१५

शा १५,१
अथ वंशः । ॐ नमो ब्रह्मणे नम आचार्येभ्यः । गुणाख्याच् छाङ्खायनाद् अस्माभिर् अधीतम् । गुणाख्यश् शाङ्खायनः कहोऌआत् कौषीतकेः । कहोऌअः कौषीतकिर् उद्दालकाद् आरुणेः । उद्दालक आरुणिः प्रियव्रतात् सौमापेः । प्रियव्रतः सौमापिः सोमपात् । सोमपः सौमात् प्रातिवेश्यात् । सौमः प्रातिवेश्यः प्रतिवेश्यात् । प्रतिवेश्यो बृहद्दिवात् । बृहद्दिवः सुम्नयोः । सुम्नयुर् उद्दालकात् । उद्दालको विश्वमनसः । विश्वमना व्यश्वात् । व्यश्वः साकमश्वात् । साकमश्वो देवरातात् । देवरातो विश्वामित्रात् । विश्वामित्र इन्द्रात् । इन्द्रः प्रजापतेः । प्रजापतिर् ब्रह्मणः । ब्रह्मा स्वयम्भूः । नमो ब्रह्मणे नमो ब्रह्मणे ॥

इति शाङ्खायनारण्यके पञ्चदशमो ऽध्यायः ॥

इति शाङ्खायनारण्यकं समाप्तम् ॥