपरिवारं स्यान्न गृध्रो
गृध्रपरिवारं स्यात् २३
परिवाराद्धि दोषाः प्रादुर्भवन्ति २४
स्तेयहारविनाशनं च २५
तस्मात्पूर्वमेव परिवारं पृच्छेत् २६
अथ साक्षिनः २७
श्रोत्रियो रूपवाञ्शीलवान्पुण्यवान्सत्यवान्साक्षिणः २८
सर्वेषु सर्व एव
वा २९
स्त्रीणां साक्षिणः स्त्रियः कुर्याद् द्विजानां सदृशा द्विजाः
शूद्रा णां सन्तः शूद्रा श्चान्त्यानामन्त्ययोनयः ३०
अथाप्युदाहरन्ति
प्रातिभाव्यं वृथादानम् अक्षिकं सौरिकं च यत्
दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति ३१
ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव
तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ३२
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः
अन्धः शत्रुकुले गच्छेद् यः साक्ष्यमनृतं वदेत् ३३
पञ्च कन्यानृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ३४
व्यवहारे मृतेदारे प्रायश्चित्तं कुलस्त्रियाः
तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः ३५
उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे
विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्च अनृतान्याहुरपातकानि ३६
स्वजनस्वार्थे यदि वार्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम्
ते शब्दवंशस्य कुलस्य पूर्वान् स्वर्गस्थितांस्तानपि पातयन्ति
अपि पातयन्तीति ३७
इति वासिष्ठधर्मशास्त्रे षोडशो ऽध्यायः १६
ऋणमस्मिन्सन्नयत्य् अमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य
पश्येच्चेज्जीवतो मुखम् १
अनन्ताः पुत्रिणां
लोका नापुत्रस्य लोकोऽस्तीति श्रूयते २
अप्रजाः सन्त्वत्रिण
इत्यभिशापः ३
प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ४
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति ५
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ६
अत्रोभयथाप्युदाहरन्ति ७
यद्यन्यगोषु वृषभो वत्सानं जनयेच्छतम्
गोमिनामेव ते वत्सा मोघं स्यन्दितमार्षभमिति ८
अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः
जनयितुः पुत्रो भवति सम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ९
बहूनामेकजातानाम् एकश्चेत्पुत्रवान्नरः
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः १०
बह्वीनामेकपत्नीनाम् एका पुत्रवती यदि
सर्वास्तास्तेन पुत्रेण पुत्रवन्त्य इति श्रुतिः ११
द्वादश इत्येव पुत्राः पुराणदृष्टाः १२
स्वयमुत्पादितः स्वक्षेत्रे
संस्कृतायां प्रथमः
१३
तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः १४
तृतीयः पुत्रिका १५
विज्ञायत
अभ्रातृका पुंसः पितॄनभ्येति प्रतीचीनं गच्छति पुत्रत्वम् १६
तत्र श्लोकः
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम्
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति १७
पौनर्भवश्चतुर्थः १८
या कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव
कुटुम्बमाश्रयति सा पुनर्भूर्भवति १९
या च क्लीबं पतितमुन्मत्तं वा
भर्त्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा
पुनर्भूर्भवति २०
कानीनः पञ्चमः २१
यम्पितृगृहेऽसंस्कृता
कामादुत्पादयेन्मातामहस्य पुत्रो भवतीत्याहुः
२२
अथाप्युदाहरन्ति
अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः
पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति २३
गृहे च गूढोत्पन्नः षष्ठः २४
इत्य् एते दायादा बान्धवास् त्रातारो महतो
भयाद्
इत्याहुः २५
अथादायादबन्धूनां सहोढ एव प्रथमः २६
या गर्भिणी संस्क्रियते
सहोढः पुत्रो भवति २७
दत्तको द्वितीयः २८
यं मातापितरौ दद्याताम् २९
क्रीतस्तृतीयः ३०
तच्छुनःशेपेन व्याख्यातम् ३१
हरिश्चन्द्रो वै राजा
सोऽजीगर्तस्य सौयवसेः पुत्रं चिक्राय ३२
स्वयमुपागतश्चतुर्थः ३३
तच्छुनःशेपेन व्याख्यातम् ३४
शुनःशेपो वै यूपे नियुक्तो देवतास्तुष्टाव
तस्येह देवताः पाशं विमुमुचुस्तमृत्विज ऊचुः ममैवायं पुत्रोऽस्त्विति
तान्ह न सम्पेदे ते सम्पादयामासुः एष एव यं कामयेत्तस्य पुत्रोऽस्त्विति
तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ३५
अपविद्धः पञ्चमः ३६
यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ३७
शूद्रा पुत्र एव षष्ठो
भवतीत्याहुर् इत्येतेऽदायादबान्धवाः ३८
अथाप्युदाहरन्ति
यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं हरेरन्निति ३९
अथ भ्रातॄणां दायविभागः ४०
याश्चानपत्यास्तासामा पुत्रलाभात् ४१
द्व्यंशं
ज्येष्ठो हरेत् ४२
गवाश्वस्य चानुदशमम् ४३
अजावयो गृहं च कनिष्ठस्य ४४
कार्ष्णायसं गुहोपकरणानि च मध्यमस्य ४५
मातुः पारिणेयं स्त्रियो
विभजेरन् ४६
यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युः
४७
त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् ४८
द्व्यंशं राजन्यायाः पुत्रः
४९
सममितरे विभजेरन् ५०
येन चैषां स्वयमुत्पादितं स्याद्द्व्यंशं एव
हरेत् ५१
अनंशास्त्वाश्रमान्तरगताः ५२
क्लीबोन्मत्तपतिताश्च ५३
भरणं क्लीबोन्मत्तानाम् ५४
प्रेतपत्नी षण्मासान् व्रतचारिण्यक्षारलवणं
भुञ्जानाधः शयीत ५५
ऊर्ध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये
दत्त्वा विद्याकर्मगुरुयोनि-सम्बन्धान्सन्निपात्य पिता भ्राता वा नियोगं
कारयेत् ५६
न सोन्मादामवशां व्याधितां वा नियुञ्ज्यात् ५७
ज्यायसीमपि
५८
षोडश वर्षाणि ५९
न चेदामयावी स्यात् ६०
प्राजापत्ये मुहूर्ते
पाणिग्राहवदुपचरेदन्यत्र
सम्प्रहास्यवाक्पारुष्यदण्डपारुष्याच्च
६१
ग्रासाच्छादनस्नानानुलेपनेषु प्राग्गामिनी स्यात् ६२
अनियुक्तायामुत्पन्न उत्पादयितुः
पुत्रो भवतीत्याहुः ६३
स्याच्चेन्नियोगिनोः ६४
रिक्थलोभान्नास्ति
नियोगः ६५
प्रायश्चित्तं वाप्युपदिश्य नियुञ्ज्यादित्येके ६६
कुमार्यृतुमती त्रीणि वर्षाण्युपासीत ६७
ऊर्ध्वं त्रिभ्यो
वर्षेभ्यः पतिं विन्देत्तुल्यम् ६८
अथाप्युदाहरन्ति
पितुः प्रमादात्तु यदीह कन्या वयःप्रमाणं समतीत्य दीयते
सा हन्ति दातारमुदीक्षमाना कालातिरिक्ता गुरुदक्षिणेव ६९
प्रयच्छेन्नग्निकां कन्याम् ऋतुकालभयात्पिता
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ७०
यावन्तः कन्यामृतवः स्पृशन्ति तुल्यैः सकामामभियाच्यमानाम्
भ्रूणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः ७१
अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि
न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ७२
बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ७३
पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता
सा चेदक्षतयोनिः स्यात् पुनःसंस्कारमर्हतीति ७४
प्रोषितपत्नी पञ्च वर्षाण्युपासीत ७५
ऊर्ध्वं पञ्चभ्यो वर्षेभ्यो
भर्तृसकाशं गच्छेत्
७६
यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं
वर्तितव्यं स्यात् ७७
अत ऊर्ध्वं
समानार्थजन्मपिण्डोदकगोत्राणां
पूर्वः पूर्वो गरीयान् ७९
न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ८०
यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यात्सपिण्डाः पुत्रस्थानीया
वा तस्य धनं विभजेरन् ८१
तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ८२
तयोरलाभे
राजा हरेत् ८३
न तु ब्राह्मणस्य राजा हरेत् ८४
ब्रह्मस्वं तु विषं घोरम् ८५
न विषं विषमित्याहुर् ब्रह्मस्वं विषमुच्यते
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ८६
त्रैविद्यसाधुभ्यः सम्प्रयच्छेत्सम्प्रयच्छेदिति ८७
इति वासिष्ठधर्मशास्त्रे सप्तदशोऽध्यायः १७
शूद्रे ण ब्राह्मण्यामुत्पन्नश्चाण्डालो भवतीत्याहुः १
राजन्यायां वैणः २
वैश्यायामन्त्यावसायी ३
वैश्येन ब्राह्मण्यामुत्पन्नो रामको
भवतीत्याहुः ४
राजन्यायां पुल्कसः ५
राजन्येन
ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः ६
अथाप्युदाहरन्ति
छन्नोत्पन्नाश्च ये केचित् प्रातिलोम्यगुणाश्रिताः
गुणाचारपरिभ्रंशात् कर्मभिस्तान्विजानीयुरिति ७
एकान्तराद्व्यन्तरात्र्! यन्तरासु जाता ब्राह्मणक्षत्रियवैश्यैरम्बष्ठोग्रनिषादा भवन्ति
८
शूद्रा यां पारशवः ९
पारशवो नेव जीवन्नेव शवो भवतीत्याहुः १०
शव इति
मृताख्या एके वा एतच्छ्मशानं ये शूद्राः ११
तस्माच्छूद्र समीपे
नाध्येतव्यम् १२
अथापि यमगीताञ्श्लोकानुदाहरन्ति
श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः
तस्माच्छूद्र समीपे तु नाध्येतव्यं कदा चन १३
न शूद्रा य मतिं दद्यान् नोच्छिष्टं न हविष्कृतम्
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् १४
यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत्
सोऽसंवृत्तं तमो घोरं सह तेन प्रपद्यत इति १५
व्रणद्वारे कृमिर्यस्य सम्भवेत कदा चन
प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा इति १६
नाग्निं चित्वा रामामुपेयात् १७
कृष्णवर्णा या रामा रमणायैव न धर्माय न
धर्माय १८
इति वासिष्ठधर्मशास्त्रेऽष्टादशोऽध्यायः १८
स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः १
भयकारुण्यहानं
जरामर्यं वा एतत्सत्त्रमाहुर्विद्वांसः २
तस्माद्गार्हस्थ्यनैयमिकेषु
पुरोहितं दध्यात् ३
विज्ञायते । ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ४
उभयस्य
पालनात् ५
असामर्थ्याच्च ६
देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य
राजा चतुरो वर्णान्स्वधर्मे स्थापयेत् ७
तेष्वपचरत्सु दण्डं धारयेत्
८
दण्डस्तु देशकालधर्मवयो-विद्यास्थानविशेषैर्हिंसाक्रोशयोः कल्प्यः ९
आगमाद्दृष्टान्ताच्च १०
पुष्पफलोपगान्पादपान्न हिंस्यात् ११
कर्षणकारणार्थं चोपहन्यात् १२
गार्हस्थ्याङ्गानां च
मानोन्माने रक्षिते स्याताम् १३
अधिष्ठानान्न नीहारः
स्वार्थानाम् १४
मानमूल्यमात्रं नैहारिकं स्यात्
१५
महामहयोः स्थानात्पथाः स्यात् १६
संयाने दशवाहवाहिनी द्विगुणकारिणी
स्यात् १७
प्रत्येकं प्रपाः स्युः १८
पुंसां शतावरार्ध्यं चाहवयेत् १९
अव्यर्थाः स्त्रियः स्युः २०
कराष्ठीला माषः शरमध्यापः पादः
कार्षापणाः स्युः २१
निरुदकस्तरो ऽमाष्यः २२
अकरः
श्रोत्रियो राजपुमाननाथप्रव्रजितबालवृद्धतरुणप्रजाताः २३
प्राग्गामिकाः कुमार्यो भृतपत्न्यश्च २४
बाहुभ्यामुत्तरञ्शतगुणं
दद्यात् २५
नदीक-क्षवनदाहशैलोपभोगा निष्कराः स्युः २६
तदुपजीविनो वा
दद्युः २७
प्रतिमासमुद्वाहकरं त्वागमयेत् २८
राजनि च प्रेते
दद्यात्प्रासङ्गिकम् २९
एतेन
मातृवृत्तिर्व्याख्याता ३०
राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात् ३१
तद्बन्धूंश्चान्यांश्च ३२
राजपत्न्यो ग्रासाच्छादनं
लभेरन् ३३
अनिच्छन्त्यो वा प्रव्रजेरन् ३४
क्लीबोन्मत्तान्राजा बिभृयात्
३५
तद्गामित्वाद्रि क्थस्य ३६
शुल्के चापि मानवं श्लोकमुदाहरन्ति
न भिन्नकार्षापनमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते
न भैक्षलब्धे न हुतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञ इति ३७
स्तेनोऽनुप्रवेशान्न दुष्यते ३८
शस्त्रधारी सहोढो व्रणसम्पन्नस्य व्यपदिष्टस्त्वेकेषाम् ३९
दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् ४०
त्रिरात्रं पुरोहितः
४१
कृच्छ्रमदण्ड्यदण्डने पुरोहितः ४२
त्रिरात्रं राजा ४३
अथाप्युदाहरन्ति
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या अपचारिणी
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिशम् ४४
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ४५
एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम्
तं चेद्वा घातयेद्रा जा हन्ति धर्मेण दुष्कृतमिति ४६
राज्ञामात्ययिके कार्ये सद्यः शौचं विधीयते
तथानात्ययिके नित्यं काल एवात्र कारणमिति ४७
यमगीतं चात्र श्लोकमुदाहरन्ति
नाद्य दोषोऽस्ति राज्ञां वै व्रतिनां न च सत्रिणाम्
ऐद्र स्थानमुपासीना ब्रह्मभूता हि ते सदेति हि ते सदाइति ४८
इति वासिष्ठधर्मशास्त्रे एकोनविंशोऽध्यायः १९
सूर्याभ्युदितः सूर्याभिनिम्रुक्तः कुनखी श्यावदन्तः परिवित्तिः परिवेत्ताग्रे दिधिषूर्दिधिषूर्दिधिषूपतिर्वीरहा ब्रह्मोज्झ इत्येनस्विनः १८
अनभिसन्धिकृते प्रायश्चित्तमपराधे १
अभिसन्धिकृतेऽप्येके २
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यम इति ३
तत्र च सूर्याभ्युदितः सन्नहस् तिष्ठेत्सावित्री च जपेत् ४
एवं
सूर्याभिनिर्मुक्तो
रात्रावासीत् ५
कुनखी श्यावदन्तस्तु कृच्छ्रं द्वादशरात्रं चरेत् ६
परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां
चैवोपयच्छेत् ७
अथ परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै
दत्त्वा पुनर्निविशेत तां चैवोपयच्छेत् ८
अग्रे दिधिषूपतिः कृच्छ्रं
द्वादशरात्रं चरित्वा निविशेत तां चोपयच्छेत् ९
दिधिषूपतिः
कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा
पुनर्निविशेत् १०
वीरहणं परस्ताद्वक्ष्यामः ११
ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत
वेदमा-चार्यात् १२
गुरुतल्पगः सवृषणं
शिश्नमुद्धृत्याञ्जलावाधाय
दक्षिणामुखे गच्छेद्यत्रैव प्रतिहन्यात्तत्र तिष्थेदा प्रलयम् १३
निष्कालको वा घृताभ्यक्तस्तप्तां सूर्मीं परिष्वजेन्मरणात्पूतो भवतीति
विज्ञायते १४
आचार्य-पुत्रशिष्यभार्यासु चैवम् १५
योनिषु गुर्वीं
सखीं गुरुसखीम् अपपात्रां पतितां च गत्वा कृच्छ्राब्दपादं चरेत् १६
एतदेव
चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनं वपनादीनां तु निवृत्तिः १७
मानवं चात्र श्लोकमुदाहरन्ति
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च
एतानि तु निवर्तन्ते पुनःसंस्कारकर्मणीति १८
मत्या मद्यपणे त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतं
प्राश्य पुनःसंस्कारश्च १९
मूत्रशकृत्शुक्राभ्यवहारेषु चैवम् २०
मद्यभाण्डे स्थिता आपो
यदि कश्चिद्द्विजः पिबेत् पद्मोदुम्बरबिल्वपलाशानामुदकं पीत्वा
त्रिरात्रेणैव शुध्यति २१
अभ्यासे तु सुराया
अग्निवर्णां तां द्विजः पिबेन्मरणात्पूतो भवतीति २२
भ्रूणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं च गर्भम्
२३
अविज्ञाता हि गर्भाः पुमांसो भवन्ति तस्मात्पुंस्कृत्या जुह्वतीति २४
भ्रूणहाग्निमुपसमाधाय जुहुयादेताः २५
लोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वासय इति प्रथमां
त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति द्वितीयां
लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीयां
मांसं मृत्योर्जुहोमि मांसेन मृत्युं वासय इति चतुर्थीं
स्नावानि मृत्योर्जुहोमि स्नावभिर्मृत्युं वासय इति पञ्चमीं
मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय इति षष्ठीं
अस्थीनि मृत्योर्जुहोम्य् अस्थिभिर्मृत्युं वासय इति सप्तमीं
मज्जानं मृत्योर्जुहोमि मज्जाभिर्मृत्युं वासय इत्यष्टमीमिति २६
राजार्थे ब्राह्मणार्थे वा सङ्ग्रामेऽभिमुखमात्मानं घातयेत् २७
त्रिरजितो
वापराद्धः पूतो भवतीति विज्ञायते हि २८
निरुक्तं ह्येनः कनीयो भवतीति
२९
तथाप्युदाहरन्ति ।
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेदिति ३०
एवं राजन्यं हत्वाष्टौ वर्षाणि चरेत् ३१
षड्वैश्यम् ३२
त्रीणि शूद्र म् ३३
ब्राह्मणीं चात्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौ ३४
आत्रेयीं वक्षामो
रजस्वलामृतुस्नातामात्रेयीमाहुः ३५
अत्र ह्येष्य दम्पति यं भवतीति
३६
अनात्रेयीं राजन्यहिंसायाम् ३७
राजन्यां वैश्यहिंसायाम् ३८
वैश्यां
शूद्र हिंसायाम् ३९
शूद्रां हत्वा संवत्सरम् ४०
ब्राह्मणसुवर्णहरणे
प्रकीर्य केशान्राजानमभिधावेत्स्तेनोऽस्मि भो शास्तु मां भवानिति तस्मै
राजोदुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेन्मरणात्पूतो भवतीति
विज्ञायते ४१
निष्कालको वा घृताक्तो गोमयाग्निना
पादप्रभृत्यात्मानम-भिदाहयेन्मरणात्पूतो भवतीति
विज्ञायते ४२
अथाप्युदाहरन्ति
पुरा कालात्प्रमीतानां पापाद्विविधकर्मणाम्
पुनरापन्नदेहानाम् अङ्गं भवति तच्छृणु ४३
स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा
सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग इति ४४
पतित सम्प्रयोगे च ब्राह्मेण वा यौनेन वा यास्तेभ्यः सकाशान्मात्रा
उपलब्धास्तासां परित्यागस्तैश्च न संवसेत् ४५
उदीचीं
दिशं गत्वानश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ४६
तथाप्युदाहरन्ति
शरीरपरितापेन तपसाध्ययनेन च
मुच्यते पापकृत्पापाद् दानाच्चापि प्रमुच्यते
इति विज्ञायते विज्ञायते इति ४७
इति वासिष्ठधर्मशास्त्रे विंशोऽध्यायः २०
शूद्र श्चेद्ब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्र मग्नौ
प्रास्येद्ब्राह्मण्याः शिरसि वपनं कारयित्वा सैषा
समभ्यज्य नग्नां कृष्णखरमारोप्य महापथमनुसं-व्राजयेत्पूता भवतीति
विज्ञायते १
वैश्यश्चेद्ब्राह्मणीमभिगच्चेल्लोहितदर्भैर्वेष्टयित्वा
वैश्यमग्नौ प्रास्येद्ब्राह्मण्याः शिरसि वपनं कारयित्वा सैषा समभ्यज्य
नग्नां गौरखरमारोप्य महापथमनुसंव्राजयेत्पूता भवतीति विज्ञायते २
राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैः वेष्टयित्वा राजन्यमग्नौ
प्रास्येद्ब्रा-ह्मण्याः शिरसि वपनं कारयित्वा सैषा समभ्यज्य
नग्नां श्वेतखरमारोप्य महापथमनुसंव्राजयेत्पूता भवतीति विज्ञायते ३
एवं वैश्यो राजन्यायाम् ४
शूद्र श्च राजन्यावैश्ययोः ५
मनसा भर्तुरतिचारे
त्रिरात्रं यावकं क्षीरोदनं वा भूञ्जानाधः शयीतोर्ध्वं त्रिरात्रादप्सु
निमग्नायाः सावित्र्याष्टशतेन शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ६
वाक्सम्बन्ध एतदेव मासं चरित्वोर्ध्वं मासादप्सु निमग्नायाः
सावित्र्याश्चतुर्भिरष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति
विज्ञायते ७
व्यवाये तु संवत्सरं घृतपटं धारयेद्गोमयगर्त कुशप्रस्तरे वा
शयीतोर्ध्वं संवत्सरादप्सु निमग्नायाः सावित्र्! यष्टशतेन
शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ८
व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ९
चतस्रस्तु
परित्याज्याः शिष्यगा गुरुगा च या पतिघ्नी च विशेषेण
जुङ्गितोपगता च या १०
या ब्राह्मणी स्यादिह वै सुरापी न तां देवाः पतिलोकं
नयन्तीहैव सा चरति क्षीणपुण्याप्सु लुग्भवति शुक्तिका वा ११
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रे ण सङ्गताः
अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः १२
प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रा यणोत्तरम् १३
पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम्
तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणिनाम् १४
पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्
पतितार्धशरीरस्य निष्कृतिर्न विधीयते १५
ब्राह्मणश्चेदप्रेक्षापूर्वं ब्राह्मणदारानभिगच्छेदनिवृत्तधर्मकर्मणः
कृच्छ्रो निवृत्तधर्मकर्मणोऽतिकृच्छ्रः १६
एवं राजन्यवैश्ययोः १७
गां
चेद्धन्यात्तस्याश्चर्मणाद्रे
र्ण! परिवेष्टितः षण्मासान्कृच्छ्रं तप्तकृच्छ्रं वातिष्ठेत् १८
तयोर्विधिः १९
त्र्! यहं दिवा भुक्ते नक्तमश्नाति वै त्र्यहमपि
त्र्! यहमयाचितव्रतस्त्र्! यहं न भुगिति कृच्छ्रः २०
त्र्! यहमुष्णाः पिबेदापस् त्र्यहमुष्णं पयःपिबेत्
त्र्! यहमुष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् इति तप्तकृच्छ्रः २१
ऋषभवेहतौ च दद्यात् २२
अथाप्युदाहरन्ति
त्रय एव पुरा रोगा ईर्ष्या अनशनं जरा
पृषद्बस्तवयं हत्वा अष्टानवतिमाहरेदिति २३
श्वमार्जारनकुलसअदर्दुरमूषकान्हत्वा कृच्छ्रं द्वादशरात्रं चरेत्किञ्चिद्दद्यात् २४
अनस्थिमतां तु सत्त्वानं गोमात्रं राशिं हत्वा कृच्छ्रं द्वादशरात्रं
चरेत्किञ्चिद्दद्यात् २५
अस्थिमतां त्वेकैकम् २६
योऽग्नीनपविध्येत्कृच्छ्रं द्वादशरात्रं
चरित्वा पुनराधानं कारयेत् २७
गुरोश्चालीकनिर्बन्धे सचैलं स्नात्वा
गुरुं प्रसाद-येत्प्रसादात्पूतो भवतीति विज्ञायते २८
नास्तिकः कृच्छ्रं
द्वादशरात्रं चरित्वा विरमेन्नास्तिक्यात् २९
नास्तिकवृत्तिस्त्वतिकृच्छ्रम्
३०
एतेन सोमविक्रयी व्याख्यातः ३१
वानप्रस्थो दीक्षाभेदे कृच्छ्रं
द्वादशरात्रं चरित्वा महाकक्षे वर्धयेत् ३२
भिक्षुकैर्वानप्रस्थवत्सोमवृद्धिवर्धनं
स्वशास्त्रसंस्कारश्च स्वशा-स्त्रसंस्कारश्चेति ३३
इति वासिष्ठधर्मशास्त्रे एकविंशोऽध्यायः २१
अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयत्यप्रतिग्राह्यं वा
प्रतिगृह्णात्यनन्नं वाश्नात्यनाचारणीयमेवाचरति १
तत्र
प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते २
न
कुर्यादित्याहुः ३
न हि कर्म क्षीयत इति ४
कुर्यादित्येव
तस्माच्छ्रुतिनिदर्शनात् ५
तरति सर्वं पाप्मानं
तरति ब्रह्महत्त्यां योऽश्वमेधेन यजत इति ६
इति चाभिशस्तो
गोसवेनाग्निष्टुता यजेत ७
तस्य निष्क्रयणानि जपस्तपो
होम उपवासो दानम् ८
उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसंहिता
मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे
सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ९
अथाप्युदाहरन्ति
वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च
सकृदृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति १०
उपवासन्यायेन पयोव्रतता फलभक्षता प्रसृतयावको हिरण्यप्राशनं सोमपानमिति मेध्यानि ११
सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या
ह्रदास्ती-र्थान्यृषिनिवासगोष्ठपरिष्कन्धा इति
देशाः १२
संवत्सरो मासश्चतुर्विशत्यहो द्वादशाहः षडहत्र्!
र्यहोऽहोरात्रा इति कालाः १३
एतान्येवानादेशे विकल्पेन
क्रियेरन् १४
एनःसु गुरुषु गुरूणि लघुषु लघूनि १५
कृच्छ्रातिकृच्छ्रौ चान्द्रा यणमिति
सर्वप्रायश्चित्तिः सर्वप्रायश्चित्तिरिति १६
इति वासिष्ठधर्मशास्त्रे द्वाविंशोऽध्यायः २२
ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं
गर्दभं पशुमालभेत् १
नैरृतं वा चरुं निर्वपेत् २
तस्य
जुहुयात्कामाय स्वाहा कामकामाय स्वाहा नैरृत्यै स्वाहा
रक्षोदेवताभ्यः स्वाहेति ३
एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने
व्रतान्तेषु वा समावर्तनात् ४
तिर्यग्योनिव्यवाये शुक्लमृषभं दद्यात् ५
गां गत्वा शूद्रा वधेन दोषो व्याख्यातः ६
ब्रह्मचारिणः शवकर्मणो
व्रतान्निवृत्तिः ७
अन्यत्र मातापित्रोः ८
स
चेद्व्याधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सर्वं
प्राश्नीयात् ९
गुरुप्रयुक्तश्चेन्म्रियेत
त्रीन्कृच्छ्रांश्चरेद्गुरुः १०
ब्रह्मचारी चेन्मंसमश्नीयादुच्छिष्टभोजनीयं कृच्छ्रं
द्वादशरात्रं चरित्वा व्रतशेषं समापयेत् ११
श्राद्धसूतकभोजनेषु चैवम् १२
अकामतोऽपनतं मधु
वाजसनेयके न दुष्यतीति विज्ञायते १३
मानुषास्थि स्निग्धं
स्पृष्ट्वा त्रिरात्रमाशौचम् २४
अस्निग्धे त्वहोरात्रम् २५
शवानुगमने चैवम् २६
अन्धीयानाना-मन्तरागमनेऽहोरात्रमभोजनम्
२७
त्रिरात्रमभिषेको विवासश्चान्योन्येन २८
श्वमार्जारनकुलशीघ्रगाणामहोरात्रम्
२९
श्वकुक्कुटग्राम्यशूकरकङ्कगृध्रभासपारावतमानुषकाकोलूकमांसादने
सप्तरात्रमुपवासो निष्पुरीषीभावो घृतप्राशः
पुनःसंस्कारश्च ३०
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्र गाम्
प्राणायामशतं कृत्वा घृतं प्राश्य ततः शुचिरिति ३१
कालोऽग्निर्मनसाः शुद्धिर् उदकार्कावलोकनम्
अविज्ञानं च भूतानं षड्विधा शुद्धिरिष्यत इति ३२
श्वचाण्डालपरितोपस्पर्शने सचैलं स्नातः सद्यः पूतो भवतीति विज्ञायते ३३
पतितचाण्डालारावश्रवणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् ३४
सहस्रपरमं वा
तदभ्यसन्तः पूता भवतीति विज्ञायते ३५
एतेनैव गर्हिताध्यापकयाजका व्याख्याता
दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायते ३६
एतेनैवाभिशस्तो व्याख्यातः ३७
भ्रूणहत्यायां द्वादशरात्रमब्भक्षो द्वादशरात्रमुपवसेत् ३८
ब्रा-ह्मणमनृतेनाभिशंस्य पतनीयेनोपपतनीयेन
वा मासमब्भक्षः शुद्धवतीरावर्तयेत् ३९
अश्वमेधावभृथं वा गच्छेत् ४०
एतेनैव चाण्डालीव्यवायो व्याख्यातः ४१
अथापरः कृच्छ्रविधिः साधारणो
व्यूढः ४२
अहः प्रातरहर्नक्तमहरेकमयाचितम्
अहः पराकं तन्त्रैकमेवं चतुरहौ परौ
अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः
बालवृद्धातुरेष्वेवं शिशुकृच्छ्रमुवाच ह ४३
अथ चान्द्रा यनविधि ४४
मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश ।
ग्रासोपचयभोजी स्यात् पक्षशेषं समापयेत् एवं हि शुक्लपक्षादौ ग्रासमेकं तु
भक्षयेत् । ग्रासापचयभोजी स्यात् पक्षशेषं समापयेत् ४५
अत्रैव
गायेत्सामानि अपि वा व्याहृतीर्जपेत् ४६
एष चान्द्रा
यणो मासः पवित्रमृषिसंस्तुतः । अनादिष्टेषु सर्वेषु प्रायश्चित्तं विधीयते
विधीयते इति ४७
इति वासिष्ठधर्मशास्त्रे त्रयोविंशोऽध्यायः २३
अथातिकृच्छ्रः १
त्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छ्रो
यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः २
कृच्छ्रोऽब्भक्षः स कृच्छ्रातिकृच्छ्रः ३
कृच्छ्राणां व्रतरूपाणि ४
श्मश्रुकेशान्वापयेद्भ्रूवोऽक्षिलोमशिखावर्जं
नखान्निकृत्यैकवासोऽनिन्दितभोजी
सकृद्भैक्षमनिन्दितं त्रिषवणमुदकोपस्पर्शी दण्डी कमण्डलुः स्त्रीशूद्र
सम्भाषणवर्जी स्थानासनशील अहस्तिष्ठेद्रा त्रावासीतेत्याह
भगवान्वसिष्ठः ५
स तद्यदेतद्धर्मशास्त्रं नापुत्राय
नाशिष्याय नासंवत्सरोषिताय दद्यात् ६
सहस्रं दक्षिणा
ऋषभैकादशा गुरुप्रसादो वा गुरुप्रसादो वेति ७
इति वासिष्ठधर्मशास्त्रे चतुर्विंशोऽध्यायः २४
अविख्यापितदोषाणां पापानां महतां तथा
सर्वेषां चोपपापानां शुद्धिं वक्ष्याम्यशेषतः १
आहिताग्नेर्विनीतस्य वृद्धस्य विदुषोऽपि वा
रहस्योक्तं प्रायश्चित्तं पूर्वोक्तमितरे जनाः २
प्राणायामैः पवित्रैश्च दानैर्होमैर्जपैस्तथा
निर्ययुक्तो प्रमुच्यन्ते पातकेभ्यो न संशयः ३
प्रानायामान्पवित्राणि व्याहृतीः प्रणवं तथा
पवित्रपाणिरासीनो ब्रह्म नैत्यकमभ्यसेत् ४
आवर्तयन्सदा युक्तः प्रानायामान्पुनः पुनः
आ लोमाग्रान्नखाग्राच्च तपस्तप्यतु उत्तमम् ५
निरोधाज्जायते वायुर् वायोरग्निर्हि जायते
तापेनापोऽथ यायन्ते ततोऽन्तः शुध्यते त्रिभिः ६
न तां तीव्रेण तपसा न स्वाध्यायैर्न चेज्यया
गतिं गन्तुं द्विजाः शक्ता योगात्सम्प्रवन्ति याम् ७
योगात्सम्प्राप्यते ज्ञानं योगो धर्मस्य लक्षणम्
योगः परं तपो नित्यं तस्माद्युक्ताः सदा भवेत् ८
प्रणवे नित्ययुक्तस्स्याद् व्याहृतीषु च सप्तसु
त्रिपदायां च गायत्यां न भयं विद्यते क्वचित् ९
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः
वाङ्मयं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् १०
एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् ११
सर्वेषामेव पापानां सङ्करे समुपस्थिते
अभ्यासो दशसाहस्रः सावित्र्याः शोधनं महत् १२
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह
त्रिः पठेदायतप्राणः प्रानायामः स उच्यते स उच्यते इति १३
इति वासिष्ठधर्मशास्त्रे पञ्चविंसो ऽध्यायः २५
प्राणायामान्धारयेत् त्रीन्यो यथाविध्यतन्त्रितः
अहोरात्रकृतं पापं तत्क्षणादेव नश्यति १
कर्मणा मनसा वाचा यदह्ना कृतमैनसम्
आसीनः पश्चिमां सन्ध्यां प्रानायामैर्व्यपोहति २
कर्मणा मनसा वाचा रात्र्या कृतमैनसम्
अत्तिष्ठन्पूर्वसम्ध्यां तु प्रानायामैर्व्यपोहति ३
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश
अपि भृउणहनं मासात् प्नन्त्यहरहर्कृताः ४
जप्त्वा कौत्समपेत्यैतद् वासिष्ठं च त्रिचं प्रति
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ५
सक्शञ्जप्त्वास्यवामीयं शिवसङ्कल्पमेव च
सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ६
हविष्यन्तीयमभ्यस्य न तं मह इति त्रिचं
सूक्तं च पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ७
अपि वाप्सु निमज्जानस् त्रिर्जपेदवमर्षणम्
यथाश्वमेधावभृथस् तादृशं मनुरब्रवीत् ८
आरम्भयज्ञाज्जपयज्ञो विशिष्ठो दशभिर्गुणैः
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ९
ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशिम् १०
जाप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः
कुर्यादन्यं न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ११
जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम्
न परिवसन्ति पापानि ये च स्नाताः शिरोव्रतैः १२
यथाग्निर्वायुना धूतो हविषा चैव दीप्यते
एवं जाप्यपरो नित्यं ब्राह्मणः सम्प्रदीप्यते १३
स्वाध्यायाध्यायिनां नित्यं नित्यं च प्रयतात्मनाम्
जपतां जुह्वतां चापि विनिपातो न विद्यते १४
सहस्रपरमां देवीं शतमध्यां दशावराम्
शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः १५
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः
धनेन वैश्यशुद्रौ तु जपैर्होमैर्द्विजोत्तमः १६
यथाश्वा रथहीनाः स्यू रथो वाश्वैर्विना यथा
एवं तपस्त्वविद्यस्य विद्या वाप्यतपस्विनः १७
यथान्नं मधुसंयुक्तं मधु वान्नेन संयुतम्
एवं तपश्च विद्या च संयुक्तं भेषजं महत् १८
विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम्
सदापि पापकर्माणम् एनो न प्रतियुज्यते एनो न प्रतियुज्यत इति १९
इति वासिष्ठधर्मशास्त्रे षड्विंशो ऽध्यायः २६
यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते
सर्वं तत्तस्य वेदाग्निर् दहत्यग्निरिवेन्धनम् १
यथा जातबलो वह्निर् दहत्याद्रा र्न!पि द्रुमान्
तथा दहति वेदाग्निः कर्मजं दोषमात्मनः २
हत्वापि स इमाँ ल्लोकान् भुञ्जानोऽपि यतस्ततः
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ३
न वेदबलमाश्रित्य पापकर्मरतिर्भवेत्
अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ४
तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः
ऋचमेकां च योऽधीते तच्च तानि च तत्समम् ५
इतिहासपुराणाभ्यां वेदं समुपबृहयेत्
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ६
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्रमः
नाशयत्याशु पापानि महापातकजान्यपि ७
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्त्रितः
तद्धि कुर्वन्यथाशक्त्या प्राप्मोति परमां गतिं ८
याजनाध्यापनाद् यौनात्तथैवासत्प्रतिग्रहात्
विप्रेषु न भवेद्दोषो ज्वलनार्कसमो हि सः ९
शङ्खास्थाने समुत्पन्ने अभोज्यभोज्यसञ्ज्ञके
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु १०
अक्षारलवणां रूक्षां पिबेद्ब्राह्मीं सुवर्चलाम्
त्रिरात्रं शङ्खपुष्पीं च ब्राह्मणः पयसा सह ११
पलाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान्
क्वाथयित्वा पिबेदापस् त्रिरात्रेणैव शुध्यति १२
गोमूत्रं गोमयं क्षीरं दधि सैः कुशोदकम्
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् १३
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा
पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति १४
यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति
विशुद्धभावे शुद्धाः स्युर् अशुद्धे तु सरागिणः १५
हविष्यान्प्रातराशाम्स्त्रीन् सायमाशांस्तथैव च
अयाचितं तथैव स्याद् उपवासत्रयं भवेत् १६
अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः
रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम् १७
सावित्र्! यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ
मुच्यते पातकैः सर्वैर् यदि न ब्रह्महा भवेत् १८
यो वै स्तेनः सुरापो वा भृउणहा गुरुतल्पगः
धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः १९
दुरितानां दुरिष्टानां पापानां महतां तथा
कृच्छ्रं चान्द्रा यणं चैव सर्वपापप्रणाशनम् २०
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्
अभावास्यां न भुञ्जीत एवं चान्द्रा यणो विधिः एवं चान्द्रा यणो विधिरिति २१
इति वासिष्ठधर्मशास्त्रे सप्तविंशो ऽध्यायः २७
न स्त्री दुष्यति जारेण न विप्रो देवकर्मणा
नापो मूत्रपुरीषेण नाग्निर्दहनकर्मणा १
स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा २
न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते
पुष्पकालमुपासीत ऋतुकालेन शुध्यति ३
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित्
मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ४
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः
गच्छन्ति मानुषान्पश्चान् एता दुष्यन्ति धर्मतः ५
तासां सोमो ऽददच्छौचं गन्धर्वः शिक्षितां गिरम्
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ६
त्रीणि स्त्रियः पातकानि लोके धर्मविदो विदुः
भतृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ७
वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने
स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ८
अजाश्वा मुखतो मेध्या गावो मेध्यास्तु सर्वतः ९
सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम्
येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः १०
अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः
कूष्माण्डानि पावमान्यो दुर्गासावित्रिरेव च ११
अतीषङ्गाः पदस्तोभाः सामानि व्याहृतीस्तथा
भारुण्डानि सामानि च गायत्रं रैवतं तथा १२
पुरुषव्रतं च भासं च तथा देवव्रतानि च
अब्लिङ्गं बार्हस्पत्यं तु वाक्सूक्तं मध्वृचस्तथा १३
शतरुद्रि यमथर्वशिरस् त्रिसुपर्णं महाव्रतम्
गोसूक्तं चाश्वसूक्तं च शुद्धाशुद्धीये सामनी १४
त्रीणाज्यदोहानि रथन्तरं च अग्नेर्व्रतं वामदेव्यं बृहच्च
एतानि जप्तानि पुनन्ति जन्तूञ् जातिस्मरत्वं लभते यदीच्छेत् १५
अग्नेरपत्यं प्रथमं सुवर्णं भुर्वैष्णवी सूर्यसुताश्च गावः
तासामनन्तं फलमास्नुवीत यः काञ्चनं गां च महीं च दद्यात् १६
उपरुन्धन्ति दातारं गौरश्वः कनकं क्षितिः
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृते १७
वैशाख्यां पौणमास्यां तु ब्राह्मणान्सप्त पञ्च वा
तिलान्क्षौद्रे ण संयुक्तान् कृष्णान्वा यदि वेतरान् १८
प्रीयतां धर्मराजेति यद्वा मनसि वर्तते
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति १९
सुवर्णानाभं कृत्वा तु सखुरं कृष्णमार्गजम्
तिलैः प्रच्छाद्य यो दद्यात् तस्य पुण्यफलं शृणु २०
ससुवर्णगुहा तेन सशैलवनकानना
चतुर्वक्त्रा भवेद्दत्ता पृथिवी नात्र संशयः २१
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसैषी
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति सर्वं तरति दुष्कृतमिति २२
इति वासिष्ठधर्मशास्त्रे ऽष्टविंशो ऽध्यायः २८
दानेन सर्वान्कामानवाप्नोति १
चिरजीवित्वं ब्रह्मचारी रूपवान् २
अहिंस्यु-पपद्यते स्वर्गम् ३
अग्निप्रवेशाद्ब्रह्मलोकः
४
मौनात्सौभाग्यम् ५
नागाधिपतिरुदकवासात् ६
निरुजः क्षीणकोषः ७
तोयदः
सर्वकामसमृद्धः ८
अन्नप्रदाता सुचक्षुः स्मृतिमान् ९
मेधावी
सर्वतोभयदाता १०
गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ११
शय्यासनदानादन्तःपुराधिपत्यम् १२
छत्रदानाद-गृहलाभः १३
गृहप्रदो नगरमाप्नोति १४
उपानत्प्रदाता यनमासादयते १५
अथाप्युदाहरन्ति
यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति १६
विप्रायाचमनार्थं तु दद्यात्पूर्णकमण्डलुम्
प्रेत्य तृप्तिं पुरां प्राप्य सोमपो जायते पुनः १७
अनडुहां सहस्रानां दत्तानां धूर्यवाहिनां
सुपात्रे विधिवद्दानं कन्यादानेन तत्समम् १८
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती
अतिदानं हि दानानां विध्यदानं ततोऽधिकं १९
आत्यन्तिकफलप्रदं भोक्षसंसारमोचनम्
यो ऽनसूयुरिमं विद्वान् आचारमनुवर्तते २०
श्रद्दधानः शुचिर्दान्तो धारयेच्छ्रुणुयादपि
विहाय सर्वपापानि नाकपृष्ठे महीयत इति नाकपृष्ठे महीयत इति २१
इति वासिष्ठधर्मशास्त्रे एकोनत्रिंशो ऽध्यायः २९
धर्मं चरत माधर्मं सत्यं वदत मानृतम्
दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् १
ब्राह्मणो भवत्यग्निः २
अग्निर्वै ब्राह्मण इति श्रुतेः ३
तच्च कथम् ४
तत्र
सदो
ब्राह्मणस्य शरीरं वेदिः सङ्कल्पो यज्ञः पशुरात्मा रशना बुद्धिः सदो
मुखमाहवनीयं नाभ्यामुदरोऽग्निर्गार्हपत्यः प्राणो
ऽध्वर्युरपानो होता व्यानो ब्रह्मा समान
उद्गातात्मेन्द्रि याणि यज्ञपात्राणि य
एवं विद्वानिन्द्रि यैरिन्द्रि यार्थं जुहोतीत्यपि च काठके विज्ञायते
५
अथाप्युदाहरन्ति
पाति त्राति च दातारम् आत्मानं चैव किल्विषात्
वेदेन्धनसमृद्धेषु हुतं विप्रमुखाग्निषु ६
न स्कन्दते न व्यथते नैनमध्यापतेच्च यत्
वरिष्ठमग्निहोत्रात्तु ब्राह्मणस्य मुखे हुतम् ७
ध्यानाग्निः सत्योपचयनं क्षान्त्याहुतिः स्रुवं ह्रीः पुरोडाशमहिंसा सन्तोषो
यूपः कृच्छ्रं भूतेभ्यो ऽभयदाक्षिण्यामिति कृत्वा क्रतु मानसं याति क्षयं बुधः ८
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
जीवनाशा धनाशा च जीर्व्यतो ऽपि न जीर्यति ९
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः
यासौ प्राणान्तिको व्याधिस् तां तृष्णां त्यजतः सुखमिति १०
नमोऽस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातवे वसिष्ठाय वसिष्ठायेति ११
इति वासिष्ठधर्मशास्त्रे त्रिंशो ऽध्यायः ३०
समाप्तं चेयं श्रिवासिष्ठधर्मशास्त्रम्