१३

शा १३,१
अथातो वैराग्यसंस्कृते शरीरे ब्रह्मयज्ञनिष्ठो भवेत् । अप पुनर्मृत्युं जयति । तद् उ ह वात्मा द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति । तम् एतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चेति माण्डूकेयः । तस्माद् एवंविच् छान्तो दान्त उपरतस् तितिक्षुः श्रद्धावित्तो भूत्वात्मन्य् एवात्मानं पश्येद् इति माण्डव्यः । यो ऽयं विज्ञानमयः पुरुषः प्राणेषु स एष नेति नेत्य् आत्मा न गृह्य इदं ब्रह्मेदं क्षत्रम् इमे देवा इमे वेदा इमे लोका इमानि सर्वाणि भूतानीदं सर्वं यद् अयम् आत्मा । स एष तत् त्वम् असीत्य् आत्मावगम्यो ऽहं ब्रह्मास्मीति । तद् एतद् ब्रह्मापूर्वम् अपरम् अनपरम् अनन्तरम् अबाह्यम् अयम् आत्मा ब्रह्म सर्वानुभूर् इत्य् अनुशासनम् इति याज्ञवल्क्यः । तद् एतन् नापुत्राय नानन्तेवासिने वा ब्रूयाद् इति । य इमाम् अद्भिः परिगृहीतां वसुमतीं धनस्य पूर्णां दद्याद् इदम् एव ततो भूय इदम् एव ततो भूय इत्य् अनुशासनम् । ताम् एताम् उपनिषदं वेदशिरो न यथा कथं चन वदेत् । तद् एतद् ऋचाभ्युदितम् ॥
इति शाङ्खायनारण्यके त्रयोदशमो ऽध्यायः ॥