१२

शा १२,१
ओम् । हस्तिवर्चसं प्रथतां बृहद् वयो यद् अदित्यै तन्वः सम्बभूव । तन् मह्यं समदुः सर्व एत आदित्यासो अदित्या संविदानाः ॥१॥ यत् ते वर्चो जातवेदो बृहद् भवत्य् आहितम् । तेन मा वर्चसा त्वम् अग्ने वर्चस्विनं कुरु ॥२॥ यच् च वर्चो वा पुरुषे यच् च हस्तिष्व् आहितम् । सुवर्णे गोषु यद् वर्चो मयि तद् धस्तिवर्चसम् ॥३॥ यद् अक्षेषु हिरण्येषु गोष्व् अश्वेषु यद् यशः । सुरायां पूयमानायां मयि तद् धस्तिवर्चसम् ॥४॥ मयि भर्गो मयि महो मयि यज्ञस्य यद् यशः । तन् मयि प्रजापतिर् दिवि दिवम् इव दृंहतु ॥५॥

शा १२,२
अश्विना सारघेण मा सम् अङ्क्तां मधुना पयः । यथा मधुमतीं वाचम् आवदानि जनेषु ॥६॥ घृताद् उल्लुप्तो मधुमान् पयस्वान् धनञ्जयो धरुणो धारयिष्णुः । रुजन् सपत्नान् अधरांश् च कृण्वन् आ रोह मां महते सौभगाय ॥७॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जतानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥८॥ अयं सनो नुदतां मे सपत्नान् इन्द्र इव वृत्रं पृतनासु साऌहा । अग्निर् इव कक्षं विभृतः पुरुत्रा वातेषु नस् तिग्मजम्भो ऽनु मार्ष्टि ॥९॥ अयं सनो यो ऽनुवादी कील इव वृत्रं वि पुरो रुरोज । अनेनेन्द्रो वि मृधो विहत्या शत्रूयताम् आभरा भोजनानि ॥१०॥

शा १२,३
जयेन्द्र शत्रूञ् जहि शूर दस्यून् वृत्रं हत्वेव कुलिशेना वि वृश्च । औघ इव शापान् प्र णुदात् सपत्नाञ् जह्यात् सपत्नान् स्वधितिर् वनेव ॥११॥ अनु वृश्च मध्यात् प्रति वृश्चोपरिष्टाद् वि वृश्च पश्चात् प्रति शूर वृश्च । त्वया प्रणुत्तान् मघवन्न् अमित्रान् शूर रिषन्तं मरुतो ऽनु यन्तु ॥१२॥ त्वां रुद्रैर् हेतिभिः पिन्वमाना इन्द्रं मन्वाना मरुतो जुषन्त । सुपर्णाः कङ्काः प्र मृशन्तो एनान् महीयतां दंष्ट्री वर्धनेषु ॥१३॥ ब्रह्मणुत्तस्य मघवन् पृतन्यतो विष्वग् इन्द्र भङ्गाः पतन्तु । मा ज्ञातारम् ईशत मा प्रतिष्ठां मिथो विघ्नाना उप यान्ति मृत्युम् ॥१४॥ अग्ने यशस्विन् यशसे सम् अर्पयेन्द्रवतीम् अपचितिम् इहा वह । अयं मूर्धा परमेष्ठी सुवर्चाः सजातानाम् उत्तमश्लोको अस्तु ॥१५॥

शा १२,४
भद्रं पश्यन्त उप सेदुर् आगन् ततो दीक्षाम् ऋषयः स्वर्विदः । ततः क्षत्रं बलम् ओजश् च जातं तद् अस्मै देवा अभि सं नमन्ताम् ॥१६॥ धाता विधाता परमोत सन्दृक् प्रजापतिः परमेष्ठी सुवर्च्चाः । स्तोमांश् छन्दांसि निविदो म आहुर् एतस्मै राष्ट्रम् अभि सं नमन्ताम् ॥१७॥ अभ्य् आ वर्तध्वम् उप सेवताग्निम् अयं शास्ताधिपतिर् नो अस्तु । अस्य विज्ञानम् अनु सं रभध्वम् इमं पश्चाद् अनु जीवाथ सर्वे ॥१८॥ अलर्दो नाम जातो ऽसि पुरा सूर्यात् पुरोषसः । तं त्वा सपत्नक्षयणं वेदाथ विष्टम्भजम्भनम् ॥१९॥ नार्धे प्रमीयेत तरेद् द्विषन्तं कल्पेत वाक्यं पृतनाः सहेत । प्रमायुकं तस्य द्विषन्तम् आहुर् इरामणिं बैल्वं यो बिभर्त्ति ॥२०॥

शा १२,५
न स शप्तम् अश्नाति किल्बिषं कृतं नैनं दिव्यो वरुणो हन्ति भीतम् । नैनं क्रुद्धं मन्यवो ऽभि यन्तीरामणिं बैल्वं यो बिभर्त्ति ॥२१॥ नास्य त्वचं हिंसति जात्वेदा न मांसम् अश्नाति न हन्ति तानि । शतायुर् अस्मिञ् जरदष्टिः प्रैतीरामणिं बैल्वं यो बिभर्त्ति ॥२२॥ नास्य प्रजा दुष्यति जायमाना न शैलगो भवति न पापकृत्या । नान्यन् मिथस् तस्य कुलेषु जायत इरामणिं बैल्वं यो बिभर्त्ति ॥२३॥ नास्यापवादा न प्रवादका गृहे न सम्पतत्र्यो न विवेश तस्मै । नास्मिन्न् अलक्ष्मीः कुरुते निवेशनम् इरामणिं बैल्वं यो बिभर्त्ति ॥२४॥ नैनं रक्षो न पिशाचो हिनस्ति
न जम्भको नाप्य् असुरो न यक्षः । न सूतिका तस्य कुलेषु जायते इरामणिं बैल्वं यो बिभर्त्ति ॥२५॥

शा १२,६
नैनं व्याघ्रो न वृको न द्वीपी न श्वापदं हिंसति किञ्चनैनम् । न हस्तिनं क्रुद्धम् उपैति भीतिम् इरामणिं बैल्वं यो बिभर्त्ति ॥२६॥ नैनं सर्पो न पृदाकुर् हिनस्ति न वृश्चिको न तिरश्चीनराजिः । नैनं कृष्णो ऽहिर् अभि संहत इरामणिं बैल्वं यो बिभर्त्ति ॥२७॥ नैनं प्रमत्तं वरुणो हिनस्ति न मकरो न ग्रहः शिंशुमारः । पारावराच् छिवम् अस्मै कृणोतीरामणिं बैल्वं यो बिभर्त्ति ॥२८॥ प्रमायुकम् अस्य द्विषन्तम् आहुः । पुष्पम् इव छिन्नं सह बन्धनेन । ओघ इव शापान् प्र णुदात् सपत्नान् । इरामणिं बैल्वं यो बिभर्त्ति ॥२९॥ अयं मणिः प्रतिसरो
जाम्बो जीवाय बध्यते । अनेनेन्द्रो वृत्रम् अहन्न् ऋषिणा च मनीषिणा ॥३०॥

शा १२,७
सहेन्द्र द्विषतः सहस्वारातीः सहस्व पृतनायतः । नाग इव पूर्वपादाभ्याम् अभि तिष्ठ पृतन्यतः ॥३१॥ आगाद् अयं बैल्वो मणिः सपत्नक्षपणो वृषा । तं पश्यन्ति कवयः सर्ववीरा यथा सपत्नान् समरे सहेयुः ॥३२॥ अनृतं मे मणौ सूत्रम् अश्विनाव् अपि नह्यताम् । बैल्वः सहस्रवीर्यो ऽसि मा ते भर्ता रिषम् अहम् ॥३३॥ घृताद् उल्लुप्तो मधुमान् पयस्वान् धनञ्जयो धरुणो धारयिष्णुः । रुजन् सपत्नान् अधरांश् च कृण्वन् आ रोह मां महते सौभगाय ॥३४॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जतानि परि ता बभूव । यत्कामस् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३५॥ शास इत्था महाṁ असीति पञ्च ॥

शा १२,८
अथातो मणिकल्पः । भूतिकामः पुष्पेण त्रिरात्रोपोषितो जीवतो हस्तिनो दन्तान् मात्राम् उद्धृत्याग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्व् आच्योत्तरतो ऽग्नेः कंसे मणिं कृत्वा हुत्वा होमान् मणौ सम्पातम् आनयेत् । हस्तिवर्चसम् इत्य् एताभिः प्रत्यृचम् अष्टाभिः सप्तरात्रं मधुसर्पिषोर् वासयित्वा त्रिरात्रम् एकां वा बध्नीयाद् घृताद् उल्लुप्त इत्य् एतयर्चा । अत एवोत्तरं षड्भिर् हृदयशूलाग्रमणिं प्रतोदाग्रमणिं वा मुशलाग्रमणिं वा खदिरसारमणिं वा मांसौदने वासयित्वा त्रिरात्रम् एकां वा बध्नीयात् । अत एवोत्तरं चतसृभिर् वृषभशृङ्गाग्रमणिं घृतौदने वासयित्वा त्रिरात्रम् एकां वा बध्नीयात् । अत एवोत्तरं एकयैरण्डमणिं तिलौदने वासयित्वा त्रिरात्रम् एकां वा बध्नीयात् । अत एवोत्तरं षोऌअशभिर् बैल्वं सप्तरात्रं मधुसर्पिषोर् वासयित्वा त्रिरात्रम् एकां वा बध्नीयाद् घृताद् उल्लुप्त इत्य् एतयर्चा । अत एवोत्तरं पञ्चभिर् महावरास्योदोहं मुद्गौदने वासयित्वा त्रिरात्रम् एकां वा बध्नीयाच् छक्तौ सति प्रथमं हस्तिछायायां वैयाघ्रे वापि चर्मण्य् आसीनो वापि जुहुयाद् आसीनो वापि जुहुयात् ॥
इति शाङ्खायनारण्यके द्वादशमो ऽध्यायः ॥