०२

०१ कर्मापवर्गे ब्राह्मणभोजनम् ...{Loading}...

कर्मापवर्गे ब्राह्मणभोजनं १

०२ वाग्रूपवयःश्रुतशीलवृत्तानि गुणाः ...{Loading}...

वाग्रूपवयःश्रुतशीलवृत्तानि गुणाः २

०३ श्रुतं तु सर्वानत्येति ...{Loading}...

श्रुतं तु सर्वानत्येति ३

०४ न श्रुतमतीयात् ...{Loading}...

न श्रुतमतीयात् ४

०५ अधिदैवमथाध्यात्ममधियज्ञमिति त्रयम् मन्त्रेषु ...{Loading}...

अधिदैवमथाध्यात्ममधियज्ञमिति त्रयम् मन्त्रेषु ब्राह्मणे चैव श्रुतमित्यभिधीयते ५

०६ क्रियावन्तमधीयानं श्रुतवृद्धं तपस्विनम् ...{Loading}...

क्रियावन्तमधीयानं श्रुतवृद्धं तपस्विनम् भोजयेत्तं सकृद्यस्तु न तं भूयः क्षुदश्नुते ६

०७ यां तितर्पयिषेत्काञ्चिद्देवतां सर्वकर्मसु ...{Loading}...

यां तितर्पयिषेत्काञ्चिद्देवतां सर्वकर्मसु तस्या उद्दिश्य मनसा दद्यादेवंविधाय वै ७

०८ नैवंविधे हविर्न्यस्तं न ...{Loading}...

नैवंविधे हविर्न्यस्तं न गच्छेद्देवतां क्वचित् निधिरेष मनुष्याणां देवानां पात्रमुच्यते ८